सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 176, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 176

दक्षाण्डालः 'निषादश्वपचावन्तेवासिचण्डालपुक्कसाः' इत्यमरोक्तेः, तत्कृतेन मृत्युः
स्यादिति ॥ ८१ ॥
लग्नेशे = जन्मलग्नपतौ निधनांशस्थे = जन्मलग्नस्थितनवांशाच्चतुःषष्टितमनवांशगते ।
लग्ने यत्सङ्ख्ये नवांशे जन्म, तत्सङ्ख्य एव नवांशेऽष्टमभावस्थेत्यर्थः । वा लग्नेशे
मूढे = सूर्येण सहास्तङ्गते वा लग्नात्षष्ठगते जातस्य बन्धुहीने = आत्मीयजनविहीने महीतले
क्षुद्रधया = बुभुक्षोद्भूतपीडया मरणं जायत इति ॥ ८२ ॥
आयुर्विलग्नाधिपती = अष्टमेशलग्नैशौ बलेन हीनौ = निर्बलौ चेद्भवेतां, धरासूनुर्भौमः
ऋयोशेन = षष्ठेशेन युक्तश्च भवेत्तदा तस्य जातस्य युद्धे = सङ्ग्रामे शस्त्रेण मृतिं = मरणं
तज्ज्ञा विद्वांसो विशेषान्निश्चयेन वदन्ति ॥ ८३ ॥
लग्नेश्वरे = लग्नपतौ वाहननाथेन = चतुर्थेशेन युक्ते वागीश्वरेणापि = द्वितीयभावेशेन च
युते जातस्याजीर्णादधिकभुक्तस्यापरिपाकात् मरणं भवेत् वा दारेश्वरे=सप्तमेशे वाहनवित्तना-
थाम्यां-चतुर्थेशद्वितीयाभ्यामन्विते = सहिते तु अजीर्णान्मरणं भवेदिति ॥ ८४ ॥
भुक्त्यंशपः = दशमभावस्य नवांशेशो भानुसुतेन = शनिना युक्तो वा दुःस्थानगो ( षष्ठे
वाऽष्टमे वा द्वादशे ) भवेत्तदा जातस्य विषभक्षणेन = विषं गरलं तस्य भक्षणेन मरणं
वाच्यम् । अथ स भुक्त्यंशपोऽहिना = राहुणा वा शिखिना केतुना = सह युक्तो भवेत्तदा
तस्य जातस्य रज्जुनिबन्धनेन = रज्ज्वा गुणेन ( रस्सी ) निबन्धनेन मृत्युर्भवेदिति । अत्र
पाठभेदः सर्वार्थचिन्तामणौ-
"भुक्त्यंशपौ भानुसुतेन युक्तौ दुःस्थानगौ वा विषभक्षणेन ।
राहुध्वजाभ्यां सहितौ च दुःस्थानुद्वन्धनात्तस्य मृतिं वदन्ति ॥" इति ॥ ८५ ॥
क्षीणे शशाङ्के=क्षीणबले चन्द्रे, भौमाहिमन्दानामन्यतमेन युक्ते निधनस्थिते च पिशा-
चपीडाग्निजले विपन्मरणं स्यात् । अष्टमस्थे क्षीणचन्द्रे भौमेन युक्ते पिशाचपीडया,
अहिना = राहुणा युक्तेऽग्नौ, मन्देन = शनिना युक्ते जले मरणं वाच्यम् । तथा क्षीणे शशाङ्के
तथाभूते दुःस्थे ( ६।८।१२ ) तदा तु अपस्मारभयात, अपस्मारो मृगीरोगः Epilepsy
तस्य भयान्मृत्युः स्यादिति ॥ ८६ ॥
चन्द्रमा लग्नमें हो, सूर्य निर्बल अष्टममें हो, लग्नसे १२ वें वृहस्पति हो, सुखमें पापग्रह
हो तो उस जातककी मृत्यु चारपाई वगैरहसे गिरनेपर होवे ॥ ८१ ॥
यदि लग्नेश मृत्यु अंश ( ६४ वें नवांश ) में हो अथवा सूर्यके साथ अस्त हो या ६ ठे
भावमें हो तो भूखसे पीड़ित होकर अपने बन्धुओंसे रहित जगहमें ( अकेला ) मृत्यु
पाता है ॥ ८२ ॥
अष्टम और लग्नके स्वामी बलसे हीन हों मङ्गल षष्ठेशके साथ हो तो उस जातक की
मृत्यु युद्धमें हो । विशेषतः शस्त्रसे मरण हो ॥ ८३ ॥
लग्नका स्वामी चतुर्थेशसे युक्त हो और गुरुसे युक्त हो तो अजीर्ण मृत्यु हो । सप्तमेश
चतुर्थेश या द्वितीयेशके साथ हो तो अजीर्णसे मरण होता है ॥ ८४ ॥
१० वें भावका नवांशपति शनिसे युक्त हो, दुःस्थानमें प्राप्त हो तो विष खाकर मरे ।
राहुसे वा केतुसे युक्त हो तो गलेमें रस्सी बांध कर ( फांसी लगा कर ) मरे । मंगल-राहु-
शनिसे युत हो तो पिशाच पीडासे, आगसे या अगाध जलमें मरण हो । क्षीण चन्द्रमा
अष्टम स्थानमें स्थित हो तो अपस्मार ( मृगीरोग ) भयसे मृत्यु हो ॥ ८५-८६ ॥
रन्ध्रस्थानगते सूर्ये भौमे वा बलवर्जिते ।
वित्ते पापग्रहैर्युक्ते पित्तरोगान्मृतिं वदेत् ॥ ८७ ॥
जलराशिगते चन्द्रे चाष्टमस्थेऽथवा गुरौ ।