सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 43, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 43

राशिशीलाध्यायः ॥१॥ १७
द्वितीयो धनुषः, एवं सप्त वृषान्ता ज्ञेयाः । स्पष्टार्थं सप्तमांशचक्रं विलोक्यम् ।
५ अथ नवांशाः । राशेर्नवमो भागो नवांशो नखलिप्ताधिकांशत्रयात्मकः ३°२०′
तेषां प्रतिराशि नव खण्डानि भवन्ति । तज्ज्ञानविधिमाह-चापाजसिंहराशीनां = धनुर्मेषसिंह-
राशीनां नवांशास्तुम्बुरादयः=मेषादयो भवन्ति । उक्तराशित्रये प्रथमो मेषस्य, द्वितीयो वृष-
स्य, तृतीयो मिथुनस्यैवं धनुरन्ता नव ज्ञेयाः । तेषामधिपाश्च नवांशेशा उच्यन्ते । वृष-
कन्यामृगाणां च, मृगाद्यांः=मकराद्या नव नवांशाः कीर्तिताः । नृयुक्तूलाघटानां च=मिथुन-
तुलाकुम्भानां, तुलाद्यांशांशकाः = नवांशा नव ज्ञेयाः । कर्किवृश्चिकमीनानां कर्कटाद्याः =
कर्काद्या नवांशका भवन्तीति नवांशचक्रं विलोक्यम् ।
अथ वर्गोत्तमाः । चरे = चरराशौ ( मेष-कर्क-तुला-मकरराशौ ) आद्यंशकः = प्रथम-
नवांशो ३।२०′ वर्गोत्तमः = वर्गोत्तमसञ्ज्ञ इति स्मृतः । स्थिरे = ( वृष-सिंह-वृश्चिक-
कुम्भराशौ ) मध्यनवांशकः = पञ्चमो नवांशो ( १३°२०′ तः १६°४०′ पर्यन्तम् ) वर्गो-
त्तमः । द्विस्वभावे ( मिथुन-कन्या-धनु-मीने ) अन्त्यांशकः = नवमो नवांशो ( २६°
४०′ तः ३०° पर्यन्तम् ) वर्गोत्तम इति । तथोक्तं मिहिरेण—
“वर्गोत्तमाश्चरगृहादिषु पूर्वमध्यपर्यन्ततः शुभफला नवभागसञ्ज्ञा” इति ॥
६ अथ दशमांशाः । राशेर्दशमभागा अंशत्रयात्मकाः ३°। ते प्रतिराशि दश भवन्ति ।
ते च, ओजे=विषमराशौ लग्नादिदशमांशेशाः=राश्यादिका दशमांशपतयो भवन्ति । युग्मे=
समराशौ, शुभादिकाः = प्रकृतराशेः शुभादिकाः, शुभो नवमस्तदादिका ज्ञेया इति । तथोक्तं
पाराशर्याम् –
“दिगंशया ततश्चौजे युग्मे तन्नवमाद्भवेत्” ॥
स्पष्टार्थं दशमांशचक्रं विलोक्यम् ।
७ अथ द्वादशांशाः । राशेर्द्वादशभागाः सार्द्धद्वयांशात्मकाः २।३०′ प्रतिराशि द्वादश
भवन्ति । ते तत्तद्राशिवशानुगाः = विचारणीयराशिमारभ्य द्वादशसङ्ख्या द्वादशांशाधिपतयो
भवन्ति । मेषे मेषमारभ्य मीनान्ता एवं सर्वत्र ज्ञेयाः इति । स्पष्टार्थं द्वादशांशचक्रं विलोक्यम् ।
८ अथ षोडशांशाः । एकस्मिन् राशौ षोडश षोडशांशा भवन्ति । प्रतिखण्डमेकोंऽशः
सार्द्धद्विपञ्चाशत्कलासहितो ( १।५२′।३०″ ) भवति । ओज=विषमराशौ, कलांशाः = षोड-
शांशाश्चेतदा विरञ्चिशौरीशदिवाकराश्च = ब्रह्मविष्णुशिवसूर्यास्तदीशा भवन्ति । युग्मे विस-
मे = समराशौ विलोमतः = व्यत्यासेन, भास्कराद्याः = सूर्यशिवविष्णुब्रह्माणः षोडशभागना-
थाः=षोडशांशेशा भवन्तीति । षोडशांशाः कथं गणनीया इति चेत् “चरे मेषात् स्थिरे सिंहाद्
द्वितनौ धनुषः सदा । गणनीयाः षोडशांशा” इति चिन्त्यम् । स्पष्टार्थं चक्रं विलोक्यम् ।
६ अथ त्रिंशांशाः । प्रतिराशि पञ्च त्रिंशांशा भवन्ति । ते त्वोजे = विषमे राशौ,
समीरपवनाष्टकशैलबाणाः, आराकिजीवशशिनन्दनशुक्रभागा भवन्ति । यथा प्रथमं समी-
राः = पञ्चारस्य = भौमस्य । ततः परं पवनाः=पञ्चार्कैः = शनैश्चरस्य । ततः परम् अष्टकाः=
अष्टौ, जीवस्य = गुरोः । ततः परं शैलाः = सप्त, शशिनन्दनस्य = बुधस्य । ततः परं बा-
णाः = पञ्च, शुक्रस्य, भागाः = अंशाः ( त्रिंशांशाः ) भवन्ति । युग्मे = समराशौ, समीर-
गिरिपन्नगपञ्चबाणाः = पञ्च-सप्ताष्ट-पञ्च-पञ्चभागाः, क्रमेण सितविदार्यशनिक्षमाजाः=शुक्र-
बुध-गुरु-शनि-भौमानां त्रिंशांशका भवन्तीति । तथोक्तं वराहेण—
“कुजरविजगुरुज्ञशुक्रभागाः पवनसमीरणकौर्पिजूकलेयाः ।
अयुजि, युजि तु मे विपर्ययस्थाः” इति ।
१० अथ षष्ट्यंशाः । एकस्मिन् राशौ षष्ठिमताः, प्रतिखण्डं त्रिंशत्कलाश्च भवन्ति ।