जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 201, कुल 588 में से
संदर्भ में पढ़ेंजातकभङ्गाध्यायः ॥ ६ ॥ १७५
भाग्य ( नवमभाव ) पति सूर्यके साथ अस्त हो, लग्नेश नीचमें हो और द्वितीयेश भी
नीचमें हो तो 'रेका' योग होता है ॥ २३ ॥
नीचस्था यदि वा दिनेशकिरणच्छन्नास्त्रयो लग्नपे
दुष्टस्थानगतेऽथवा गतबले योगस्तु रेकप्रदः ॥
होरावित्तनवास्पदायसुखधीकामानुजस्थाः खला-
स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४ ॥
केचित् त्रयो ग्रहा यदि नीचस्थाः = स्वस्वनिचराशियाता वा दिनेशस्य=सूर्यस्य किरणै-
र्छन्नाः = नष्टद्युतयः ( अस्तंगताः ) भवेयुः, लग्नपे = जन्मलग्नेशे दुष्टस्थानगते = षडष्टव्य-
यभावानामन्यतमं गते, अथवा गतबले = निर्बले सति रेकप्रदो योगो भवति ।
होरा = लग्नम्, वित्तं = द्वितीयः, नव = नवमः, आस्पदं = दशमः, सुखं = चतुर्थः,
धीः=पञ्चमः, कामः=सप्तमः, अनुजस्तृतीय एतेषु स्थिताः खलाः=पापग्रहाः, नीचारिपापेक्षि-
ताः=नीचराशिस्थाः, शत्रुराशिस्थाः, पापेक्षिता वा स्युस्तदा ते तस्य जातस्यायुषो नवमे भागे
रेकफलदा रेकायोगफलकारका भवन्ति । अर्थात् ईदृग्योगो रेकाख्य इति । अत्र नीचारिपापे-
क्षिता इत्युक्तेरेव यदि उच्चस्वमित्रशुभैक्षिताः स्युस्तदा न रेकाफलदाः स्युरिति ॥ २४ ॥
कोई भी तीन ग्रह नीचमें हों या अस्त हों और लग्नेश दुष्ट स्थानमें हो अथवा निर्बल
हो तो 'रेका' योग होता है ।
पापग्रह १।२।९।१०।११।४।५।७।३ भावोंमें स्थित हों नीच या शत्रुगृहमें स्थित हों या
पापग्रहसे दृष्ट हों तो उस जातककी आयुके ९ वें भागमें 'रेका' योगका फल देते हैं ॥ २४ ॥
एकद्विकत्रिखलद्युचरा नराणां कल्पस्वविक्रमगताः परतस्तथैव ।
आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदा रिपुखलग्रहनीचदृष्टाः ॥ २५ ॥
एकः, द्विकः, त्रिकः खलद्युचराः=पापग्रहाः क्रमेण कल्पे=लग्ने, स्वे=द्वितीये, विक्रमे=
तृतीये गताः स्युरर्थात् लग्ने एकः पापग्रहः, द्वितीये द्वौ पापौ, तृतीये त्रयः पापाः भवेयुः ।
परतस्तथैव = तेनैव प्रकारेण परतोऽपि = चतुर्थे एकः, पञ्चमे द्वौ, षष्ठे त्रयः। सप्तमे एक :,
अष्टमे द्वौ, नवमे त्रयः, एवमेव दशमे एकः, एकादशे द्वौ, द्वादशे त्रयः पापाः स्युस्तदा
नराणां=जनिमतां क्रमेणादौ वयसि=वयसः प्रथमे त्र्यंशे, मध्यवयसि=द्वितीयत्र्यंशे, तदन्त्ये=
वयसोऽन्त्ये रेकप्रदाः = रेकायोगफलप्रदा भवन्ति । इदमूक्तं भवति । यस्य जन्मकाले १,४,
७,१० भावेषु कस्मिन्नपि यद्येकः पापग्रहो भवेत्तदा तस्य प्रथमे वयसि रेकाफलदो भवेत् ।
( २,५,८,११ ) पणफरे एकत्र द्वौ पापौ भवेतां तस्य मध्ये वयसि तथा च आपोक्लिमे
( ३।६।९।१२ ) एकत्र त्रयः पापाः भवेयुस्तदा तस्य चरमे वयसि रेकाफलदा भवेयुः ।
यदि ते रिपुखलग्रहनीचदृष्टाः = शत्रुना, पापग्रहेण, नीचस्थेन वा दृष्टाः स्युस्तदैवार्थत एव
मित्रशुभग्रहोच्चदृष्टा न रेकप्रदा इति । रेकाफलमग्रेतो वक्ष्यति २६।२७ श्लोकाभ्यामिति ॥२५॥
१।४।७।१० भावोंमें १ पापग्रह यदि शत्रुग्रह, पापग्रह, या नीचगत ग्रहसे दृष्ट होवे तो
प्रथम वयसमें 'रेका' फल देता है २।५।८।११ भावोंमें २ पापग्रह हों तो मध्यवयसमें, एवं
३।६।९।१२ भावोंमें ३ पापग्रह हों तो अन्त्य अवस्थामें 'रेका' योगका फल देते हैं ॥ २५ ॥
रेकायोगफलम् ।
निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः
क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः ॥
भिक्षाशी मलिनो विषादनिरतो मात्सर्यरोषान्वितो
13 देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैनिन्दितः ॥ २६ ॥