सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

हठयोगप्रदीपिका ६३
भवेदिति । देहस्य शरीरस्य सत्त्वं बलं च भवेत् । अनेनोक्तेन विधि-
नाभ्यासविधिना योगीन्द्रो योगिनामिन्द्र इव योगीन्द्रो भूमिमण्डले सर्वैरुपद्रवैर्व-
र्जितः सर्वोपद्रववर्जितो भवेत् सत्यम् । ‘ सर्वं वाक्यं सावधारणम् ’ इति न्यायात् ।
यदुक्तं फलं तत् सत्यमेवेत्यर्थः ॥ ५६ ॥
अथ शीतली—
जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।
शनैर्घाणरन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥ ५७ ॥
शीतलीकुम्भकमाह—जिह्वयेति । जिह्वया ओष्ठयोर्बहिर्निर्गतया विहङ्गमाध-
रचञ्चुसदृशया वायुमाकृष्य शनैः पूरकं कृत्वेत्यर्थः । पूर्ववत् सूर्यभेदनवत्
कुम्भस्य कुम्भकस्य साधनं विधानं कृत्वेत्यध्याहारः । सुधीः शोभना
धीर्यस्य सः । घ्राणस्य रन्ध्रे ताभ्यां नासापुटविवराभ्यां शनकैः शनैरेव ।
‘ अव्ययसर्वनाम्नाम्— ’ (Pāṇ., V. 3. 71) इत्यकच् । पवनं वायुं
रेचयेत् ॥ ५७ ॥
गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् ।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ ५८ ॥
शीतलीगुणानाह—गुल्मश्च प्लीहश्च गुल्मप्लीहौ रोगविशेषावादी येषां-
ते गुल्मप्लीहादिकास्तान्, रोगानामयान्, ज्वरं ज्वराख्यं रोगम्, पित्तं पित्तविका-
रम्, क्षुधां भोक्तुमिच्छाम्, तृषां जलपानेच्छाम्, विषाणि सर्पादिविषजनित-
विकारान् । शीतली नामेति प्रसिद्धार्थकमव्ययम् । इयमुक्ता कुम्भिका निहन्ति
नितरां हन्ति । कुम्भशब्दः स्त्रीलिङ्गोऽपि । तथाच श्रीहर्षः—‘ उदस्य कुम्भीरथ
शातकुम्भजाः’ (Nai., V. 19) इति ॥ ५८ ॥

६४ हठयोगप्रदीपिका
अथ भस्त्रिका—
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे ।
पद्मासनं भवेदेतत् सर्वपापप्रणाशनम् ॥ ५९ ॥
भस्त्राकुम्भकस्य पद्मासनपूर्वकमेवानुष्ठानात् तदादौ पद्मासनमाह—
ऊर्वोरिति । उपर्युत्ताने शुभे शुद्धे उभे द्वे पादयोस्तलेऽधःप्रदेशौ ऊर्वोः संस्थाप्य
सम्यक् स्थापयित्वा वसेत् । एतत् पद्मासनं भवेत् । कीदृशम् ? सर्वेषां पापानां
प्रकर्षेण नाशनम् । अत्रोपरीत्यव्ययमुत्तानवाचकम् । तथा च कारकेषु
मनोरमायाम्—'उपर्युपरि बुद्धीनाम्' (p. 563) इत्यत्रोपरिबुद्धीनामित्यस्यो-
त्तानबुद्धीनामिति व्याख्यानं कृतम् ॥ ५९ ॥
सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः ।
मुखं संयम्य यत्नेन घ्राणेन रेचयेत् ॥ ६० ॥
