सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 236, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 236

२१० सटीकजातकपारिजाते-
नीवखेटरहिते = नीचगतग्रहेण वियुते यदि जन्म स्यात्तदा जातः पृथ्वीशतुल्यः = नृपसमो
भवेदिति । अत्र द्वितीययोगे सर्वार्थचिन्तामणौ सादृश्यं यथा—
माने राहौ भवे मन्दे भाग्यनाथेन वीक्षिते । लग्नेशे नीचखेटेनायुते नृपसमो भवेत् ॥
इति ॥ १९ ॥
जिसके जन्म समयमें शनि बलवान् होकर उत्तम वर्गमें हो और गुरु नीच नवांशमें न
हो, सूर्य शुभग्रहसे दृष्ट हो वा शुभग्रहके नवांशमें हो तो वह मनुष्य राजाका प्रिय तथा
राजाके सदृश होवे । राहु कर्म भावमें हो, शनि लाभमें हो, भाग्येश उसकोदे खता हो और
लग्नेश नीचस्थ ग्रहसे युत न हो तो राजाके तुल्य होवे । ( सु० ज्ञा० कार ) ॥ १९ ॥
नीचं गता द्वित्रिचतुर्ग्रहेन्द्राः षष्ठ्यंशके शोभनभागयुक्ताः ।
स्वतुङ्गराश्यंशसमन्विता वा धरापतिर्धार्मिकचक्रवर्ती ॥ २० ॥
नीचमिति । द्वित्रिचतुर्ग्रहेन्द्राः=द्वौ वा
त्रयो वा चत्वारो ग्रहाः ( न पञ्चादयः, सीमि-
तत्वात् ) नीचङ्गताः = स्वस्वनीचराशिगताः
सन्तः षष्ठ्यंशके शोभनभागयुक्ताः = शुभष-
ष्ठ्यंशगता भवेयुः, वा स्वतुङ्गराश्यंशसमन्वि-
ताः=निजोच्चराशिनवांशगता भवेयुः । इद-
मुक्तं भवति । द्वौ, त्रयो वा चत्वारो ग्रहा यत्र
तत्र भावे नीचराशिषु भूत्वा यदि स्वकीयोच्चराशीनां नवांशेषु वा शुभषष्ट्यंशेषु गता भवेयुः,
तदा जातो नरो धार्मिकचक्रवर्ती = पुण्यात्मा, सार्वभौमश्च धरापतिर्नृपो भवतीति । तथा च
सर्वार्थचिन्तामणौ—
त्रयो वा द्वौ खगौ वाऽपि चत्वारो नीचसंयुताः ।
शुभषष्ट्यंशसंयुक्ताः स्वोच्चांशे वा धरापतिः ॥ २० ॥
जिसके जन्म समय दो, तीन या चार ग्रह नीचमें हों और शुभ-षष्ठ्यंशमें हों वा अपनी
उच्चराशिके नवांशमें हों तो धार्मिक चक्रवर्ती भूमिपाल ( राजा ) हो ॥ २० ॥
लग्नात्कर्मशुभाधिपौ शुभगृहाद्व्यापारधर्मेश्वरौ
मानादास्पदभाग्यपौ च सहितावन्योन्यराशिस्थितौ ।
अन्योन्येक्षणकेन्द्रगौ धनपतेः सम्बन्धिनौ चेद्धनी
जातो यानपकायपेक्षितयुतौ बह्वर्थयानाधिपः ॥ २१ ॥
लग्नादिति । १. लग्नाज्जन्मकालीनलग्नात्, कर्मशुभाधिपौ=दशमनवमभावपती ( नव-
मेशदशमेशौ ), २. शुभगृहात् = नवमभावात्, व्यापारधर्मेश्वरौ=दशमेशनवमेशौ, लग्ना-
त्पञ्चमेशषष्ठेशौ, इत्यर्थः । ३. मानात् = दशमभावात् = आस्पदभाग्यपौ = दशमेशनवमेशौ,
लग्नात्षष्ठेशसप्तमेशौ, इत्यर्थः । च शब्दो विकल्पार्थे । उक्तौ तौ, सहितौ = यत्र तत्रैकत्र
संयुक्तौ, वा अन्योन्यराशिस्थितौ = नवमेशो दशमे, दशमेशो नवमे च स्थितौ भवेताम्, वा
अन्योन्येक्षणकेन्द्रगौ = परस्परं दृष्टियुतौ परस्परं केन्द्रगतौ च भवेतां, तथा भूतौ धनपतेः=
द्वितीयभागेशस्य सम्बन्धिनौ चेद्भवेतां, तथा यानपकायपेक्षितयुतौ = यानपेन चतुर्थेशेन
कायपेन लग्नेशेने चेक्षितौ दृष्टौ युतौ वा भवेतां तदा जातो नरो धनी = धनवान्, बह्वर्थया-
नाधिपः = बहुधनवाहनानामधीशो भवेत् ॥
अत्र प्रसङ्गात् सम्बन्धः प्रदर्श्यते—
प्रथमः स्थानसम्बन्धो दृष्टिग्रस्तु द्वितीयकः । तृतीयश्चैकतो दृष्टिः स्थित्येकत्र चतुर्थकः ॥