जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 57, कुल 106 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यन्तरण है:
१.१८० ] जैमिनीयब्राह्मणम् [ ४९
तथा ह न रूक्षो भवति ॥
एतद् ध स्म वै तत् पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद् अथ
शिंशुमार्यै व्यात्तम् अतिम्रोष्यत इति । एषा ह वा एकायने
शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद् यज्ञा Check-यज्ञायज्ञीयम् । तस्या
एतद् अन्नाद्यम् एव मुखतो ऽपिधाय स्वस्त्य् अन्येति ॥
पोप्रिं वयम् अमृतं जातो वा इति । यत् प्रैष वयम् इति ब्रूयात् प्रमा-
युको यजमानस् स्यात् । अथ यत् पोप्रिम् इत्य् आहैष एवास्मै
पोप्रिद् भवति ॥
धिं मायि दायिवन् इति । यत् दासम् इति ब्रूयाद् दंसुको³ यजमानस्
स्यात् । अथ यत् दायिवम् इत्य् आह—दिवं संस्तुतो यज्ञो गमयि-
तव्य इत्य् आहुः—दिवम् एवैतत् संस्तुतं यज्ञं गमयन्ति ॥
प्रियं मित्रं नु शंसिषम् इति । यत् प्रियं मित्रं न शंसिषम् इति
ब्रूयान् न प्रियं मित्रं शंसेत । अथ यत् प्रियं मित्रं नु शंसिषम् इत्य्
आह प्रियम् एव मित्रं शंसते ॥ १७६ ॥⁴
१ कोशेषु तं २-२ कोशेषु प्रयायम् ३ एवं कोशेषु
४ र ॥ २१ ॥
प्रायां मायिनान् नू शांसीषाम् ऊर्जा नपातं स ह्य् आशुमा इति । यत्
नाशूमा इति ब्रूयान् नायुष्मान् यजमानस् स्यात् । अथ यत् आशुमा
इत्य् आहायुर् एवैतद् उद्गातात्मंश् च यजमाने च दधाति ॥
हिं मायास्यूथुः आशेमा हव्यदातायाउवा इति । यत् दाशेम इति
ब्रूयाद् दंशुका¹ एनं स्युः । अथ यद् आशेमा इत्य् आहाश्नुत एव ॥
आशेमा हव्यदातायायि सुवद् वाजेषु अविता भूवाद् धिं मायि वाणो
इति । वृद्ध इव ह्य् एतर्हि यज्ञो भवति ॥
उत भ्राता वहूनाम् इति । यत् तनूनाम् इति ब्रूयात् तनुद् इव यज-
मानस स्यात् । अथ यद् बहूनाम् इत्य् आह बहूनाम् एवैनम्
एतत् भ्रातारं करोति ॥ १७७ ॥²
१ लश दंशुका २ र ॥ २२ ॥
तद् आहुर् यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋच् । तद्
यज्ञस्य छिद्रम् । यस् तद् उद्गायन् नापिदधाति यज्ञायज्ञीयं
छिद्रं करोति । यज्ञायज्ञीयं छिद्रम् अनु यज्ञस् स्रवति यज्ञम्
अनु यजमानो यजमानम् अनु प्रजाः । तस्मिन् वाचं दध्यात् ।
वाग् वै ब्रह्म । उत भ्राता वाग् बहूनाउवा इति । गौः इति हैके
दधति—गौरू वै कृत्स्नम् अन्नाद्यम्—कृत्स्नस्यैवान्नाद्यस्यावरुद्धयै ।
तद् आहुर् नैतद् आद्रियेत । यद् वाव बाह्वनिधनं भवति तेनैव
संधीयत इति ॥
तद् आहुर् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यानि 'छन्दांसी
क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पान्ता³ इति । यज्ञा वो अग्नये इति
षड्भिर् अक्षरैः प्रस्तौति । गिरा च दक्षसे इति षड्भिर् अक्षरैर्