भस्त्रिकाकुम्भकमाह—सम्यगिति । ग्रीवा च उदरं च ग्रीवोदरम् ।
प्राण्यङ्गत्वादेकवद्भावः । समं ग्रीवोदरं यस्य स समग्रीवोदरः, सुस्थिता धीर्यस्य
स सुधीः, पद्मासनं सम्यक् स्थिरं बद्ध्वा मुखं संयम्य संयतं कृत्वा
यत्नेन प्रयत्नेन घ्राणेन घ्राणस्यैकतरेण रन्ध्रेण प्राणं शरीरान्तःस्थितं वायुं
रेचयेत् ॥ ६० ॥
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् ।
वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ ६१ ॥
रेचकप्रकारमाह—यथेति । हृच्च कण्ठश्च हृत्कण्ठं तस्मिन् हृत्कण्ठे ।
समाहारद्वन्द्वः । कपालावधि कपालपर्यन्तं स्वनेन सहितं सस्वनं यथा स्यात्
तथा येन प्रकारेण लगति प्राण इति शेषः, तथा रेचयेत् । हृत्पद्ममवधिर्यस्मिन्

हठयोगप्रदीपिका ६५
कर्मणि तत् हृत्पद्मावधि, वेगेन तरसा, मारुतं वायुं पूरयेत् । चापीति
पादपूरणार्थम् ॥ ६१ ॥
पुनर्विरिचयेत् तद्वत् पूरयेच्च पुनः पुनः ।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ६२ ॥
पुनरिति—तद्वत् पूर्ववत् पुनर्विरिचयेत , पुनः पुनः पूरयेत् चेत्यन्वयः ।
उक्तेऽर्थे दृष्टान्तमाह—यथैवेति । लोहकारेण लोहविकाराणां कर्त्रा भस्त्रा
अग्नेर्धमनसाधनीभूतं चर्म यथैव येन प्रकारेण वेगेन चाल्यते ॥ ६२ ॥
तथैव स्वशरीरस्थं चालयेत् पवनं धिया ।
यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥ ६३ ॥
यथोदरं भवेत् पूर्णमनिलेन तथा लघु ।
धारयेन्नासिकां मध्यात्तर्जनीभ्यां विना दृढम् ॥ ६४ ॥
तथैव तेनैव प्रकारेण स्वशरीरस्थं स्वशरीरे स्थितं पवनं प्राणं धिया
बुद्ध्या चालयेत् । रेचकपूरकयोर्निरन्तरावर्तनेन चालनस्यावधिमाह—यदा श्रम
इति । यदा यस्मिन् काले देहे शरीरे श्रमो रेचकपूरकयोर्निरन्तरावर्तनेनायासो
भवेत् तदा तस्मिन् काले । यथा येन प्रकारेण पवनेन वायुना, लघु क्षिप्रमेवोदरं
पूर्णं भवेत् तथा तेन प्रकारेण सूर्यनाड्या पूरयेत् । ‘लघुक्षिप्रमरं द्रुतम्’
इत्यमरः (1. 1. 66) ॥
पूरकानन्तरं यत् कर्तव्यं तदाह—धारयेदिति । मध्यात्तर्जनीभ्यां मध्य-
मातर्जनीभ्यां विना अङ्गुष्ठानामिकाकनिष्ठिकाभिर्नासिकां दृढं धारयेत् । अङ्गुष्ठेन
दक्षिणनासापुटं निरुध्यानामिकाकनिष्ठिकाभ्यां वामनासापुटं निरुध्य नासिकां
दृढं गृह्णीयादित्यर्थः ॥ ६३-६४ ॥
5

६६ हठयोगप्रदीपिका
विधिवत् कुम्भकं कृत्वा रेचयेदिडयानिलम् ।
वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ ६५ ॥
