सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 328, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 328

३०२ सटीकजातकपारिजाते-
ग्रहपीडितनक्षत्रे जातो रोगनिपीडितः ।
ग्रहमुक्ते काञ्चितर्चें दत्तपुत्रो भवेत्सुतः ॥ ७६ ॥
व्यतीपातेऽङ्गहीनः स्यात् परिघे मृत्युमाप्नुयात् ।
वैधृतौ पितरं हन्ति विष्कम्भे चार्थहानिकृत् ।
शूले तु शूलरोगी स्याद् गण्डे गण्डमवाप्नुयात् ॥ ७७ ॥
इदानीं योगजातगण्डमुच्यते । यस्मिन्नक्षत्रे पितुर्जन्म वरीवर्त्ति तन्नक्षत्रे तथा कर्म्म-
क्षै = दशमनक्षत्रे च जातो जायमानो बालकः पितृविनाशको भवति । तथा पितुर्जन्मराशे-
र्नवांशे तल्लग्ने च जातः सद्य एव पितृमृत्युप्रदो भवति । अन्यत्स्पष्टार्थकमैव ॥ ७३-७७ ॥
पिताके जन्म-नक्षत्र या १० वें नक्षत्रमें उत्पन्न बालक पिताका नाश करता है। पिताके
जन्म राशिके नवांशमें जायमान तथा उस लग्नमें उत्पन्न जातक तुरन्त पिताको मृत्यु देता
है । मुसल और मुद्गर योगमें उत्पन्न जातक शुभनाशक होता है । अङ्गारमें जायमान बालक
दरिद्र होता है। गुलिकमें उत्पन्न अङ्गहीन होता है । रिक्ताका पैदा हुआ बच्चा
नपुंसक होता है । यमघंट योगोत्पन्न कुमार लङ्गड़ा होता है । ग्रहपीडित नक्षत्रमें जायमान
बालक रोगसे पीड़ित रहता है । ग्रहमुक्त और काञ्चितर्चमें दत्तक पुत्र होता है । व्यती-
पातमें अङ्गहीन होता है । परिघमें मृत्यु होती है । वैधृतियोगका उत्पन्न पिताका नाश
करता है । विष्कम्भका जायमान धननाश करता है । शूलोत्पन्न शूल रोगी होता है ।
गण्डवालेको गंड रोग होता है ॥ ७३-७७ ॥
अथ दन्तोद्गमफलम् ।
सदन्तजातः कुलनाशकारी द्वितीयमासादिचतुष्टयान्ते ।
दन्तोद्भवो मृत्युकरः पितुः स्यात् षष्ठे शिशोस्तत्परतः शुभं स्यात् ॥ ७८ ॥
अथ जातकस्य दन्तोद्गमे फलमुच्यते । यदि बालो दन्तयुक्तो जायते तदाऽसौ कुल-
नाशकारी भवति । जन्मानन्तरं द्वितीयमासादिचतुष्टयान्ते = द्वितीयमारभ्य पञ्चममासं याव-
च्छिशोर्दन्तोद्भवः पितुर्मृत्युकरः स्यात् । षष्ठे मासे दन्तोद्भवः शिशोरेव मृत्युकरो भवति ।
परतः = सप्तमादिमासेषु दन्तोद्भवश्चेत्तदा शुभं वाच्यमिति । परञ्चात्र दन्तजनने फलवैष-
म्यं दृश्यते—
“मासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं
हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान् द्व्यादिके ॥
षष्ठादौ लभते हि भोगमतुलं तातात्सुखं पुष्टतां
लक्ष्मीं सौख्यमथो जनौ सदशनो बोध्यं स्वपित्रोर्दिहा” ॥
इति रामाचार्यवचनात् , तथा—
प्रथमे दन्तजननात्स्वयमेव विनश्यति । द्वितीये भ्रातरं हन्ति तृतीये भगिनीं तथा ॥
चतुर्थे मातरं हन्ति पञ्चमे चात्मनोऽग्रजम् । षष्ठे च मन्त्रजीवी स्यात्सप्तमे पितुसौख्यदः ॥
अष्टमे पुष्टिजनको नवमे लभते धनम् । लभते दशमे मासि सौख्यमेकादशेऽपि वा ॥
द्वादशे धनसम्पत्तिर्दन्तानां जनने फलम् ॥ इति चण्डेश्वरवचनाच्चेति ॥ ७८ ॥
दाँतके सहित उत्पन्न बालक कुलका नाशक होता है । दूसरे माससे ४ मास तक दांत
होनेसे बालक पिताका, षष्ठमें शिशुका नाश करेगा । सप्तम आदि मासोंमें दन्त उत्पन्न होनेसे
शुभ होगा ॥ ७८ ॥
अथ जन्मताराद्यः ।
जन्मर्क्षमाद्यं दशमन्तु कर्म साङ्घातिकं षोडशभं वदन्ति ।
अष्टादशं स्यात् समुदायसंज्ञमाधानमेकोनतविंशतिः स्यात् ॥ ७९ ॥