जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 253, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥ ७ ॥ २२७
राजश्रीबुधयोगजोऽतुलबलप्रख्यातनामा विदुः
शास्त्रज्ञानकरक्रियासु चतुरो धीमानशत्रुर्लवेत् ॥ ७० ॥
इदानीं सफलं बुधयोगमाह-लग्नेष्विति । स्पष्टम् ॥ ७० ॥
Notes-गुरुर्लग्ने, चन्द्रः लग्नात् १।
४।७।१० एतदन्यतमे, राहुः लग्नात् २।५।
८।११ एतदन्यतमे, सूर्य्यभौमौ लग्नात् ३।६।
९।१२ एतदन्यतमे भावे सति बुधनामको
योगो भवतीति ।
यदि लग्नमें गुरु, गुरुसे केन्द्रमें चन्द्रमा
हो, चन्द्रमासे दूसरे राहु हो, पराक्रमके ३ रे
स्थानमें सूर्य और मंगल हों तो बुधयोग
होता है ।
[कुण्डली चक्र: लग्न (१)-बृ. ल.; २-१; ३-१२; ११-११; १०-मं. सू.; ९-रा.; ७-चं.; केन्द्र-बुधयोगः]
इस बुध योगमें उत्पन्न होनेवाला मनुष्य राजश्रीसे युक्त, विशेष बली, बड़ा नामी, शास्त्र-
ज्ञाता, व्यापारमें चतुर, बुद्धिमान् और शत्रुरहित होता है ॥ ७० ॥
अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः ।
लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने ।
अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१ ॥
द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते ।
शीतांशोः सुनफायोगस्त्वनफानाम कीर्तितः ॥ ७२ ॥
योगो धुरन्धुराख्यः स्याद्विना सर्वत्र भास्करम् ।
एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३ ॥
इदानीं केमद्रुमयोगमाह-लग्नस्थित इति । लग्नस्थिते, यदि वा मदस्थे = सप्तमस्थे
हिमकरे = चन्द्रे, जीवदृशा = गुरुदृष्ट्या विहीने सति केमद्रुमो योगो भवति । अथ च यदि
सर्वे ग्रहाः, अत्यल्पबिन्दुसहिताः = अष्टकवर्गेऽल्पशुभचिह्नकास्तथा विबलाः = बलहीनाश्च
भवेयुस्तेऽपि केमद्रुमयोगफलदा भवन्ति । केमद्रुमयोगफलं वक्ष्यते ८२ तमे श्लोके ॥७१॥
अथ सुनफाऽनफाधुरन्धुराकेमद्रुमयोगानाह-द्वितीयेतिश्लोकयुग्मेन । शीतांशोः =
चन्द्रात्, द्वितीये स्थाने, खेचरसंयुते = सूर्येतरग्रहयुक्ते ( विना सर्वत्र भास्करमित्युक्तेः )
सुनफा नाम योगो भवति । चन्द्राद् द्वादशे स्थाने सूर्येतरग्रहयुते अनफा नाम योगः सुधी-
भिः कीर्तितः । चन्द्राद् द्वये पार्श्वे = द्वितीये द्वादशे च भावे सूर्येतरखेचरसंयुते धुरन्धुराख्यः
( दुरुधुरेति ग्रन्थान्तरे ) योगो भवति । एतत्पूर्वोक्तयोगत्रयाभावे = चन्द्राद् द्वितीये द्वादशे
च स्थाने शून्ये सति केमद्रुमयोगस्य फलं वदेदर्थात्तदानीं केमद्रुमो योगो भवति । तथा च
लघुजातके वराहः—
रविवर्ज्यं द्वादशगैरनफा चन्द्राद् द्वितीयगैः सुनफा ।
उभयस्थितैर्दुरुधुरा केमद्रुमसञ्ज्ञकोऽतोऽन्यः । इति ॥
इदमप्यवधेयम् । चन्द्राद् द्वितीये वा द्वादशे सूर्यो भवतु न वा भवतु किन्तु न स
योगकारको भवति । भौमादयः पञ्च ( मं. बु. बृ. शु. श. ) ग्रहाः एकैकाः सम्मिलिता वा
चन्द्राद् द्वितीये सुनफायोगकराः, द्वादशे अनफायोगकरा भवन्ति । एवं पञ्चभिर्ग्रहैः ३१
भेदाः अनफाः सुनफाश्च भवन्ति । एवमेव चन्द्राद् द्वितीयद्वादशगतैः पञ्चभिर्ग्रहैः एकाकिभिः
सम्मिलितैश्चाशीत्यधिकशत ( १८० ) भेदा दुरुधुराः ज्ञेयाः । तेषां विवरणं बृहज्जातके उत्प-
लकृतटीकायां द्रष्टव्यम् । ग्रन्थस्तम्भयादत्र न लिखितमिति । बृहज्जातके तद्वचनम्—