विधिवदिति । बन्धपूर्वकं कुम्भकं कृत्वेडया चन्द्रनाड्याऽनिलं वायुं
रेचयेत् । भस्त्राकुम्भकस्येयं परिपाटी । वामनासापुटं दक्षिणभुजानामिका-
कनिष्ठिकाभ्यां निरुध्य दक्षिणनासापुटेन भस्त्रावद्वेगेन रेचकपूरकाः कार्याः ।
श्रमे जाते तेनैव नासापुटेन पूरकं कृत्वाऽङ्गुष्ठेन दक्षिणं नासापुटं निरुध्य
यथाशक्ति कुम्भकं धारयेत् । पश्चादिडया रेचयेत् । पुनर्द्दक्षिणनासापुटमङ्गुष्ठेन
निरुध्य वामनासापुटेन भस्त्रावज्झटिति रेचकपूरकाः कर्तव्याः । श्रमे
जाते तेनैव नासिकापुटेन पूरकं कृत्वाऽनामिकाकनिष्ठिकाभ्यां वामनासिकापुटं
निरुध्य यथाशक्ति कुम्भकं कृत्वा पिङ्गलया रेचयेदित्येका रीतिः । वामनासिका-
पुटमनामिकाकनिष्ठिकाभ्यां निरुध्य दक्षिणनासिकापुटेन पूरकं कृत्वा झटि-
त्यङ्गुष्ठेन निरुध्य वामनासापुटेन रेचयेत् । एवं शतधा कृत्वा श्रमे जाते तेनैव
पूरयेत् । बन्धपूर्वकं कृत्वेडया रेचयेत् । पुनर्द्दक्षिणनासापुटमङ्गुष्ठेन निरुध्य
वामनासापुटेन पूरकं कृत्वा झटिति वामनासिकापुटमनामिकाकनिष्ठिकाभ्यां
निरुध्य पिङ्गलया रेचयेद् भस्त्रावत् । पुनःपुनरेवं कृत्वा रेचकपूरकावृत्तिश्रमे
जाते वामनासापुटेन पूरकं कृत्वाऽनामिकाकनिष्ठिकाभ्यां धृत्वा कुम्भकं कृत्वा
पिङ्गलया रेचयेदिति द्वितीया रीतिः । भस्त्रिकागुणानाह—वातपित्तेति ।
वातश्च पित्तं च श्लेष्मा च वातपित्तश्लेष्माणस्तान् हरतीति तादृशं शरीरे देहे
योऽग्निर्जठरानलस्तस्य विशेषेण वर्धनं दीपनम् ॥ ६५ ॥
कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् ।
ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ ६६ ॥
क्षिप्रं शीघ्रं कुण्डल्याः सुप्ताया बोधकं बोधकर्तृ पुनातीति पवनं
पवित्रकारकं सुखं ददातीति सुखदं हितं त्रिदोषहरत्वात् सर्वेषां हितं सर्वदा

हठयोगप्रदीपिका ६७
च हितम्। सर्वेषां कुम्भकानां सर्वदा हितत्वेऽपि सूर्यभेदनोज्जायिनावुष्णौ प्रायेण
शीते हितौ। सीत्कारीशीतल्यौ शीतले प्रायेणोष्णे हिते। भस्त्राकुम्भकः
समशीतोष्णः सर्वदा हितः। सर्वेषां कुम्भकानां सर्वरोगहरत्वेऽपि सूर्यभेदनं
प्रायेण वातहरम्। उज्जायी प्रायेण श्लेष्महरः। सीत्कारीशीतल्यौ प्रायेण
पित्तहरे। भस्त्राख्यः कुम्भकः त्रिदोषहर इति बोध्यम्। ब्रह्मनाडी सुषुम्ना
ब्रह्मप्रापकत्वात्। तथा च श्रुतिः—
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्‍ङन्या उत्क्रमणे भवन्ति॥’
(Ch. Up., VIII. 6. 6.)
