जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 426, कुल 588 में से
संदर्भ में पढ़ेंगृहाति । अत्रेदमवधेयम् । पञ्चमभावगतग्रहस्य तत्कारकग्रहस्य च मध्ये बलीयसो ग्रहस्य
षड्वर्गे यत्स्थानं ग्रहशून्यं भवेत् तद्ग्रहं यज्जातिकं स्यात्ततो दत्तात्मजं गृहाति जातक इति ॥
लग्नेश और पञ्चमेश दुष्ट स्थानमें हों उन्हें यदि शुभग्रह देखते हों तो दत्तक पुत्रको
देते हैं । पञ्चमभावगत ग्रह और कारकके मध्य जो बली हो उसके षड्वर्गमें जो शून्य स्थान
हो उसी जातिसे दत्तक ग्रहण करे ॥ १३ ॥
केन्द्रत्रिकोणगृहगः सुतपः शुभर्क्षे सौम्यान्वितो यदि सुतं समुपैति बाल्ये ।
भोगीशायुक्तसुतराशिपभुक्तिजातः स्वल्पायुरेति फणिभुक्तिभवश्चिरायुः ॥ १४ ॥
केन्द्रेति । सुतपः = पञ्चमभावेशः, शुभर्क्षे विद्यमानः सन् केन्द्रत्रिकोण-(१।४।७।१०।
५।९) गृहगः स्यात्तथाभूतो यदि सौम्यान्वितः = केनचिच्छुभग्रहेण सहितः स्यात्तदा,
बाल्ये = अल्पवयस्येव सुतं = पुत्रं, समुपैति । अथ पुत्रस्याल्पायुर्दीर्घायुर्योगावाह-भोगीशायु-
क्तेति । भोगीशेन (राहुणा) युक्तस्य सुतराशिपस्य (पञ्चमेशस्य) भुक्तिजातः = दशा-
न्तर्दशाकाले समुद्भूतः पुत्रः स्वल्पायुः = अल्पजीवित्वं, फणिभुक्तिभवः (पञ्चमेशयुक्तस्य
राहोर्भुक्तिकाले जायमानः) चिरायुः = दीर्घायुष्ट्वमेति ॥ १४ ॥
शुभराशिस्थ पञ्चमेश केन्द्र-त्रिकोणमें हो शुभ युत हो तो बाल्यावस्थामें ही पुत्रप्राप्ति
हो । राहुसे युक्त पञ्चमेशकी अन्तर्दशामें उत्पन्न हो तो अल्पायु हो और राहुभुक्तिमें
चिरायु पुत्र प्राप्त करे ॥ १४ ॥
पुत्रस्थानपवित्तपौ गतबलौ पापेक्षिते पुत्रभे
जातोऽनेककलत्रवानपि सुताभावं समेति ध्रुवम् ।
तज्जाया यदि पुत्रयोगजनिता सौम्येन वा पञ्चमात्
षष्ठेशेन निरीक्षिते सुतवती जारेण सञ्जायते ॥ १५ ॥
इदानीं सुताभावयोगं जारपुत्रयोगञ्चाह-पुत्रस्थानपवित्तपाविति । पञ्चमेश-द्वि-
तीयेशौ यत्र तत्र गतबलौ भवेतां तथा पुत्रभे=पञ्चमभावे पापेक्षिते सति जातो नरोऽनेक-
कलत्रवानपि=बहुदारोऽपि, ध्रुवं = निश्चयेन सुताभावम्=अपुत्रत्वं समेति । अस्मिन् योगे जा-
तस्य बहुविवाहे कृतेऽपि न कस्यामपि स्त्रियां पुत्रो जायत इत्यर्थः । अथ तज्जाया = तस्य
पूर्वोक्तलक्षणयुक्तस्य नरस्य स्त्री यदि, पुत्रयोगजनिता = पुत्रयोगवती स्यात् तथा तत्र
पञ्चमे भावे सौम्येन=केनचिच्छुभग्रहेण वा पञ्चमात्षष्ठेशेन (लग्नाद्दशमेशेनेत्यर्थः ) निरी-
क्षिते सती जारेण = अन्यपुरुषेण, सुतवती=पुत्रवती सञ्जायते । न तदानीमौरसः पुत्रः
स्यात्किन्तु क्षेत्रज एव जायत इति भावः ॥ १५ ॥
पुत्रेश और धनेश बलरहित हों पुत्रभाव पापग्रहसे देखा जाता हो तो जातक अनेकस्त्री
वाला होने पर भी निश्चय सन्तानसे रहित रहे । यदि उसकी स्त्री पुत्रयोगवाली हो तो
५ वें को बुधसे वा पाँचवें भावके षष्ठेशसे दृष्ट होने पर अन्यपुरुषसे पुत्रवती होवे ॥ १५ ॥
पुत्रस्थाने तदीशे वा गुरौ वा शुभवीक्षिते ।
शुभग्रहेण संयुक्ते पुत्रप्राप्तिर्न संशयः ॥ १६ ॥
लग्नेशे पुत्रभावस्थे पुत्रेशे बलसंयुते ।
परिपूर्णबले जीवे पुत्रप्राप्तिर्न संशयः ॥ १७ ॥
पुत्रस्थानगते जीवे परिपूर्णबलान्विते ।
लग्नाधिपेन संदृष्टे पुत्रप्राप्तिर्न संशयः ॥ १८ ॥
वैशेषिकांशके जीवे पुत्रेशे च तथास्थिते ।
शुभनाथेन संदृष्टे पुत्रे तत्प्राप्तिमादिशेत् ॥ १६ ॥