हितोपदेशः (हिन्दी अनुवाद सहित)

हितोपदेशः (हिन्दी अनुवाद सहित)
नारायण पण्डित द्वारा
स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)
DevanagariHindipublished302 पृष्ठ
पृष्ठ 149, कुल 302 में से
संदर्भ में पढ़ेंपृष्ठ 149
- ११८ ] समयपर ग्वालिनकी चतुराई १२९ -
यतः,—
गुणाश्रयं कीर्तियुतं च कान्तं
पतिं रतिज्ञं सधनं युवानम् ।
विहाय शीघ्रं वनिता व्रजन्ति
नरान्तरं शीलगुणादिहीनम् ॥ ११७ ॥
क्योंकि-स्त्रियां सब गुणोंसे युक्त, यशस्वी, सुन्दर, कामशील, धनवान्,
जवान ऐसे पतिको छोड़ कर शील और गुणसे हीन दूसरे मनुष्यके पास शीघ्र
जाती हैं ॥ ११७ ॥
अपरं च,—
न तादृशीं प्रीतिमुपैति नारी
विचित्रशय्यां शयितापि कामम् ।
यथा हि दूर्वादिविकीर्णभूमौ
प्रयाति सौख्यं परकान्तसङ्गात् ॥ ११८ ॥
और दूसरे-स्त्री जैसी कि तृण आदि बिछी हुई भूमि पर यारके साथ अधिक
सुख पाती है वैसा सुख मुलायम शय्या पर पतिके साथभी सो कर नहीं पाती
है ॥ ११८ ॥
अथ कदाचित्सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति ।
अथ दण्डनायकोऽपि रन्तुं तत्रागतः । तमायान्तं दृष्ट्वा तत्पुत्रं
कुशूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्या
भर्त्ता गोपो गोष्ठात्समागतः । तमालोक्य गोप्योक्तम्-‘दण्डनायक !
त्वं लगुडं गृहीत्वा कोपं दर्शयन्सत्वरं गच्छ । तथा तेनानुष्ठिते
गोपेन गृहमागत्य भार्या पृष्टा—‘केन कार्येण दण्डनायकः समा-
गत्यात्र स्थितः ?’ । सा ब्रूते—‘अयं केनापि कार्येण पुत्रस्योपरि
क्रुद्धः । स च पलायमानोऽत्रागत्य प्रविष्टो मया कुशूले
निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं
दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्पुत्रं कुशूला-
द्बहिष्कृत्य दर्शितवती ।
फिर वह किसी दिन दंडनायकके पुत्रके साथ रमण कर रही थी; इतनेमें
डंडनायकभी रमण करनेके लिये वहां आ गया । तब उसको आता हुआ देख कर
हि० ९