तस्या मुखेऽग्रभागे संस्थः सम्यक् स्थितो यः कफादिरूपोऽर्गलः
प्राणगतिप्रतिबन्धकस्तस्य नाशनं नाशक‍र्तृ ॥ ६६ ॥
सम्यग्‌गात्रसमुद्भूतग्रन्थित्रयविभेदकम्।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ६७ ॥
सम्यग् दृढीभूतं गात्रे गात्रमध्ये सुषुम्नायामेव सम्यगुद्भूतं समुद्भूतं जातं
यद् ग्रन्थीनां त्रयं ग्रन्थित्रयं ब्रह्मग्रन्थिविष्णुग्रन्थिरुद्रग्रन्थिरूपं तस्य विशेषेण
भेदजनकम्। अत एव इदम्, भस्त्रा इत्याख्या यस्येति भस्त्राख्यं कुम्भकं तु
विशेषेणैव कर्तव्यम्। अवश्यकर्तव्यमित्यर्थः। सूर्यभेदनादयस्तु यथासंभवं
कर्तव्याः ॥ ६७ ॥
अथ भ्रामरी—
वेगाद् घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम्।
योगीन्द्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥

६८ हठयोगप्रदीपिका
भ्रामरीकुम्भकमाह—वेगादिति । वेगात् तरसा घोषं सशब्दं यथा
स्यात् तथा भृङ्गस्य भ्रमरस्य नाद इव नादो यस्मिन् कर्मणि तत् तथा पूरकं
कृत्वा । भृङ्ग्यो भ्रमर्यस्तासां नाद इव नादो यस्मिन् तत् तथा मन्दं मन्दं
रेचकं कुर्यात् । पूरकानन्तरं कुम्भकस्तु भ्राम र्याः कुम्भकत्वादेव सिद्धोऽ
विशेषाच्च नोक्तः । पूरकरेचकयोस्तु विशेषोऽस्तीति तावेवोक्तौ । एवमुक्तरीत्या-
भ्यसनमभ्यासस्तस्य योगो युक्तिस्तस्माद् योगीन्द्राणां चित्ते काचिदनिर्व्वाच्या
आनन्दे लीला क्रीडा आनन्दलीला जातोत्पन्ना भवति ॥ ६८ ॥
अथ मूर्च्छा—
पूरकान्ते गाढतरं बद्ध्वा जालंधरं शनैः ।
रेचयेन्मूर्छनाख्येयं मनोमूर्च्छा सुखप्रदा ॥ ६९ ॥
मूर्च्छाकुम्भकमाह—पूरकान्त इति । पूरकस्यान्तेऽवसानेऽतिशयेन
गाढं गाढतरं दृढतरं जालंधराख्यं बन्धं बद्ध्वा शनैर्मन्दं मन्दं रेचयेत् । इयं
कुम्भिका मूर्च्छनाख्या मूर्च्छना इत्याख्या यस्या इति मूर्च्छनाख्या । कीदृशी ?
मनो मूर्च्छयतीति मनोमूर्च्छा । एतेन मूर्च्छनाया विग्रहदर्शनपूर्वकं फलमुक्तम् ।
पुनः कीदृशी ? सुखप्रदा सुखं प्रददातीति सुखप्रदा ॥ ६९ ॥
अथ प्लावनी—
अन्तःप्रवर्तितोदारमारुतापूरितोदरः ।
पयस्यगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥ ७० ॥
प्लावनीकुम्भकमाह—अन्तरिति । अन्तः शरीरान्तः प्रवर्तितः पूरित
उदारोऽतिशयितो यो मारुतः समीरस्तेना समन्तात् पूरितमुदरं येन स
पुमानगाधेऽप्यतलस्पर्शेऽपि पयसि जले पद्मपत्रवत् पद्मपत्रेण तुल्यं सुखादना-
यासात् प्लवते तरति जलोपरि गच्छति ॥ ७० ॥

हठयोगप्रदीपिका ६९
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७१ ॥
अथ प्राणायामभेदानाह—प्राणायाम इति । प्राणस्य शरीरान्तः-
संचारिवायोरायामनं निरोधनमायामः प्राणायामः । प्राणायामलक्षणमुक्तं गोरक्ष-