आदिम् आदत्ते । तद् द्वादश संपद्यन्ते । द्वादशाक्षरा जगती³ ।
जगतीं प्रथमतः पर्यूहनन्ति । तज् जगत्या विमुच्यन्ते । प्र वयम्
अमृतं जातवेदसम् इत्य् एकादशाक्षराणि संपद्यन्ते । एकादशाक्षरा
त्रिष्टुप् । तत् त्रिष्टुभा विमुच्यन्ते । प्रियं मित्रं नु शंसिषम् इत्य्
अष्टाभिर् अक्षरैर् निधनम् उपयन्ति । अष्टाक्षरा गायत्री । तद्
गायन्या विमुच्यन्ते । तद् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि
विमुच्यमानानि यन्ति । छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः
कल्पन्ते नापरामारी पूर्वी म्रियते ॥ १७८ ॥४
१ यलश आदियेत र आभियेत २-२ ? एवं कोशेषु ४ र ॥ २३ ॥
व आश्रियेत ३ र जगतीपतैर् व जगतीपतेर्
देवासुरा यज्ञे ऽस्पर्धन्त । ते देवा असुरान् यज्ञान् निरवा-
धन् । ते ऽसुरास् त्रयाणां सवनानां रसं वीर्यं प्रवृञ्जान्धं तमः
प्राविशन् । यद् ध वै किं च पराचीनम् अग्निष्टोमात् तद् अन्धं
तमः । यत् पराचीनं संवत्सरात् तद् अन्धं तमः । एतावान् वाव
यज्ञो यावान् अग्निष्टोमः । एतावान् उ संवत्सरः । द्वादश वा
अग्निष्टोमस्य स्तोत्राणि द्वादश मासास् संवत्सरः । द्वादश स्तोत्राणि
द्वादश शस्त्राणि । द्वादश पूर्वपक्षा द्वादशापरपक्षाः । अथ यत् ततः
पराचीनं तद् अन्धं तमः । तत् प्राविशन् । ते देवा असुरान्
अन्वभ्यवायन् । तान् असुरान् एतैर् एवोक्थैः प्रत्युदतिष्ठन् । यद्
उक्थैः प्रत्युदतिष्ठंस् तद् उक्थानाम् उक्थत्वम् । तांस् ततो निर्
एवावाघ्नन् । ते ऽन्धम् एव तमः प्राविशन् रात्रिम् एव ॥
स इन्द्रो ऽब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति ॥ १७९ ॥¹
१ र ॥ २४ ॥
अहं चेत्य् अब्रवीद् वरुणः । अहं वां' ज्योतिर् धारयिष्यामी-
त्य् अग्निर् अब्रवीत् । ताव् अन्वभ्यवैताम् । ताव् एकं तृतीयम्
उदाहरताम् । तेन प्रातस्सवनम् आप्याययन् । तस्माद् ऐन्द्रीषु
स्तुवन्ति । ऐन्द्रावरुणम् अनुशस्यते । तस्माद् उ गायत्रीषु स्तुव-
न्ति । गायत्रं हि प्रातस्सवनम् ॥
स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति । अहं चेत्य्
अब्रवीद् बृहस्पतिः । ताव् अन्वभ्यवैताम् । ताव् एवैकं तृतीयम्
उदाहरताम् । तेन माध्यंदिनं सवनम् आप्याययन् । तस्माद्
ऐन्द्रीषु स्तुवन्ति । ऐन्द्राबार्हस्पत्यम् अनुशस्यते । तस्माद् उ
ककुप्सु स्तुवन्ति । काकुभं हि माध्यंदिनं सवनम् ॥
स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति । अहं
चेत्य् अब्रवीद् विष्णुः । ताव् अन्वभ्यवैताम् । ताव् एवैकं तृतीयम्
उदाहरताम् । तेन तृतीयसवनम् आप्याययन् । तस्माद् ऐन्द्रीषु
स्तुवन्ति । ऐन्द्रावैष्णवम् अनुशस्यते । तस्माद् अनुष्टुप्सु
स्तुवन्ति । आनुष्टुभं हि तृतीयसवनम् ॥
तान् सर्वस्माद् एवान्तरायन् । ते ऽतो तद् अभि प्रणयन्तीति