सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 123, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 123

अरिष्टाध्यायः ॥ ४ ॥ ६७
नीचं गते लग्नपतौ विलग्नान्नाशं गते वा रविजे तथाऽस्ते ।
जातो मृतप्रायकलेवरः सन् कृच्छ्रेण वैवस्वतलोकमेति ॥ २६ ॥
लग्नपतौ = लग्नेशे नीचं = स्वनीचराशिं गते, अथवा विलग्नान्नाशं गते = अष्टमभाव-
मुपगते, रविजे = शनैश्चरे तथाऽस्तेऽर्थान्नीचगते, वा सप्तमभावगते जातो बालो मृतप्रायकले-
वरः = त्रिविधव्यथैर्व्यथितदेहः सन् कृच्छ्रेणातीव कष्टेन वैवस्वतलोकं = प्रेतपुरमेति =
म्रियत इत्यर्थः ।
ग्रन्थान्तरे—
“विलग्नाधिपतौ नीचे निधने चार्कजो भवेत्।
कृच्छ्रेण जीवितं विद्यात्षण्प्रायो विनश्यति” ॥
इति दृश्यते । परञ्च सदाष्टमस्थः शनिरिष्टदः
स्यादित्युक्तेः (२अ. ५२ श्लो.) सप्तमे शनि-
रिति युक्तं ‘रविजः कलत्रे विफलः’