नाथेन—'प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्' (Gor. Śat., 42) इति ।
रेचकश्च पूरकश्च कुम्भकश्च तैर्भेदैस्त्रिधा त्रिप्रकारकः, रेचकप्राणायामः पूरक-
प्राणायामः कुम्भकप्राणायामश्चेति । रेचकलक्षणमाह याज्ञवल्क्यः—'बहिर्यद्रेचनं
वायोरुदराद्रेचकः स्मृतः' इति । रेचकप्राणायामलक्षणम्—
‘निष्क्रम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन ।
निरुच्छ्वसंस्तिष्ठति रुद्धवायुः स रेचको नाम महानिरोधः ॥’
पूरकलक्षणम्—'बाह्यादापूरणं वायोरुदरे पूरको हि सः' । पूरक-
प्राणायामलक्षणम्—
‘बाह्ये स्थितं प्राणपुटेन वायुमाकृष्य तेनैव शनैः समन्तात् ।
नाडीश्च सर्वाः परिपूरयेद्यः स पूरको नाम महानिरोधः ॥’
कुम्भकलक्षणम्—'संपूर्य कुम्भवद्वायोर्धारणं कुम्भको भवेत्' ।
अयं कुम्भकस्तु पूरकप्राणायामादभिन्नः । भिन्नस्तु—
‘न रेचको नैव च पूरकोऽत्र नासापुटान्तस्थितमेव वायुम् ।
सुनिश्चलं धारयते क्रमेण कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥’
अथ प्रकारान्तरेण प्राणायामं विभजते—सहित इति । कुम्भको
द्विविधः । सहितः केवलश्चेति । मतोऽभिमतो योगिनामिति शेषः । तत्र सहितो
द्विविधः । रेचकपूर्वकः पूरकपूर्वकश्च । तदुक्तम्—'आरेच्यापूर्य वा

७० हठयोगप्रदीपिका
कुर्यात् स वै सहितकुम्भकः' । तत्र रेचकपूर्वको रेचकप्राणायामादभिन्नः ।
पूरकपूर्वकः कुम्भकः पूरकप्राणायामादभिन्नः । केवलकुम्भकः कुम्भकप्राणा-
यामादभिन्नः । प्रागुक्ताः सूर्यभेदनादयः पूरकपूर्वकस्य कुम्भकस्य भेदा
ज्ञातव्याः ॥ ७१ ॥
यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् ।
रेचकं पूरकं मुक्त्वा सुखं यद् वायुधारणम् ॥ ७२ ॥
सहितकुम्भकाभ्यासस्यावधिमाह—यावदिति । केवलस्य केवलकुम्भकस्य
सिद्धिः केवलसिद्धिर्यावत् यावत्पर्यन्तं स्यात् तावत् तावत्पर्यन्तं सहितकुम्भकं
सूर्यभेदादिकमभ्यसेदनुतिष्ठेत् । सुषुम्नाभेदानन्तरं यदा सुषुम्नान्तः षट्शब्दा भवन्ति
तदा केवलकुम्भकः सिद्ध्यति । तदनन्तरं सहितकुम्भका दश विंशतिर्वा कार्याः ।
अशीतिसंख्यापूर्तिः केवलकुम्भकैरेव कर्तव्या । सति सामर्थ्ये केवलकुम्भका
अशीतेरधिकाः कार्याः । केवलकुम्भकस्य लक्षणमाह—रेचकमिति । रेचकं
पूरकं मुक्त्वा त्यक्त्वा सुखमनायासं यथा स्यात् तथा वायोर्धारणं वायुधारणं
यत् ॥ ७२ ॥
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ।
कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ ७३ ॥
प्राणेति । स वै इति । निश्चितं केवलकुम्भकः प्राणायाम इत्ययमुक्तः ।
केवलं प्रशंसति—केवल इति । रेचो रेचकः, रेचश्च पूरकश्च रेचपूरकौ ताभ्यां
वर्जिते रहिते केवले कुम्भके सिद्धे सति ॥ ७३ ॥
