सामग्री पर जाएँ
सर्वकोश
हितोपदेशः (हिन्दी अनुवाद सहित)

हितोपदेशः (हिन्दी अनुवाद सहित)

नारायण पण्डित द्वारा

स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)

DevanagariHindipublished302 पृष्ठ

पृष्ठ 162, कुल 302 में से

संदर्भ में पढ़ें
पृष्ठ 162

१४२ हितोपदेशः [ सुहृद्भेदः १५०-
चढ़ आती है।' टिटहरेने उत्तर दिया-‘क्या मैं समुद्रसे बलमें कमती हूँ सो वह
मुझे दुःख देगा ?' टिटहरी हँस कर बोली-‘स्वामी ! तुममें और समुद्रमें बड़ा
अन्तर है;
अथवा,-
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः ।
अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ १५० ॥
अथवा,-इस संसारमें पराभवको निर्णय करनेके लिये जो योग्य और अयोग्य
जानता है और जिसको अपने बलाबलका पूर्ण ज्ञान है वह विपत्तिमेंभी दुःख
नहीं भोगता है ॥ १५० ॥
अपि च,-
अनुचितकार्यारम्भः स्वजनविरोधो बलीयसि स्पर्धा ।
प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि' ॥ १५१ ॥
और दूसरे-अनुचित कामका आरंभ, अपने इष्ट मित्रोंसे विरोध, बलवान्से
बराबरी की इच्छा, और स्त्रियों पर विश्वास ये चार मृत्युके द्वार ( मार्ग )
हैं' ॥ १५१ ॥
ततः कृच्छ्रेण स्वामिवचनात्सा तत्रैव प्रसूता । एतत्सर्वं श्रुत्वा
समुद्रेणापि तच्छक्तिज्ञानार्थं तदण्डान्यपहृतानि । ततष्टिट्टिभी
शोकार्ता भर्तारमाह—'नाथ ! कष्टमापतितम् । तान्यण्डानि
मे नष्टानि ।' टिट्टिभोऽवदत्—'प्रिये ! मा भैषीः ।' इत्युक्त्वा
पक्षिणां मेलकं कृत्वा पक्षिखामिनो गरुडस्य समीपं गतः ।
तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो
निवेदितम्—'देव ! समुद्रेणाहं स्वगृहावस्थितो विनापराधेनैव
निगृहीतः ।' ततस्तद्वचनमाकर्ण्य गरुत्मता प्रभुर्भगवन्नारायणः
सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रमण्डदानायादिदेश ।
ततो भगवदाज्ञां मौलौ निधाय समुद्रेण तान्यण्डानि टिट्टिभाय
समर्पितानि । अतोऽहं ब्रवीमि-“अङ्गाङ्गिभावमज्ञात्वा” इत्यादि' ॥
राजाह—'कथमसौ ज्ञातव्यो द्रोहबुद्धिरिति ?' । दमनको ब्रूते—
'यदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितमिवागच्छति तदा
ज्ञास्यति स्वामी ।' एवमुक्त्वा संजीवकसमीपं गतः । तत्र गतश्च