सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 447, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 447

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२१
का सन्तान न हो। यदि गुरु, बुध, वा चन्द्र सप्तममें हों तो बहुत स्त्रियोंसे भोग करे।
बलवान् शुक्र सप्तममें हो तो बहुत स्त्रियोंका पति हो ॥ ४ ॥
शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा
शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् ।
लग्नास्तव्ययगेषु पापखचरेष्विन्दौ सुते दुर्बले
बन्ध्यास्त्रीपतिरेव जातमनुजो जायाविहीनोऽथवा ॥ ५ ॥
शुक्राराविति । शुक्रारौ = शुक्रमङ्गलौ, मदगौ = सप्तमभावगतौ भवेतां तदा जातः
कलत्ररहितः = स्त्रीविहीनः (मृतभार्य इति यावत्) भवति । तावेव शुक्रारौ धर्मात्मज-
स्थौ = नवमपञ्चमगतौ भवेतां तदा तथा = कलत्ररहितः स्यात् । तथा च सारावल्याम्—
यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः ।
धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम्” इति ॥
शत्रुस्थानगताविति । निशाकरसितौ = चन्द्रशुक्रौ यदि शत्रुस्थानगतौ = षष्ठभावगतौ
भवेतां तदाजातस्यैकपुत्रः भवेत् । लग्नास्तेति । पापखचरेषु = पापग्रहेषु, लग्नास्तव्यय-
गेषु = लग्नसप्तमद्वादशभावेषु व्ययस्थितेषु, दुर्बले = निर्बले (क्षीणे) इन्दौ = चन्द्रे, सुते=
पञ्चमभावे च गतवति सति जातमनुजः = समुद्भूतो नरः, बन्ध्यास्त्रीपतिः = अप्रजायाः
स्त्रिया भर्त्ता भवति, अथवा जायाविहीनः = स्त्रीविहीनो भवति । अस्मिन्योगे जातस्य स्त्री
बन्ध्या (बाँझिन) भवति, वा असौ पुरुषः स्त्रीरहितः स्यादिति । तथा च सारावल्याम्—
लग्नव्ययमदनस्थैः पापैः क्षीणे निशाकरे धीस्थे ।
स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम्” इति ॥ ५ ॥
शुक्र और मङ्गल सप्तममें हों तो जातक स्त्रीसे रहित होवे । नवम और पञ्चममें हों
तो भी यही फल जाने । यदि चन्द्रमा और शुक्र शत्रु स्थानमें हों तो जातकको एक पुत्र
हो । लग्न, सप्तम और द्वादशमें पापग्रह हों निर्बल चन्द्रमा पञ्चम भावमें हो तो जातक
बन्ध्या (बाँझिन) स्त्रीका पति होवे, वा स्त्रीसे रहित होवे ॥ ५ ॥
बन्ध्यापतिः सितरवी सदनोदयस्थौ चन्द्रोदये समगृहे ललनाकृतिः स्यात् ॥
पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुंग्रहेक्षितयुते सति मिश्ररूपम् ॥ ६ ॥
बन्ध्यापतिरिति । सितरवी = शुक्रसूर्यौ, मदनोदयस्थौ = सप्तमस्थौ लग्नस्थौ वा
भवेतां तदा जातः बन्ध्यापतिः भवति । चन्द्रोदये = चन्द्राश्रिते लग्ने, समगृहे = २।४।६।
८।१०।१२ एतदन्यतमराशौ सति जातो नरः ललनाकृतिः = योषित्प्रकृतिः भवति । पुंरा-
शिग इति । चन्द्रोदये पुरुष- ( १।३।५।७।९।११ एतदन्यतम-) राशिगते सति जातस्य
कलत्रं = स्त्री, पुरुषभावयुतं = पुरुषाकृतिः भवति । तस्मिन्नेव लग्नाश्रितचन्द्रे यत्र तत्र
स्त्रीपुंग्रहेक्षितयुते = स्त्रीग्रहेण पुरुषग्रहेण च दृष्टे वा संयुक्ते सति मिश्ररूपं = स्त्रीपुरुषसंयुक्ता-
कृतिर्भवति । तत्र कथितलक्षणलक्षिते चन्द्रोदये समराशौ पुरुषस्य मिश्ररूपम्, विषमराशौ
तत्स्त्रिया मिश्ररूपमिति वाच्यम् ॥ ६ ॥
शुक्र और सूर्य सप्तम या लग्नमें हों तो जातक बन्ध्यापति हो । चन्द्रमा उदय (लग्न)
में समगृहमें हो तो जातक स्त्रीके आकृतिका हो । पुरुषराशि (विषमगृह) में हो तो
स्त्री पुरुष आकृतिवाली हो । यदि मिश्र ग्रहसे दृष्टयुत हो तो मिश्रित-रूपा हो ॥ ६ ॥
भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् ।
जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यौवने भर्तृहीना ॥ ७ ॥
भौमांश इति । विलग्नात्=पुरुषस्य जन्मलग्नात् कामस्थाने=सप्तमे भावे, वा
वधूनाम् = स्त्रीणाम्, जन्मभे = जन्मलग्ने भौमांशे=मेषवृश्चिकान्यतरराशिनवांशे वा भौम-
३६ जा०