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते ।
शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ ७४ ॥

हठयोगप्रदीपिका ७१
नेति । तस्य योगिनस्त्रिषु लोकेषु दुर्लभं दुष्प्रापं किंचित् किमपि न
विद्यते, तस्य सर्वं सुलभमित्यर्थः । शक्त इति । केवलकुम्भकेन कुम्भकाभ्यासेन
शक्तः समर्थो यथेष्टं यथेच्छं वायुर्धारणं वायुधारणं तस्माद् वायुधारणात्
॥ ७४ ॥
राजयोगपदं चापि लभते नात्र संशयः ।
कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत् ।
अनर्गला सुषुम्ना च हठसिद्धिश्च जायते ॥ ७५ ॥
राजयोगपदं राजयोगात्मकं पदं लभते । अत्र संशयो न । निश्चितमे-
तदित्यर्थः । कुम्भकाभ्यासस्य परंपरया कैवल्यहेतुत्वमाह—कुम्भकादिति ।
कुम्भकात् कुम्भकाभ्यासात् कुण्डली आधारशक्तिस्तस्या बोधो निद्राभङ्गो भवेत् ।
कुण्डल्या बोधः कुण्डलीबोधस्तस्मात् कुण्डलीबोधतः सुषुम्ना मध्यनाड्यनर्गला
कफायर्गलरहिता भवेत् । हठस्य हठाभ्यासस्य सिद्धिः प्रत्याहारादिपरंपरया
कैवल्यरूपा सिद्धिर्जायते ॥ ७५ ॥
हठं विना राजयोगो राजयोगं विना हठः ।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ ७६ ॥
हठयोगराजयोगसाधनयोः परस्परोपकार्योपकारकत्वमाह—हठं विनेति ।
हठं हठयोगं विना राजयोगो न सिध्यति, राजयोगं विना हठो न सिध्यति,
ततः यतोऽन्यतरस्य सिद्धिर्नास्ति तस्मान्निष्पत्तिं राजयोगसिद्धिमा मर्यादीकृत्य
या निष्पत्तिस्तस्या राजयोगसिद्धिपर्यन्तं युग्मं हठयोगराजयोगद्वयमभ्यसेदनुतिष्ठेत् ।
हठातिरिक्ते साक्षात् परंपरया वा राजयोगसाधनेऽत्र राजयोगशब्दः, जीवनसाधने
लाङ्गले जीवनशब्दप्रयोगवत् । राजयोगसाधनं चतुर्थोपदेशे वक्ष्यमाणमुन्मनी-

७२ हठयोगप्रदीपिका
शााम्भवीमुद्रादिरूपमपरोक्षानुभूतावुक्तं पञ्चदशाङ्गरूपम् । वाक्यसुधायामुक्तं दृश्यानु-
विधादिरूपं च ॥ ७६ ॥
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् ।
एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥ ७७ ॥
हठाभ्यासाद् राजयोगप्राप्तिप्रकारमाह — कुम्भकेति । कुम्भकेन प्राणस्य
यो रोधस्तस्यान्ते मध्ये चित्तमन्तःकरणं निराश्रयं कुर्यात् । संप्रज्ञातसमाधौ जातायां
ब्रह्माकारवृत्तेः परवैराग्येण विलयं कुर्यादित्यर्थः । एवमुक्तरीत्याभ्यासस्य योगो
युक्तिस्तेन । ‘योगः संहननोपायध्यानसंगतियुक्तिषु’ (Ak., III. 3. 22)
इति कोशः । राजयोगपदं राजयोगात्मकं पदं व्रजेत् प्राप्नुयात् ॥ ७७ ॥
वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले ।
आरोगता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥
इति हठयोगप्रदीपिकायां द्वितीयोपदेशः
