जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 196, कुल 588 में से
संदर्भ में पढ़ें१७० सटीकजातकपारिजाते-
चन्द्रेकामस्थिते=सप्तमभावमुपगते शनिदृष्टे च जातो नरो मात्रा सह = जनन्या सहितो नित्यं
प्रैष्यं = दास्यमुपैति । परप्रेष्ययोगः सर्वार्थचिन्तामणौ—
नीचे भृगौ मन्दनवांशके वा
व्ययस्थिते, चन्द्ररवी कलत्रे ।
निरीक्षितौ भानुसुतेन चात्र
जातः परप्रैष्यमुपैति नित्यम् ॥ १३॥
यदि शुक्र नीच राशिमें शनिके नवांश-
में हो, दुष्टस्थानमें हो या शनिसे देखा
जाता हो अथवा चन्द्रमा और सूर्य सप्तम
में हों और शनि दृष्ट हों तो वह बालक
अपनी माताके साथ नित्य दूत कर्म
करने वाला (सेवक) होता है ॥ १३ ॥
[ चक्र : १ ल. । १२ शुं. । श. । चं. सू. । ६ शु. ५ । मध्ये : मात्रा सह प्रैष्ययोगः ]
नीचे गुरौ वासरनायके वा केन्द्रस्थिते पापयुते शिशुघ्नः ॥
केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४ ॥
गुरौ = बृहस्पतौ, वा वासरनायके = सूर्ये, नीचे = स्वनीचराशौ केन्द्र-(१।४।७।१०)
स्थिते, पापयुते = शनिना भौमेन वा युते जातः शिशुघ्नो बालघातको भवति । अथ केन्द्रे
(१।४।७।१०) सपापे = पापग्रहयुक्ते तस्मिन् शुभदृष्टिहीने = शुभग्रहाणां दृष्ट्या रहिते,
गुरौ = बृहस्पतौ रन्ध्रेऽष्टमे च गते जातो गोमृगजातिहन्ता = आखेटादौ गवां मृगादीनाञ्च
विनाशको भवति । अत्र सर्वार्थचिन्तामणौ—'शुभदृष्टियुक्ते रन्ध्रे भृगौ' इति पाठान्तर-
मुपलभ्यते ॥ १४ ॥
( १ ) ( २ )
[ चक्र १ : १ ल. । श. । बृ. के. १० । सू. ७ मं. ]
[ चक्र २ : बु. शु. । सू. ल. । ज्ञ. मं. । बृ. ]
बृहस्पति वा सूर्य नीच राशिमें होकर केन्द्रमें स्थित हो, पापग्रहसे युक्त हो तो वह
जातक बालघाती होता है। केन्द्रमें पापग्रह हो उसपर शुभग्रहकी दृष्टि न हो, गुरु अष्टममें
हो तो गौ और मृगोंके मारनेवाला हो ॥ १४ ॥
शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च ।
नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५ ॥
शशाङ्कसौम्यौ = चन्द्रबुधौ दशमोपयातौ = लग्नदशमभावमुपगतौ पापेक्षितौ = केन-
चित्पापग्रहेणावलोकितौ पापसमन्वितौ = केनचित्पापेन युक्तौ च भवेतामपि च नीचांशगौ =
स्वनिचराशिनवांशगतौ, सौम्यदृशा = शुभग्रहदृष्ट्या विहीनौ च यदि भवेतां तदा जातस्तु
खलु = निश्चयेन नित्यमनवरतं पक्षिहन्ता = विहगघातको भवति ॥ १५ ॥