जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 365, कुल 588 में से
संदर्भ में पढ़ेंसङ्ख्या येषां, त्रिंशदित्यर्थः । एतदुक्तं भवति । चतुर्थनवमभावयोः, समुदायकबिन्दवो
यदि पञ्चविंशति-त्रिंशदन्तर्गता भवेयुस्तदा अष्टकेन सह विंशतिवत्सराणामष्टाविंशतिवर्षा-
णामन्ते वा ततः परे शरदि = वर्षे जातो नरः नरवाहनाढ्यो भवेत् ॥ ६४ ॥
यदि २५ से ३० तक बिन्दु संख्या चतुर्थ और नवम राशिमें हों तो २८ वर्षके बाद वह
मनुष्य नरवाहन (तामदान या पालकी) से युक्त हो अर्थात् यात्रा करे ॥ ६४ ॥
देवाचार्ये वाहनस्थे स्वतुङ्गे चत्वारिंशद्विन्दुसङ्ख्यासमेते ।
मेषागारे लग्ने वास्रेशे जातो राजा लक्षसंख्याश्वनाथः ॥ ६५ ॥
देवाचार्य इति । देवाचार्यों गुरुस्तस्मिन् वाहनस्थे = चतुर्थभावमुपगते स्वतुङ्गे = निजो-
च्चराशौ (कर्क) विद्यमाने, तत्र च चत्वारिंशद्विन्दुसङ्ख्या-४० समेते, अपि च वास-
रेशे = सूर्ये मेषागारे लग्नगे = मेषराशिलग्ने व्यवस्थिते सति जातो राजा, लक्षसङ्ख्याश्व-
नाथः = लक्षघोटकपतिश्च भवेत् ॥ ६५ ॥
अपनी उच्च ४ राशिके बृहस्पति चतुर्थ स्थानमें ४० बिन्दुसे युक्त हो, सूर्य मेष राशिमें
लग्न पर हो तो वह मनुष्य राजा हो तथा लक्ष घोड़ोंको अपने पास रक्खे ॥ ६५ ॥
चत्वारिंशद्विन्दुयुक्ते विलग्ने चापे जीवे भार्गवे मीनराशौ ।
स्वोच्चे भौमे कुम्भगे भानुपुत्रे जातः सर्वश्रीधरः सार्वभौमः ॥ ६६ ॥
चत्वारिंशदिति । विलग्ने=जन्मकालीनलग्ने ( यत्तद्राशिलग्ने ) चत्वारिंशद्विन्दुयुक्ते,
जीवे = बृहस्पतौ चापे = धनुराशौ (स्वमूलत्रिकोणे ) भार्गवे=शुक्रे मीनराशौ ( स्वोच्चे ),
भौमे = मङ्गले स्वोच्चे = मकरराशौ, भानुपुत्रे = शनैश्चरे कुम्भगे = स्वमूलत्रिकोणे च गतवति
जातः सर्वश्रीधरः = विविधसम्पदैश्वर्ययुक्तः सार्वभौमः = चक्रवर्त्ती राजा स्यात् ॥ ६६ ॥
चालिस बिन्दुसे युक्त लग्न हो, धनुमें गुरु, मीनमें शुक्र हो, अपने उच्च स्थानमें मङ्गल
और कुम्भ राशिमें शनि हो तो जातक सर्व लक्ष्मीसे युक्त सार्वभौम राजा होवे ॥ ६६ ॥
क्रियादिराशित्रितयोपयाता भवन्ति पूर्वादिचतुर्दिशश्च ।
फलाधिकं यद्दिशि तत्प्रदेशे धनादिवृद्धिं समुपैति जातः ॥ ६७ ॥
क्रियादीति । क्रियो मेषस्तदादिराशित्रितयमुपगता पूर्वादिचतुर्दिशो भवन्ति । एव-
दुक्तं भवति । मेष-वृष-मिथुनाः पूर्वे, कर्क-सिंह-कन्या याम्ये, तुला-वृश्चिक-धनुर्धराः
प्रतीच्यां, मकर-कुम्भ-मीना उदीच्यामवगम्याः । प्रयोजनमुच्यते फलाधिकमिति ।
यद्दिशि फलाधिकं भवेदर्थात् समुदायाष्टकवर्गवशादुक्तचतुर्दिशां मध्ये यद्दिशि सर्वाधिक-
बिन्दवो भवेयुस्तत्प्रदेशे = तद्दिग्भागे धनादिवृद्धिं जातो नरः समुपैति । एतदुक्तवि-
धिना दिक्फलं विविच्य धनादिवृद्धिमिच्छुता पुरुषेण तद्दिशि प्रयतितव्यम् ॥ ६७ ॥
मेषादि तीन २ राशिमें पूर्बादि चारो दिशासं (मे० वृ० मि० में पूर्व, कर्क सिंह कन्यामें
दक्षिण, तु० वृ० ध० में पश्चिम, म० कु० मी० में उत्तर) अधिक बिन्दुवाली राशिकी दिशामें
धनादिकी वृद्धि होती है ॥ ६७ ॥
इदानीं रोगज्ञानमाह-
लग्नादिशून्यन्तगतं तुरङ्गैः सङ्गुण्य ताराहृतलब्धयाते ।
रव्यादिपापे यदि कोणगे वा रोगादिपीडाविपुलं नराणाम् ॥ ६८ ॥
मन्दादिलग्नान्तफलं च तद्वल्लग्नान्तमारादुदयात्कुजान्तम् ।
शुभैक्यसंख्यागततारकायां शुभग्रहे सौख्यफलं वदन्ति ॥ ६६ ॥
लग्नादीति । लग्नादिशून्यन्तगतं = लग्नराशिमारभ्य शनिस्थितराशिपर्यन्तं ये
सर्वाष्टकवर्गजातबिन्दवस्तान् तुरङ्गैः = सप्तभिः सङ्गुण्य ततस्ताराहृतलब्धयाते = तारा
नक्षत्राणि (सप्तविंशतिः) तैर्हृते यल्लब्धं तावन्मिते नक्षत्रमुपगते रव्यादिपापे = रविभौ-