जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
DevanagariSanskritpublished106 पृष्ठ
पृष्ठ 91, कुल 106 में से
संदर्भ में पढ़ेंपृष्ठ 91
१.३१४ ] जैमिनीयब्राह्मणम् [ ८३
त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्त्य् अनुष्टुप् । अत्र
ह्यू एवोवपन्त्य् अत उद्धरन्ति । तद् उ यथायं मध्येन पुरुषस्
सुहितो वा स्याद् अशनायेद् वा तथा तत् । अथ यथेतराण्य्
अङ्गानि स्थितान्य् एवम् अन्यानि स्तोत्राणि स्थितान्य् एव ॥
चत्वार्यु उ ह वै सामान्यू एकर्चेभ्यो¹ तस्थामानि² बृहद्रथन्तरे
वामदेव्यं यज्ञायज्ञीयम् इति । तानि यत्र क चानुपरीष्ठवेरंस् तानि
तृचेष्व् एव कल्पयेन् नैकर्चेषु । अथ ह वै नैकर्चकल्पी स्यात् ।
अवीर्य इव वा एष यद् एकर्चः । अयं वै लोक एकर्चः ।
अवच्छिन्न इव वा अयम् आभ्यां लोकाभ्याम् ॥
वीर्यंसंतततर इव तृचः । त्रयो वा इमे लोकाः । इमे हि लोकास्
तृचः । अथो वा एकस्माद् वीर्यंवत्तराः ।