सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 451, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 451

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२५
इदानीं कलत्रत्रययोगमाह - वित्त इति । वित्ते = लग्नाद् द्वितीयभावे पापबहुत्वे =
अधिकपापग्रहे सति कलत्रेशे = सप्तमेशे च तथास्थिते = अदृश्येऽस्तङ्गते वा सति केतौ
शत्रुभावगते च जातः कलत्रत्रयभाग् भवेत् । अस्मिन्योगे जातस्य स्त्रीत्रयं भवतीति । सर्वा-
र्थचिन्तामणावपि कलत्रत्रययोगः-
“वित्ते पापबहुत्वे तु कलत्रे वा तथाविधे ।
तदीशे पापसन्दृष्टे कलत्रत्रयभाग्भवेत्”॥ इति ॥ २० ॥
द्वितीय स्थानमें बहुत पापग्रह हों सप्तमेश भी पाप युक्त हो और शत्रुस्थान (छठे) में
केतु हो तो जातककी तीन स्त्रियाँ होवें ॥ २० ॥
केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे ।
कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१ ॥
इदानीं बहुस्त्रीयोगमाह - केन्द्रेति । दारेशे = सप्तमेशे स्वोच्चमित्रस्ववर्गगे सति वा
केन्द्रत्रिकोणे ( १।४।७।१०।५।५ ) गतवति वा कर्माधिपेन = कर्म-(दशम-) भावपतिना
दृष्टे सति जातो नरः बहुस्त्रीसहितः = अत्यधिककलत्रवान् भवति ॥ २१ ॥
सप्तमेश अपनी उच्चराशि, मित्रगृह, स्ववर्गमें होकर केन्द्रत्रिकोणमें हो वा कर्मेश उसे
देखता हो तो जातक बहुत स्त्रीसे युक्त हो ॥ २१ ॥
कलत्राधिपतौ केन्द्रे शुभग्रहानिरीक्षिते ।
शुभांशे शुभराशौ वा पत्नी व्रतपरायणा ॥ २२ ॥
इदानीं व्रतपरायणां स्त्रियमाह-कलत्रेति । कलत्राधिपतौ = सप्तमेशे केन्द्रे (१।४।७।१०)
शुभांशे = शुभग्रहनवांशे, शुभराशौ वा व्यवस्थिते तस्मिन् शुभग्रहेण निरीक्षिते सति जातस्य
पत्नी = स्त्री, व्रतपरायणा = पातिव्रत्यैकनियमा भवति ॥ २२ ॥
सप्तमेश केन्द्रमें हो शुभग्रह उसको देखता हो शुभांश वा शुभराशि में हो तो जातक
की पत्नी व्रतमें तत्पर रहे (स्त्री पतिभक्त होवे) ॥ २२ ॥
दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे ।
पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३ ॥
इदानीं पतिघ्नीं स्त्रियमाह - दाराधिप इति । सोमसुते = बुधे दाराधिपे = सप्तमेशे सति
सपापे = केनचित्पापग्रहेण सहिते नीचारिवर्गे, रिपुनाश-(६।८) भावे वा गतवति, वा
पापान्तरे = पापद्वयमध्यगते (एकेन पापेन संयुक्तः, एकः पापो द्वयाद् द्वितीयोऽन्यो द्वादशे
भवेदिति) तस्मिन् पापदृशा समेते वा जातस्य जाया पतिघ्नी = पतिनाशिनी, कुलनाशिनी =
वंशोन्मूलिनी च भवेदिति ॥ २३ ॥
सप्तमेश बुध पापग्रहके साथ नीच या शत्रुवर्गका होकर शत्रुभाव या अष्टम भावमें हो,
पापग्रहोंके बीचमें हो उसपर पापग्रहकी दृष्टि हो तो उसकी स्त्री पतिको मारनेवाली
कुलनाशिनी होवे ॥ २३ ॥
शुभांशे शुभसंदृष्टे नाथे जाया सुवंशजा ।
पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४ ॥
स्पष्टार्थः ॥ २४ ॥
सप्तमेश शुभांशमें शुभदृष्ट हो तो स्त्री अच्छे वंशकी हो । यदि सप्तमेश पापयुत पापवर्ग
में हो तो उसकी स्त्री कुवंशोत्पन्ना होवे ॥ २४ ॥
कामस्थाने सखेटे सितयुतखचरैर्दारसंख्यां वदन्ति
स्वोच्चस्थव्योमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ॥