जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 169, कुल 588 में से
संदर्भ में पढ़ेंआयुर्दायाध्यायः ॥५॥ १४३
भावत्रिकोणगे मन्दे भावनाशं वदेद्बुधः ।
भावाधिपतिकोणे वा गुरौ प्राप्ते मृतिर्भवेत् ॥ ५६ ॥
पूर्वानीतानां जीव-मृत्यु-देहानां योगराशौ गते गोचरेण=चारवशात् रविजे = शनैश्चरे
धनक्षयो धनस्य नाशो वाच्यः । अथ तत्तत्त्रिकोणगृहगे=तस्माज्जीवमृत्युतनुयोगराशेस्त्रिकोण-
( ५।९ ) राशौ गतवति रविजे, अथवा तस्मिन्योगे यस्य राशेर्नवांशो भवेत्तद्राशियुते रवि-
जे (चारवशादागते शनौ ) नृणां = जनिमतां मृतिं = मरणं वदेत् ॥ ५८ ॥
भावात् त्रिकोणे ( ५।९ ) गतवति मन्दे तस्य भावस्य नाशं बुधो वदेत् । धनभावस्य
विचारे षष्ठे वा दशमे भावे गते शनैश्चरे धनस्य नाशं ब्रूयादेवं सर्वत्र । तथा भावाधिपतियंत्र
तिष्ठति तस्मात्कोणे ( ६।५ ) प्राप्ते गुरौ तद्भावस्य मृतिर्भवेत् । तत्र लग्नेशात् कोणे गते
गुरौ जातस्य मरणं, धनेशाद्धनस्य कुटुम्बस्य च हानिः, सहनेशात् भ्रातृमरणमेवं प्रत्येकस्य
विचारः कर्त्तव्यः ॥ ५९ ॥
पूर्वोक्त जीव, मृत्यु और देहका योग करनेपर जो राशि हो उस राशिमें जब गोचरसे
शनि पहुंचे तब धनका नाश कहना चाहिये । अथवा उस योग राशिसे ५।९। भावमें वा
उस योगराशिमें जिसका नवांश हो उस राशिपर जानेसे (शनिके) मनुष्योंका मरण
करता है ॥ ५८ ॥
भावसे त्रिकोणमें शनि हो तो भावका नाश होना पण्डितोंने कहा है, वा भावाधिपके
कोणमें गुरुके पहुचनेपर मृत्यु होवे ॥ ५९ ॥
लग्नाकंमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु ।
तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणे वा मृतिमेति जातः ॥ ६० ॥
स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् ।
तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः ॥ ६१ ॥
मान्दिस्फुटे भानुसुतं विशोध्य राश्यंशकोणे रविजे मृतिः स्यात् ।
धूमादिपञ्चग्रहयोगराशित्रैकाणयातेऽर्कसुते च मृत्युः ॥ ६२ ॥
जन्मकाले स्पष्टलग्नं, स्पष्टसूर्यः, स्पष्टमान्दिरिति त्रयाणां योगतुल्यराशेर्योऽधीश्वरः =
पतिः स यद्भवनं ( राशिं ) उपगतस्तस्मिन् राशौ चारवशात् संस्थे पुरुहूतवन्द्ये = गुरौ,
वा तस्माद्योगराशिपतिस्त्रिकोणे गुरौ जाते जातो मृतिमेति ॥ ६० ॥
विलग्ननाथस्य = जन्मलग्नेशस्य स्फुटे = स्पष्टराश्यादिमानतो यमकण्टकं विशोध्य शेषं
यत् तद्राशौ यस्य नवांशो भवेत्तस्मिंश्चारादागते जीवे = गुरौ जातस्य मृत्युर्भवति । तत्र न
संशयः कश्चिदिति ।
अत्र प्रसङ्गाद्यमकण्टकज्ञानमुच्यते—
दिवसानष्टधा कृत्वा वारेशाद्गणयेत्क्रमात् ।
अष्टमांशो निरीशः स्याच्छन्यंशे गुलिकः स्मृतः ॥
रात्रिरप्यष्टधा भक्ता वारेशात्पञ्चमादितः ।
गणयेदष्टमः खण्डो निष्पतिः परिकीर्तितः ॥
शन्यंशे गुलिकः प्रोक्तो गुर्वंशे यमकण्टकः ।
भौमांशे मृत्युरादिष्टो रव्यंशे कालसंज्ञकः ॥
सौम्यांशेऽर्धप्रहरकः स्पष्टकर्मप्रदेशकः ॥
इत्यनेन यथा गुलिकेष्टज्ञानं कृत्वा गुलिकसाधनं लग्नवत् क्रियते तथैव प्रतिदिनं यम-
11 कण्टकेष्टज्ञानं कृत्वा ततो लग्नवद्यमकण्टकसाधनं कर्त्तव्यम् ॥ ६१ ॥