सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 165, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 165

आयुर्दायाध्यायः ॥ ५ ॥ १३५
वृषमाहिषयोश्चैव चतुर्विंशतिवत्सराः ॥ ४२ ॥
विंशत्यायुर्मयूराणां छागादीनां च षोडश ।
हंसस्य पञ्चनवकं द्वादशाब्दाः पिकाः शुकाः ॥ ४३ ॥
तद्वत्पारावतानां च कुक्कुटस्याष्टवत्सराः ।
बुद्बुदानामेडजानां सप्तसङ्ख्याः समाः स्मृताः ॥ ४४ ॥
सरलार्थः श्लोकाः । वियोनिजन्मनां जन्मकालं विज्ञाय तस्मान्मनुष्यायुर्र्वदायुः समा-
नीय मनुष्यपरमायुषोऽनुपातेन तत्तत्परमायुष्यायुरानयेत् । यथा मनुष्यपरमायुषि ( १२०
व०।५दि० ), एतदायूस्तदा वियोनिपरमायुषि किमिति तत्तद्वियोनेरायुर्भवति ॥ ४०-४४ ॥
गिद्ध-उल्लू-शुक-काक और सर्पों की हजार वर्षकी आयु है। बटेर-वानर-भालू-मेघा
की तीन सौ वर्षकी आयु है। राक्षसोंकी १५० वर्षकी आयु है। मनुष्योंकी और हाथियों
की १२० वर्षकी आयु है। घोड़ेकी आयु ३२ वर्षकी है। गदहा-ऊंटकी आयु २५ वर्षकी
है। बैल भैंसेकी आयु २४ वर्षकी है। मोरकी २० वर्षकी आयु है। बकरा-मेंढ़ा आदिकी
१६ वर्षकी आयु है। हंसकी आयु १४ वर्षकी है। कोकिल-शुककी १२ वर्षकी आयु है।
और कबूतरकी भी आयु १२ वर्षकी है। मुरगेकी आयु ८ वर्षकी है। बुलबुलोंकी ७ वर्ष की
आयु कही है ॥ ४०-४४ ॥
अरिष्टदशा ।
त्रिमण्डलेष्वथैकस्मिन् पापस्तिष्ठति दुर्बलः ।
न सौम्यग्रहसंयुक्तस्तद्दशान्ते मृतिं वदेत् ॥ ४५ ॥
राशिसन्धिस्थखेतानां दशा रोगप्रदा भवेत् ।
त्रिंशाद्भागमनुक्रान्तदशायां मरणं नृणाम् ॥ ४६ ॥
षष्ठाष्टमस्थो रिपुदृष्टमूर्तिः पापग्रहः पापगृहोपगश्चेत् ।
स्वान्तर्दशायां मरणं नराणां वदन्ति युद्धे विजितस्य दाये ॥ ४७ ॥
पञ्चम्यारदशा मृत्युं दद्यात्षष्ठी गुरोर्दशा ।
शनेश्चतुर्थी मृत्युः स्याद्दशा राहोस्तु पञ्चमी ॥ ४८ ॥
नीचारातिविमूढस्य विपत्प्रत्यरिनैधनाः ।
दशा दद्युर्मृतिं तस्य पापयुक्ता विशेषतः ॥ ४९ ॥
तत्तद्भावार्थकामेशदशास्वान्तर्दशासु च ।
तत्तद्भावविनाशः स्यात् तद्युक्तेक्षितकारकैः ॥ ५० ॥
अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ ।
तदीशनवभागर्क्षे गते वा मरणं भवेत् ॥ ५१ ॥
अथाधुना स्थितिवशेनारिष्टदशोच्यते- त्रिमण्डलेष्वथेत्यादि । त्रिमण्डलेषु = लग्नपञ्च-
मनवमेषु यद्येकस्मिन्नपि ( लग्ने वा पञ्चमे वा नवमे ) दुर्बलः पापग्रहस्तिष्ठति तथा स
पापग्रहः सौम्यग्रहेण = शुभग्रहेण केनचित् संयुक्तो न भवेत् तदा तस्य पापग्रहस्य दशान्ते
तस्य जातकस्य मृतिं = मरणं वदेत् । अत्र त्रिमण्डले चतुराद्यैर्ग्रहैः क्रमाद्दीर्घमध्याल्पजी-
वित्वमुक्तं जातकादेशे-
“लग्नपञ्चमभाग्यादिभावेष्वेकत्र संस्थितैः । चतुराद्यैर्ग्रहैर्जाता दीर्घमध्याल्पजीविनः” इति ॥
राशिसन्धिगतग्रहाणां दशासु जातको रोगी भवति । तथा यो ग्रहो राशेस्त्रिंशत्तमं
भागमनुक्रान्तो भवति तस्य दशायां नृणां मरणं भवति । पापगृहोपगः = पापग्रहराशिगतः
कश्चित्पापग्रहश्चेत् लग्नात् षष्ठेऽष्टमे वा स्थितो भवेत्तथाभूतश्च रिपुदृष्टमूर्तिः = स्वशत्रुणा