जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 178, कुल 588 में से
संदर्भ में पढ़ें१५२ सटीकजातकपारिजाते-
॥ ९१ ॥ ॥ ९२ ।
[प्रथम कुण्डली ॥ ९१ ॥]
के. | ल. |
श. | पिटकोष्णरोगाद्वा सर्पदंशनात् मरणम् |
मं. | रा. |
[द्वितीय कुण्डली ॥ ९२ ॥]
के. | ल. |
| वसन्ताद्वा पित्तभ्रंशात् |
मं. श. | रा. |
अथ हस्तादिविच्छेदयोगाः ।
धर्मे शनौ चाथ गुरौ तृतीये करच्छिदः स्यान्निधने व्यये वा ।
कर्मस्थिताश्चेद्यदि राहुमन्दसौम्याः करच्छेदयुतोऽत्र जातः ॥ ६३ ॥
धर्मे = लग्नान्नवमे भावे शनौ, अथ च गुरौ तृतीये भावे विद्यमाने, वा तौ शनिगुरू
क्रमेण निधनेऽष्टमे, व्यये = द्वादशे भवेतां तदा जातः करच्छिदो भवति । तस्य जातस्य
करच्छेदो जायते । अथ चेद्यदि राहुमन्दसौम्याः = राहुशनिबुधाः कर्मस्थिताः = दशम-
भावगता भवेयुस्तदाऽत्रास्मिन्योगे जातः करच्छेदयुतो भवति । असौ जातो हस्तरहितो
भवेदित्यर्थः । अत्र सर्वार्थचिन्तामणिकारः—
धर्मे शनौ वा सगुरौ तृतीये करच्छिदोऽर्के निधने व्यये वा ।
विधौ कलत्रे निधनान्विते वा कुजेन युक्ते यदि वा सजीवे । इत्यादि ॥ ९३ ॥
यदि ९ वें भावमें शनि और ३ रेंमें गुरु हो तो जातकके हाथ कट जाय । अथवा ८ वें
शनि और १२ वें गुरु हो तो भी यही फल कहे । यदि राहु शनि और बुध १० वें भावमें हों
तो जातक हाथसे रहित हो । (सु. शा. कार ) ॥ ९३ ॥
शुक्रेण दृष्टे यदि रन्ध्रनाथे सूर्ये शनौ वा फणिनाथयुक्ते ।
क्रूरादिषष्ट्यंशसमन्विते वा विच्छेदनं तच्छिरसो वदन्ति ॥ ६४ ॥
मन्दे विलग्ने मदने सराहौ कन्यान्विते भार्गवनन्दने च ।
क्षीणे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तश्च पदेन सार्द्धम् ॥६५॥
रन्ध्रनाथेऽष्टमभावेशे शुक्रेण दृष्टे, सूर्ये वा शनौ फणिनाथेन=राहुणा युक्ते, वा क्रूरादि-
षष्ट्यंशेन = पापादिषष्ट्यंशेन समन्विते (अशुभषष्ट्यंशगत इत्यर्थः) यदि जन्म भवति
तदा तस्य जातस्य शिरसो विच्छेदनं भवति । अस्मिन् योगे जातो नरः शिरश्छेदेन म्रियत
इति भावः । अत्र पाठभेदः—
'शुक्रेज्यदृष्टे दिवसाधिनाथे सारे शनौ वा फणिनाथयुक्ते' इति सर्वार्थचिन्तामणौ ॥९४॥
मन्दे = शनौ विलग्ने = जन्मलग्ने, मदने = सप्तमभावे सराहौ = राहुयुक्ते, भार्गव-
नन्दने = शुक्रे कन्यान्विते = कन्याराशिगते, क्षीणे शशाङ्के = कृष्णचन्द्रे च मदराशियुक्ते=
सप्तमभावगते जातः पदेन = चरणेन सार्द्धं विच्छिन्नहस्तो भवति । उक्तयोगे जातो नरो हि
करचरणरहितो भवेदित्यर्थः । अत्र सर्वार्थचिन्तामणौ पाठान्तरम्—
मन्दे विलग्ने मदने सराहौ कर्मान्विते भार्गवनन्दने च ।
कृष्णे शशाङ्के मदराशियुक्ते विच्छिन्नहस्तः स भवेत्पदेन ॥ इति ॥ ६५ ॥