जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 444, कुल 588 में से
संदर्भ में पढ़ें४१८ सटीकजातकपारिजाते-
नेत्ररोग, शनि हो तो वातव्याधि, राहु-केतु हों तो पेट में रोग हो। लग्नेश बुधके गृह
(३।६) में हो और बुधसे देखा जाता हो वा युक्त हो तो गुह्यस्थानमें व्रण करता है ॥७८॥
लग्नाद्यिद्राशिगते फणीशे शुक्रेक्षिते तत्तनुचिह्नमेति ॥
मन्दाहियुक्ते रिपुराशिनाथे तुरङ्गपश्वादिभयं वदन्ति ॥ ७९ ॥
लग्नादीति । फणीशः = राहुः लग्नादि-यद्राशिगतः = लग्नाद्यस्मिन् स्थाने स्थितः
शुक्रेण दृष्टश्च भवेत् तत्स्थानं 'कादिविलग्नविभक्तभगात्रः' ( अ० ३, श्लो० ७६ द्र० ) इत्य-
नेन यस्मिन्नङ्गे भवेत्तत्तन्नौ = तदङ्गे, चिह्नमेति = व्रणादिचिह्नं भवति । अथ रिपुराशिनाथे =
षष्ठभावेशे मन्दाहियुक्ते=शनिराहुभ्यां सहिते सति जातस्य तुरङ्गपश्वादिभयं = घोटकादिच-
तुष्पदेभ्यो भयं मनीषिणः वदन्ति ॥ ७९ ॥
लग्नादि जिस राशिमें राहु हो, शुक्र उसको देखता हो तो वह राशि शरीरमें जिस
स्थानका हो उस जगह व्रण कहे। शत्रुस्थानका मालिक शनि-राहुसे युक्त हो तो घोड़ा
आदि पशुओंसे भय होता है ॥ ७९ ॥
पापग्रहेण संदृष्टे बलहीनेऽरिनायके । पापान्तरगते वाऽपि शत्रुपीड़ा भविष्यति ॥
शत्रुस्थानाधिपे दुःस्थे नीचमूढारिराशिगे। लग्नेशे बलसंयुक्ते शत्रुनाशं वदेद्बुधः ॥
इदानीं शत्रोः पीडां शत्रुनाशञ्चाह-पापग्रहेणेतिद्वाभ्याम् । अरिनायके = षष्ठभावेशे,
बलहीने, पापग्रहेण संदृष्टे च, अपि वा पापान्तरगते = पापद्वयमध्यगते सति जातस्य
शत्रोः सकाशात् पीडा = दुःखं भविष्यति । अस्मिन्योगे जातस्य शत्रुद्वारेण दुःखं भवति ।
न कदाविच्छत्रुणा तज्जातस्य शुभं सम्भाव्यत इति भावः ।
शत्रुस्थानाधिपे = षष्ठभावेशे, दुःस्थे, नीचे, अस्तङ्गते, शत्रुगृहं गते वा तथा लग्नेशे=
जन्मलग्नाधिपतौ बलसंयुक्ते सति बुधः शत्रुनाशं = जातस्य रिपोः मरणं वदेत् । अस्मिन्
योगे जातस्य शत्रुर्म्रियते इति भावः ॥ ८०-८१ ॥
षष्ठ स्थानका मालिक बलहीन हो पापग्रहसे देखा जाता हो, वा पापग्रहोंके बीच हो
तो शत्रुसे पीड़ा होती है ॥ ८० ॥
शत्रुभावेश दुष्ट स्थानमें हो नीच, अस्तङ्गत, शत्रु राशिमें हो लग्नेश बली हो तो शत्रु
का नाश कहना चाहिये ॥ ८१ ॥
षष्ठेशे गोपुरांशादौ दिवाकरनिरीक्षिते । लग्नेशे बलसम्पूर्णे ज्ञातीनामुपकारकृत् ॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते त्रयोदशोऽध्यायः ॥१३॥
इदानीं ज्ञातीनामुपकारकृतं जातकमाह-षष्ठेश इति । षष्ठेशे = षष्ठभावपतौ, गोपुरां-
शादौ = गोपुरादिवैशेषिकांशे ( १ अ० श्लो० ४५-४७ ) विद्यमाने, दिवाकरनिरीक्षिते =
सूर्येणावलोकिते, लग्नेशे बलसम्पूर्णे = परिपूर्णबलान्विते च सति जातो नरो ज्ञातीनामुपका-
रकृत् = स्ववंशजानामुपकृतिकरो भवतीति ॥ ८२ ॥
इति षष्ठभावफलानि ।
पारिजाते सुधा टीका कपिलेश्वररचिता ।
अध्याये विश्व (१३) सङ्ख्येऽस्मिन् पूर्ति भावफले गता ॥ १३ ॥
षष्ठेश गोपुरांशादिमें हो उसको सूर्य देखता हो लग्नेश परिपूर्णबली हो तो जातक
जातिका उपकार करनेवाला होता है ॥ ८२ ॥
इति वैद्यनाथदैवज्ञविरचिते जातकपारिजाते त्रयोदशाध्याये पञ्चमषष्ठभावफले
'विमला' हिन्दी टीका समाप्ता ॥ १३ ॥
-०००००-