हठसिद्धिज्ञापकमाह—वपुःकृशत्वमिति । वपुषो देहस्य कृशत्वं कार्श्यं,
वदने मुखे प्रसन्नता प्रसादः, नादस्य ध्वनेः स्फुटत्वं प्राकट्यं, नयने नेत्रे सुष्ठु
निर्मले, अरोगस्य भावोऽरोगता आरोग्यं, बिन्दोर्धातोरोजः क्षयाभावरूपः
अग्नेरुदर्यस्य दीपनं दीप्तिः, नाडीनां विशेषेण शुद्धिर्मलापगमः, एतद्धठस्य
हठाभ्याससिद्धेर्भाविन्या लक्ष्यतेऽनेनेति लक्षणं ज्ञापकम् ॥ ७८ ॥
इति श्रीहठयोगप्रदीपिकाव्याख्यायां ज्योत्स्नाभिधायां ब्रह्मानन्दकृतायां द्वितीयोपदेशः

तृतीयोपदेशः
सशैलवनधात्रीणां यथाधारोऽहिनायकः ।
सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ १ ॥
अथ कुण्डल्याः सर्वयोगाश्रयत्वमाह—सशैलेति । शैलाश्च वनानि च
शैलवनानि तैः सह वर्तमानाः सशैलवनास्ताश्च ता धात्र्यश्च भूमयस्तासाम् ।
धात्र्या एकत्वेऽपि देशभेदाद् भेदमादाय बहुवचनम् । अहीनां सर्पाणां नायको
नेताहिनायकः शेषो यथा यद्वदाधार आश्रयस्तथा तद्वत् । सर्वेषां योगस्य
तन्त्राणि योगतन्त्राणि योगोपायास्तेषाम् । कुण्डल्याधारशक्तिराश्रयः । कुण्डली-
बोधं विना सर्वयोगोपायानां वैयर्थ्यादिति भावः ॥ १ ॥
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ २ ॥
कुण्डलीबोधस्य फलमाह द्वाभ्याम्—सुप्तेति । सुप्ता कुण्डली गुरोः
प्रसादेन यदा जागर्ति बुध्यते तदा सर्वाणि पद्मानि षट्चक्राणि भिद्यन्ते
भिन्नानि भवन्ति । ग्रन्थयोऽपि च ब्रह्मग्रन्थिविष्णुग्रन्थिरुद्रग्रन्थयो भिद्यन्ते भेदं
प्राप्नुवन्तीत्यन्वयः ॥ २ ॥
प्राणस्य शून्यपदवी तदा राजपथायते ।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३ ॥
प्राणस्येति । तदा शून्यपदवी सुषुम्ना प्राणस्य वायो राज्ञां पन्था
राजपथः, राजपथ इवाचरति राजपथायते राजमार्गायते । सुखेन गमनसंभवात् ।

७४ हठयोगप्रदीपिका
तदा चित्तमालम्बनमाश्रयस्तस्मान्निर्गतं निरालम्बं निर्विषयं भवति । तदा कालस्य
मृत्योर्वञ्चनं प्रतारणं भवति ॥ ३ ॥
सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः ।
श्मशानं शांभवी मध्यमार्गश्चेत्येकवाचकाः ॥ ४ ॥
सुषुम्नापर्यायानाह—सुषुम्नेति । इत्युक्ताः शब्दा एकस्य एकार्थस्य
वाचकाः एकवाचकाः । पर्याया इत्यर्थः । स्पष्टः श्लोकार्थः ॥ ४ ॥
तस्मात् सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ५ ॥
तस्मादिति । यस्मात् कुण्डलीबोधेनैव षट्चक्रभेदादिकं भवति तस्मात्
सर्वप्रयत्नेन सर्वेण प्रयत्नेन ब्रह्म सच्चिदानन्दलक्षणं तस्य द्वारं प्राप्युपायः सुषुम्ना,
तस्य मुखेऽग्रभागे मुखेन सुषुम्नाद्वारं विधाय सुप्तामीश्वरीं कुण्डलीं प्रबोधयितुं
प्रकर्षेण बोधयितुं मुद्राणां महामुद्रादीनामभ्यासमावृत्तिं समाचरेत् सम्यगा-
