सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 432, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 432

४०६ सठीकजातकपारिजाते-
लग्नमें शनि हो अष्टम गुरु हो पंचममें वा द्वादशमें बलहीन मंगल हो तो कालान्तर
में पुत्र होवे ॥ ४५ ॥
पुत्रान् पञ्चमभात्तृतीयभवनाद् भ्रातॄन् कलत्रात् स्त्रियो
दासीश्च क्षितिराशितः स्वभवनाद्दासाँश्च मित्राणि च ॥
याताँश्चैव नवांशकाञ्छुभदृशा हत्वा तथा रोपयेद् ।
व्योमव्योमकैर्विभज्य तु तथा भूताश्च पुत्रादयः ॥ ४६ ॥
इदानीं पुत्र-भ्रातृ-कलत्र-दास=दासी-मित्राणां विचारस्थानानि तेषां संख्याज्ञान-
माह—पुत्रानिति । पञ्चमभात् = लग्नात्पञ्चमभावतः, पुत्रान्, विचारयेदिति शेषः । तृतीय-
भवनात् = सहजभावतः, भ्रातॄन् । कलत्रात् = सप्तमभावतः स्त्रियश्चिन्तनीया इति । क्षिति-
राशितः = चतुर्थभावात्, दासीश्चिन्तयेत् । स्वभवनात् = द्वितीयभावात्, दासान्, मित्राणि
च विचारयेत् । यातानिति । तत्तत्पञ्चमतृतीयादिभावे यातान् = भुक्तान्, नवांशकान्
(यावन्तो नवांशा भुक्तास्तानिति) शुभदृशा = शुभखेटदृग्दृशा, हत्वा = सङ्गुण्य तथा-
रोपयेत् = स्थापयेत् । अथ च तान् व्योमव्योमकरैः = २०० शतद्वयेन विभज्य तु (पुनः)
तथाभूताः = लब्धिसंख्यामिताः, पुत्रादयः वाच्याः । अत्रेदं खलु विचिन्त्यम् । पञ्चमे,
तृतीये, चतुर्थे, द्वितीये, सप्तमे च भावे यावच्छुभखेटदृग्बलं (२ अ० ३०-३१ श्लो०
द्र०) तेन तत्तद्भावस्य भुक्तनवांशाः सङ्गुणिताः शतद्वयेन भक्ताश्च कार्यास्तदा लब्धमिताः
पुत्रादयो वक्तव्या इति ॥ ४६ ॥
अत्र-युक्तिः—“पुत्रभावोपयुक्तांशतुल्या सङ्ख्या शुभांशके” इति गर्गवचनेन, तथा-
“सङ्ख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा” इति कल्याणवचनेन च
पुत्रादिभावे गतनवांशानां शुभदृष्टिवलानां च सापेक्षत्वात्तयोर्गुणनफले कलामये (दृष्टि-
वलस्य कलामयत्वात्) शतद्वयभक्ते सति (एकस्मिन्नवांशे द्विशतकलात्वात्) लब्धि-
तुल्याः पुत्रादय इति साधूक्तन्तदिति ॥ ४६ ॥
पञ्चम भावसे पुत्रोंका, तृतीयसे भाइयोंका, सातवेंसे स्त्रीका, चौथेसे दासियोंका, दूसरेसे
नौकरों और मित्रोंका विचार करना चाहिये । इन सबकी संख्या जाननेका प्रकार यह है
कि-उस २ भाव पर शुभग्रहोंका जो दृग्बल हो (२ अ० ३०-३१ श्लो० देखिये) उससे
उस भावके गतनवांश संख्याको गुणा करे उसमें २०० से भाग देने पर लब्धि संख्या तुल्य
पुत्रादि जानना चाहिये। सुधाशालिनीकारः ॥ ४६ ॥
पुत्रं सोदरभं कलत्रमुदयं यानं च राशिं विना
तल्लिप्ताः शुभखेटदृग्बलहताः षष्ट्या विभक्ताः क्रमात् ॥
व्योमाकाशकरात्पुत्रसहजस्त्रीदासदासीसुहृत्-
सङ्ख्याः पापनभोगदृग्बलभवाः पुत्रादिनाशप्रदाः ॥ ४७ ॥
पुत्रमिति । पुत्रं = पञ्चमभावम्, सोदरभम्=तृतीयभावम्, कलत्रं=सप्तमभावम्, उदयं=
लग्नम्, यानं = चतुर्थभावम्, राशिं विना कृत्वा = उक्तभावानां राशिसङ्ख्यां परित्यज्य,
तल्लिप्ताः = तत्तद्भावांशादीनां पृथक् पृथक् कलाः, शुभखेटदृग्बलहताः = शुभग्रहाणां दृष्टि-
बलप्रमाणेन गुणिताः, षष्ट्या ६० विभक्ताः, ततः क्रमात् = क्रमशः, व्योमाकाशकरैः २००
आप्ताः (विभक्ताः सन्तः) पुत्र-सहज-स्त्री-दास-दासी-सुहृदां पृथक् पृथक् सङ्ख्याः
भवेयुः । तत्र पापनभोगदृग्बलभवाः पुत्रादिनाशप्रदा भवन्ति । इदमुक्तं भवति । तत्तदुक्त-
भावेषु पापग्रहाणां दृष्टिबलादुक्तविधिना यावत्यः सङ्ख्या आगच्छन्ति तावतां पुत्रादीनां
नाशं ब्रूयादिति ।