जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 424, कुल 588 में से
संदर्भ में पढ़ें३६८ सटीकजातकापारिजाते-
पुत्रस्थानपतौ तु वा नवमपे लग्नात्कलत्रेऽथवा
युग्मर्क्षे शशिशुक्रवीक्षितयुते पुत्रीजनो जायते ।
पुंवर्गे पुरुषग्रहेक्षितयुते जातस्तु पुत्राधिको
जीवात्पञ्चमराशितश्च तनयप्राप्तिं वदेद् दैशिकः ॥ ६ ॥
इदानीं पुत्रपुत्रीयोगावाह-पुत्रस्थानपताविति । पञ्चमेशे, अथवा नवमभावेशे लग्नात्
कलत्रे = सप्तमे भावे, अथवा युग्मर्क्षे = समराशौ व्यवस्थिते तत्र शशिना शुक्रेण वा दृष्टे
वा युते पुत्रीजनो जायते । अस्मिन्योगे कन्या सन्ततिर्भवति । अथ तत्र ( पुत्रस्थानपतौ तु
वा नवमपे ) पुंवर्गे = पुरुषग्रहवर्गे पुरुषग्रहेण दृष्टे वा युते जातस्तु पुत्राधिको भवति ।
अस्मिन्योगे जातो नरो बहुपुत्रान्वितो भवति । एवमाह मन्त्रेश्वरः-
'पुंराश्यंशे धीश्वरे पुंग्रहेन्द्रैर्युक्ते दृष्टे पुंग्रहे पुंप्रसूतिः ।
स्त्रीराश्यंशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे' इति ॥
जीवात् = गुरोः, पञ्चमराशितः = पुत्रभावाच्च दैशिकः = फलादेशकत्र्ता तनयप्राप्तिं वदे-
दित्युक्तमपि पुनरुक्तवदुक्तमिति ॥ ९ ॥
पुत्र स्थानका स्वामी वा नवमेश लग्नसे सप्तम हो या सम राशिमें हो चन्द्रमा तथा
शुक्रसे दृष्ट या युत हो तो कन्या उत्पन्न होवे । विषम राशिमें हो पुरुष ग्रह ( सू०मं०वृ० )
से दृष्ट या युत हो तो जातक अधिक पुत्रोंसे युक्त हो । गुरुसे तथा पञ्चम भावसे पुत्र प्राप्ति
का विचार करे ॥ ९ ॥
शुक्रेन्दुवर्गे सुतभे विलग्नाच्छुक्रेण चन्द्रेण युतेऽथ दृष्टे ।
पापैर्युक्ते बहुपुत्रशाली शन्यारदृष्टे सति पुत्रहीनः ॥ १० ॥
इदानीं पुत्रभावाभावावाह—शुक्रेन्दुवर्ग इति । विलग्नात्सुतभे = पञ्चमे भावे, शुक्रेन्दु-
वर्गे = शुक्रचन्द्रमसो रन्यतरस्य राश्यादौ वर्त्तमाने, तस्मिन् शुक्रेणाथवा चन्द्रेण युते दृष्टे वा,
तथा पापग्रहेरयुक्ते सति जातो बहुपुत्रशाली भवति । तत्र पूर्वलक्षणे शन्यारदृष्टे = शनिभौ-
माभ्यां निरीक्षिते सति जातो नरः पुत्रहीनः = अपुत्रो भवतीति ॥ १० ॥
लग्नसे पञ्चम भवन शुक्र या चन्द्रमाके वर्गमें हो शुक्र या चन्द्रमासे युक्त या दृष्ट हो
पापग्रहसे युक्त न हो तो बहुत पुत्रवाला हो । शनि और मङ्गल देखते हों तो पुत्रसे
रहित हो ॥ १० ॥
पौत्रप्राप्तिरनङ्गभे सुतगृहात्सौम्यस्य राश्यंशके
तन्नाथे शुभखेटवीक्षितयुते केन्द्रत्रिकोणोऽथवा ।
स्वक्षेत्रोपगते तु पुत्रगृहपे' जातोऽल्पपुत्रो भवेत्
पुत्रेशांशपतिः स्वभांशकगतो यद्येकपुत्रं वदेत् ॥ ११ ॥
इदानीं पौत्रप्राप्तियोगम् , अल्पपुत्रयोगमेकपुत्रयोगञ्चाह-पौत्रप्राप्तिरिति । सुतगृहात् =
पञ्चमभावतः, अनङ्गभे = सप्तमे भावे ( लग्नादेकादशे भाव इति दिक् ) सौम्यस्य राश्यंश-
के = शुभग्रहस्य राशिनवांशके विद्यमाने, तन्नाथे = तत्पतौ ( लाभेशे ) शुभखेटेन वीक्षिते
वा युते, अथवा लग्नात् केन्द्रत्रिकोणौ ( १।४।७।१०।५।९ ) व्यवस्थिते सति जातस्य पौत्र-
प्राप्तिः ( पुत्रस्यापत्यं पुमान् पौत्रस्तस्य लाभः ) भवति । स्वक्षेत्रोपगत इति । पुत्रगृहपे =
पञ्चमभावेशे, स्वक्षेत्रोपगते = स्वराशौ व्यवस्थिते सति जातः अल्पपुत्रः भवति । पुत्रेशां-
शपतिरिति । पुत्रेशः = पञ्चमभावपतिः यन्नवांशे भवेत्तन्नवांशपतिर्ग्रहो यदि स्वभांशकगतः
स्यात् तदा जातस्यैकं पुत्रं वदेत् ॥ ११ ॥
पञ्चम गृहसे सप्तममें ( लग्नसे ११ वें ) सौम्यग्रहकी राशि तथा नवांश हो, उसका
स्वामी शुभग्रहसे दृष्ट-युत हो, वा केन्द्रत्रिकोणमें हो तो पौत्रकी प्राप्ति हो । पञ्चमेश अपनी