सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 419, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 419

तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६३
१ सुखाधिपेन ( चतुर्थेशेन ) सहितो वित्तेशः ( धनेशः ) नवमभावगतः सौम्यग्रहयुक्तः
सौम्यराशिगतश्च यदि भवेत्तदा जातः निक्षेपं = भूमौ निहितं द्रव्यं समुपैति ।
२ लाभधनपौ = एकादश-द्वितीयेशौ पातालराशि-(चतुर्थभाव) गतौ भवेतां, तन्नाथः =
चतुर्थेशः शुभग्रहेण सहितः शुभराशिगतश्च भवेत्तदा निक्षेपसिद्धिः = निखातद्रव्यलाभः स्यात् ।
३ लाभेशः = एकादशभावपतिः शुभग्रहेण युतः सन् सुखराशि-( चतुर्थभाव ) गतः
स्यात् तदा निक्षेपवित्तप्रदो भवति । उक्तयोगत्रये जातस्य भूतले सञ्चितस्य द्रव्यादेर्लाभो
भवतीत्यर्थः ॥ १३७ ॥
शुभराशिमें शुभग्रहके साथ धनेश सुखाधिपसे युक्त नवम भावमें हो तो गाड़ी हुई
सम्पत्ति प्राप्त होवे । लाभेश और धनेश चतुर्थ स्थानमें स्थित हों और ४ र्थका स्वामी शुभ-
राशिमें शुभयुत हो तो निक्षेप (गड़ा हुआ धन) मिले । लाभेश शुभग्रहके साथ ४ थे भावमें
हो तो भी निक्षेप धन मिले ॥ १३७ ॥
अथ गृहविचारः ।
अर्थव्ययगृहाधीशा नाशगाः पापसंयुताः ।
यावद्भिश्शुभैर्युक्तास्तावद्गेहालसत्वदाः ॥ १३८ ॥
पापेऽरौ वा पापहृष्टे सुखे गेहसुखार्तिभाक् ।
नीचेऽरातौ कुजेऽर्के वा सुखे स्याद्गृहो नरः ॥ १३६ ॥
नीचेऽस्तगे वा गेहस्थे दुःखाम्भोधौ पतिष्यति ।
सुखे पापे पापभाक् स्यात् सुखे मन्दे सुखक्षयः ॥ १४० ॥
गृहेशे व्ययगे लग्नादन्यगेहोऽन्यदेशगः ।
रन्ध्रे गृहाद्यभावो वा षष्ठे ज्ञात्यादिसंग्रहः ॥ १४१ ॥
प्रयत्नतो मन्दिरलाभदः स्यात् चतुर्थपस्तत्र बलाधिको वा ।
दुःस्थानगो दुष्टबलान्वितश्चेदालस्यगेहं ग्रहपीडितं वा ॥ १४२ ॥
षट्त्रिब्ययाष्टमोपेता व्ययवित्तगृहाधिपाः ।
यावत्पापसमोपेतास्तावद्गृहविनाशदाः ॥ १४३ ॥
लग्नत्रिकोणकेन्द्रस्था यावद्बलसमन्विताः ।
तावत्संख्याकगेहानां समीचीन्यं वदेद् बुधः ॥ १४४ ॥
चतुर्थभावाधिपतौ विलग्राद्व्ययस्थिते जीर्णगृहं समेति ।
त्रिकोणकेन्द्रोपगते बलाढ्ये विचित्रगेहं रुचिरं तदाहुः ॥ १४५ ॥
तृतीये सौम्यसंयुक्ते गेहेशे बलसंयुते ।
गोपुरांशगते वाऽपि समेति दृढमन्दिरम् ॥ १४६ ॥
आज्ञाक्रियाक्षेत्रविनाशमाहुराज्ञेश्वरे गेहगते सपापे ।
क्रूरांशके मृत्युकरादिभागे रन्ध्रेश्वरेणापि युते तथैव ॥ १४७ ॥
तृतीये सौम्यसंयुक्ते गेहेशे स्वबलान्विते ।
लग्नेशे बलसम्पूर्णे हर्म्य प्राकारसंयुतम् ॥ १४८ ॥
पारावतांशके गेहनाथे गुर्विन्दुवीक्षिते ।
गोपुरांशके वाऽपि दैविकं गृहमादिशेत् ॥ १४६ ॥
इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजातं
द्वादशोऽध्यायः ॥ १२ ॥