सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 362, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 362

३३६ सटीकजातकपारिजाते-
इदानीं सर्वाष्टकवर्गे केषुचिद् भावेषु शुभस्थितिमाह—
मानस्थिताल्लाभगृहे बहुत्वे लाभाल्लघुत्वे यदि रिष्फराशौ ।
रिष्फोपयातादधिके विलग्ने जातः सुखी वित्तयशोबलाढ्यः ॥ ५६ ॥
मानस्थितादिति । मानस्थितात्=दशमभावस्थबिन्दुमानात् लाभगृहे=एकादशे भावे
बहुत्वे ( दशमभावापेक्षया लाभभावे यद्यधिका बिन्दुसङ्ख्या भवेत्तदेति ), लाभात्=एका-
दशभावतः रिष्फराशौ = द्वादशे भावे लघुत्वे = अल्पमानके, तथा च रिष्फोपयातात् =
द्वादशभावगतबिन्दुमानात् विलग्ने अधिके सति जातः सदा सुखी, वित्तवान्, यशस्वी,
बली च भवेदिति । तथोक्तमपि बलभद्रेण—
“मध्यात् फलाधिके लाभे लाभात् क्षीणतरे व्यये ।
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत्” इति ॥ ५६ ॥
दशममें स्थित विन्दुसे लाभगृहमें बहुत हो, लाभसे बारहवेंमें कम हों, बारहवेंसे
विशेष लग्नमें हो तो जातक सुखी, यश-धनसे बली हो ॥ ५६ ॥
इदानीं भावानां खण्डत्रयपरिकल्पनया वयसः प्रथमे-मध्य-चरमे त्र्यंशे शुभाशुभ-
फलमाह—
खण्डत्रयं शफरकर्कटकीटकाद्यं तत्तच्चतुष्टयगृहोपगबिन्दुयुक्तम् ।
आद्यं च मध्यमवसानमिति प्रयुक्तं केचिद्व्ययादिकमिति प्रवदन्ति लोके ॥५७॥
खण्डत्रयमिति । शफरकर्कटकीटकाद्यं = मीन-कर्क-वृश्चिकाद्यं खण्डत्रयं कृत्वा तत्त-
च्चतुष्टयगृहोपगबिन्दुयुक्तं = तत्तद्राशिचतुष्कमुपगता ये समुदायाष्टकवर्गबिन्दवस्तत्सङ्कलनं,
क्रमेण आद्यम्, मध्यम्, अवसानं च खण्डमाद्यैः प्रयुक्तम् । एतदुक्तं भवति । मीनादि-
राशिचतुष्के ( मी. मे. वृष. मि. ) प्रथमखण्डोपगबिन्दुसंख्याम् आद्यसंज्ञाम् । कर्कादि-
राशिचतुष्के ( क. सिं. कं. तु. ) द्वितीयखण्डोपगबिन्दुसङ्ख्यां मध्यसंज्ञाम् । वृश्चिकादि-
राशिचतुष्के ( वृश्चि. ध. म. कु. ) तृतीयखण्डोपगबिन्दुसंख्याम् अन्त्यसंज्ञां प्रकल्य
तस्माद्वयसः प्रथमादित्र्यंशे शुभाशुभफलं निर्दिशेत् । यस्मिन्भागेऽधिकबिन्दवो भवन्ति तत्र
वयसि सुखादिकमधिकमेवं यस्मिन् भागेऽल्पबिन्दवस्तत्र वयसि दुःखादिकं वाच्यमिति ।
तथाहि जातकादर्शे—
मीनेन्द्वालयवृश्चिकप्रभृतिकं खण्डत्रयं कल्पये-
द्यांऽक्षाधिकतादिमे तु वयसस्त्र्यंशे विदध्यात्सुखम् ।
मध्ये मध्यवयस्यथान्तिमवयस्त्र्यंशेऽन्त्यखण्डे हि सा
हीनांक्षस्तु वयस्त्रिभाग इह योऽत्र व्याधिदुःखोद्भवः ॥ इति ।
केचिदिति । व्ययादिकम् = द्वादशभावादिकमुक्तक्रमेण खण्डत्रयं भवतीति केचिदपरे
आचार्याः लोके प्रवदन्ति । अर्थात् द्वादश-प्रथम-द्वितीय-तृतीयांत प्रथमम्, चतुर्थ-
पञ्चम-षष्ठ-सप्तमेति द्वितीयम् , अष्टम-नवम-दशम-लाभेति तृतीयं खण्डं केषांचिन्मते
विज्ञेयमिति ॥ ५७ ॥
तीन खण्ड हैं मीनसे चार राशिका एक खण्ड, कर्कसे चार राशिका दूसरा खण्ड और
वृश्चिकसे चार राशिका तीसरा खण्ड । एक खण्डका बिन्दु योग करे । उन खण्डोंको आदि,
मध्य, अन्त्य खण्ड कहते हैं। कोई व्ययादिक खण्ड कहते हैं ॥ ५७ ॥
इदानीं पूर्वोक्तखण्डत्रये केषांचिन्मते भेदमाह—
बिन्दुं त्यक्त्वा रिष्फरन्ध्रोपयातं शिष्टं खण्डं केचिदिच्छन्ति सन्तः ।
तुल्यस्वल्पाधिक्यबिन्दुक्रमेण मिश्रं दुःखं संपदः स्युर्नराणाम् ॥ ५८ ॥