सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 349, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 349

अष्टकवर्गाध्यायः ॥१०॥ ३२३
केन्द्रत्रिकोणायगते शशाङ्के नीचारिगे वृद्धिकलाविहीने ।
बिन्दुद्विके वा यदि सत्रिबिन्दौ तद्भावनाशं कथयन्ति तज्ज्ञाः ॥१७॥
वेदादिविन्दुयुतकोणचतुष्टये वा लाभे विधौ बलयुते यदि भाववृद्धिः ।
बिन्द्वष्टके शशिनि केन्द्रगते तु जाता विद्यायशोधनबलप्रबला नरेन्द्राः ॥ १८ ॥
इदानीं चन्द्राष्टवर्गफलं स्थितिवशेनाह—शून्यागारमिति । तरणिशशिनोः = सूर्याचन्द्र-
मसोः, अष्टवर्गे, शून्यागारं = शून्यराशिं ( यत्र यत्र राशौ नैकोऽपि विन्दुर्भवेत् ) विज्ञाय,
तदीयो मासो राशिः = सूर्यस्य तद्राशिमासः, चन्द्रस्य तद्राशिश्च सकलशुभदे कर्मणि त्याज्यः
इत्यार्या आहुः । एतदुक्तम्भवधेयम्-सूर्यस्याष्टकवर्गे यो राशिः बिन्दु-( शुभचिह्न-) रहितो
भवति तस्मिन् राशौ ( सौरमासे ) चारादागते सूर्ये शुभकर्म न कुर्यात् । एवं चन्द्राष्टक-
वर्गे यो राशिः बिन्दुशून्यः स्यात् तस्मिन् राशौ सञ्चारादागते चन्द्रमसि शुभं कर्म न कर्त्त-
व्यमिति । अथ तनुगे=लग्नगते, शशिनि=चन्द्रे, सैकलोकाक्षिबिन्दौ=एकेन, त्रयेण,
द्वाभ्यां वा बिन्दुभ्यां सहिते सति यक्ष्मआलस्यं=क्षयरोगान्वितं मान्द्यं वाच्यम् । तथा भूते
चन्द्रे द्वाभ्यां त्रिभिः वा खेटैरन्विते सति सप्तत्रिंशच्छरदि=३७ तमे वर्षे तस्य जातस्य
मरणं च वाच्यम् । केन्द्रत्रिकोणायगत इति । स्वनिचराशिस्यः, शत्रुराशिगतः, वृद्धि
कलारहितो ( कृष्णपक्षीयः ) वा शशाङ्कः केन्द्रत्रिकोणाय-( १।४।७।१०,५।९।११ एतद-
न्यतमभावं ) गतो भवेत्, तथा च विन्दुद्वययुतो वा बिन्दुत्रययुतो यदि स्यात्तदा तद्भा-
वस्य ( उक्तलक्षणोपलक्षितस्य भावस्य ) नाशं तज्ज्ञाः=ज्योतिर्विदः कथयन्ति । वेदा-
दीति । बलयुते विधौ=स्थानादिवीर्य्यसहिते चन्द्रे यदि चतुः-पञ्च-षट्-सप्ताष्ट-विन्दुयुते,
कोणे ( ५।९ ) चतुष्टये ( १।४।७।१० ) वा लाभे ( ११ ) व्यवस्थिते सति जन्म
भवेत् तदा जनिमत्तः भाववृद्धिः ( उक्तलक्षणलक्षितस्य भावस्य वृद्धिः ) भवति । अथा-
ष्टविन्दुकस्य विशेषफलमाह-बिन्द्वष्टके शशिनि केन्द्रगते=अष्टबिन्दुयुतश्चन्द्रो यदि केन्द्र-
वर्त्ती स्यात्तदा जाता नरास्तु विद्यायशोधनबलप्रबला नरेन्द्रा भवन्ति ॥ १६-१८ ॥
सूर्यके अष्टकवर्गमें जिस राशिमें बिन्दु नहीं हो वह मास ( सौरमास ) और चन्द्रमाके
अष्टवर्गमें शून्य राशि सभी शुभकर्ममें त्याग करे । यदि १, ३ या २, बिन्दुयुत लग्नमें चन्द्र-
मा हो तो यक्ष्माजनित आलस्य हो । यदि वही चन्द्रमा २ या ३ ग्रहोंके साथ हो तो ३७
वें वर्षमें मरण हो ॥ १६ ॥
त्रिकोण या केन्द्रमें चन्द्रमा नीचराशिस्य, शत्रु-राशिस्य या वृद्धि-कलासे हीन हो, दो
बिन्दु वा तीन बिन्दुसे युक्त हो तो उस भावका नाश होता है, ऐसा विज्ञोंने कहा है ॥ १७॥
यदि कोण या चतुष्टय ( केन्द्र ) में या लाभमें ४-५-६-७-८ बिन्दुसे युक्त बलवान्
चन्द्रमा हो तो ( कोण केन्द्र लाभ सब ७ भाव हैं, जिसमें हो ) उस भावकी वृद्धि
करता है । ८ बिन्दुसे युक्त चन्द्रमा केन्द्रमें हो तो विद्या-यश-धन-बलसे प्रबल
राजा होता है ॥ १८ ॥
अथ भौमफलम् ।
स्वोच्चस्वके गुरुसुखोद्यमानयाते बिन्द्वष्टके च यदि कोटिधनप्रभुः स्यात् ।
चापाजसिंहमृगकीटविलग्नसंस्थे भौमे चतुष्टयफलोपगते च राजा ॥ १९ ॥
बिन्द्वष्टके धरणिजेऽतिलघुक्षितीशो मानेऽथवा तनुगते च महीपतिः स्यात् ।
जातोऽवनीशकुलजो यदि देशनाथः स्वोच्चस्वराशिसहिते नृपचक्रवर्ती ॥ २० ॥
श्लोकद्वयेन सरलार्थेन भौमाष्टकवर्गफलमाह-स्वोच्चेति ॥ १९-२० ॥
यदि मङ्गल अपनी उच्च राशिमें या अपने गृहमें ८ बिन्दुसे युत नवम चतुर्थ लग्न या
दशममें होवे तो करोड़पति बनाता है । मङ्गल धनु मेष सिंह मकर कर्क राशिके लग्नमें ४
बिन्दु युत हो तो राजा होता है ॥ १९ ॥