जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 442, कुल 588 में से
संदर्भ में पढ़ेंकश्चिद् ग्रहो यदि शत्रुस्थानगतः = षष्ठभावगतः स्यात् तदा अनेकारातिजनः=बहुशत्रुजनै-
र्युक्तः, बहुक्षततनुः = बहुव्रणादिपीडितगात्रश्च भवेत् । षष्ठाधिपः = षष्ठेशो वा तथा = अरि-
नीचगृहगः, वक्रं गतोऽस्तगो वा भवेत्तदाऽपि तथा फलं भवेत् । भास्करमुखव्योमाट-
नेषु = सूर्यादिग्रहेषु, षष्ठस्थानगतेषु = शत्रु-(६) भावगतेषु जातो नरः क्रमात् तत्तत्कारक-
खेटवर्गरिपुणा = यो ग्रहः षष्ठगतो भवति तस्य यो वर्गः (वर्णः) तज्जातीयशत्रुणा सन्ततं =
नित्यम् 'सततानरताश्रान्तसन्तताविरतानिशम् । नित्यानवरताजस्रम्' इत्यमरः, सम्पीड़ितो
भवति । अत्रेदं विचिन्त्यम् । गुरु-शुकौ षष्ठस्थौ भवेतां तदा ब्राह्मणजातीयशत्रुणा सम्पी-
डितो भवेत् । सूर्य-भौमौ षष्ठस्थौ तदा क्षत्रियेण रिपुणा, चन्द्रश्चेत्तदा वैश्येन, बुधश्चेत्तदा
शूद्रेण, शनिश्चेत्तदा म्लेच्छेन सम्पीड़ितो भवेदिति ॥ ७४ ॥
कोई भी ग्रह अपने शत्रुगृहमें होकर, या नीचमें होकर, या वक्री होकर, या अस्त होकर
यदि छठे भावमें हो तो जातक अनेक शत्रुओंसे युत हो तथा उसके शरीरमें बहुत घाव हों।
इसी तरह षष्ठेशके होने पर भी फल होते हैं । सूर्य आदि ग्रहोंके छठे भावमें रहने पर क्रमसे
उनके वर्गके शत्रुसे जातक पीड़ित होता है ॥ ७४ ॥
पापव्योमचराह्वयोऽरिपतितत्प्राप्तेक्षका दुर्बला-
गोवित्तक्षयमामयं रिपुभयं कुर्वन्ति जन्मादितः ।
ते सर्वे बलशालिनो यदि शुभा गोवित्तमश्वादिकं
राजान्नं सकलोपदंशसहितं रोगारिनाशं वदेत् ॥ ७५ ॥
पापेति । अरिपतितत्प्राप्तेक्षकाः = १. षष्ठभावेशः, २. षष्ठभावगतः, ३. षष्ठभावदर्शी चैते
त्रयो ग्रहाः यदि पापव्योमचराः = पापग्रहाः, दुर्बलाः = बलरहिताश्च भवेयुः तदा गोवित्त-
क्षयं=गवां धनानां च नाशम्, आमयं=रोगम्, रिपुभयं=शत्रुभीतिं च जन्मादित एव कुर्वन्ति ।
अथ ते सर्वे=षष्ठेश-षष्ठस्थ-षष्ठद्रष्टारो ग्रहा यदि शुभाः=शुभग्रहाः, बलशालिनः=बलवन्तश्च
भवेयुस्तदा गोवित्तमश्वादिकं, विविधोपस्करयुक्तं राजान्नं, रोगारिनाशं च वदेत् ॥ ७५ ॥
षष्ठेश, षष्ठभावस्थ और षष्ठभावद्रष्टा ये तीनों ग्रह यदि पापग्रह हों और दुर्बल हों तो
जन्मसे ही गौ-धनका नाश, रोग और शत्रुसे भय होता है । यदि वे तीनों ग्रह बली और
शुभग्रह हों तो गौ, धन, घोड़ा आदि सवारी, अनेक सामग्रियोंके सहित, सुन्दर-अन्नकी
प्राप्ति और रोग तथा शत्रु का नाश होता है ॥ ७५ ॥
तेषामम्बरचारिणामतिशुभौ केन्द्रत्रिकोणायगौ
द्वावेतौ बलशालिनौ यदि लघुव्याध्यादिनाशं नृणाम् ।
एकोऽपि प्रबलो यदि व्रणरिपुक्लेशादि किञ्चित् फलं
यत्तत्कारकवर्गमूलमखिलं मोदं प्रमादं तु वा ॥ ७६ ॥
तेषामिति । तेषां = त्रयाणाम्, अम्बरचारिणां = ग्रहाणाम्=अरिपतितत्प्राप्तेक्षकाणाम्,
अतिशुभौ = त्रयाणां मध्येऽतीव शुभग्रहौ द्वौ यदि केन्द्रत्रिकोणाय ( १।४।७।१०।५।६।११ )
गौ भवेताम्, तथा चैतौ द्वौ यदि बलशालिनावपि भवेतां तदा नृणाम् = जनिमताम्,
लघुव्याध्यादिनाशं कुरुतः । अथ तेषां त्रयाणां मध्ये एकोऽपि प्रबलो ग्रहो यदि केन्द्रत्रि-
कोणायगो भवेत् तदा किञ्चित् = ईषदैव व्रणरिपुक्लेशादि फलं कुरुते । अत्र मोदम्=अनुकूलं
( शुभम् ) वा प्रमादं=प्रतिकूलम् ( अशुभम् ) यत् फलमुक्तं तदखिलं तु=सर्वमपि कारक-
वर्गमूलं=यो ग्रहस्तद्योगकरो भवति तन्मूलकं विजानीयात् ॥ ७६ ॥
उन तीनों ( षष्ठेश-षष्ठस्थ-षष्ठदर्शी ) में कोई दो ग्रह अत्यन्त शुभग्रह हों, १।४।७।१०।
५।९।११ इन भावोंमें किसीमें स्थित हों, बलयुक्त हों तो छोटे २ रोगोंका नाश करते