चरेत् ॥ ५ ॥
महामुद्रा महाबन्धो महावेधश्च खेचरी ।
उड्ड्यानं मूलबन्धश्च बन्धो जालंधराभिधः ॥ ६ ॥
करणी विपरीताख्या वज्रोली शक्तिचालनम् ।
इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ७ ॥
मुद्रा उद्दिशति—महामुद्रेत्यादिना सार्धेन । सार्धार्थः स्पष्टः ॥ ६ ॥
मुद्राफलमाह सार्धद्वाभ्याम्—इदमिति । इदमुक्तं मुद्राणां दशकं
जरा च मरणं च जरामरणे तयोर्नाशनं निवारकम् ॥ ७ ॥

हठयोगप्रदीपिका ७५
आदिनाथोदितं दिव्यमैश्वर्यप्रदायकम् ।
वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि ॥ ८ ॥
आदिनाथेन शंभुनोदितं कथितम् । दिवि भवं दिव्यमुत्तमम् । अष्टौ
च तान्यैश्वर्याणि चाष्टैश्वर्याणि अणिममहिमगरिमलघिमप्राप्तिप्राकाम्येशिताव-
शिताख्यानि । तत्राणिमा संकल्पमात्रेण प्रकृत्यपगमे परमाणुवद् देहस्य सूक्ष्मता । १ ।
महिमा प्रकृत्यापूरेणाकाशादिवन्महद्भावः । २ । गरिमा लघुतरस्यापि तूलादेः
पर्वतादिवद् गुरुभावः । ३ । लघिमा गुरुतरस्यापि पर्वतादेस्तूलादिवल्लघुभावः । ४ ।
प्राप्तिः सर्वभावसांनिध्यम् । यथा भूमिस्य एवाङ्गुल्यग्रेण स्पृशति चन्द्र-
मसम् । ५ । प्राकाम्यमिच्छानभिघातः । यथा उदक इव भूमौ निमज्जत्युन्मज्जति
च । ६ । ईशिता भूतभौतिकानां प्रभवव्ययसंस्थानविशेषसामर्थ्यम् । ७ ।
वशित्वं भूतभौतिकानां स्वाधीनकरणम् । ८ । तेषां प्रदायकं प्रकर्षेण ददातीति
तथा, सर्वे च ते सिद्धाश्च कपिलादयस्तेषां वल्लभं प्रियं मरुतां देवानापि
दुर्लभं दुष्प्रापं किमुतान्येषामित्यर्थः ॥ ८ ॥
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् ।
कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ९ ॥
गोपनीयमिति । प्रयत्नेन प्रकृष्टेन यत्नेन गोपनीयं गोपनार्हम् । गोपने
दृष्टान्तमाह—यथेति । रत्नानां हीरकादीनां करण्डकं रत्नकरण्डकं यथा येन
प्रकारेण गोप्यते तद्वत् । कस्यापि जनमात्रस्य यद्वा कस्यापि ब्रह्मणोऽपि नैव
वक्तव्यं नैव वाच्यं किमुतान्यस्य । तत्र दृष्टान्तः—कुलस्त्रियाः सुरतं कुलस्त्रीसुरतं
संगमनं यथा यद्वत् ॥ ९ ॥
अथ महामुद्रा—
पादमूलेन वामेन योनिं संपीड्य दक्षिणम् ।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम् ॥ १० ॥

७६ हठयोगप्रदीपिका
मुद्रासु प्रथमोद्दिष्टत्वेन महामुद्रां तावदाह—पादमूलेनेति । वामेन
सव्येन पादस्य मूलं पादमूलं पाष्णिस्तेन पादमूलेन वामपादपाष्णिनेत्यर्थः ।
योनिं योनिस्थानं गुदमेण्ढयोर्मध्यभागं संपीड्याकुञ्चितवामपादपाष्णिना योनि-
स्थानं दृढं संयोज्येत्यर्थः । दक्षिणं सव्येतरं पदं चरणं प्रसारितं भूमि-
संलग्नपाष्णिकमूर्ध्वाङ्गुलिकं दण्डवत्कृत्वा कराभ्यां संप्रदायादाकुञ्चितकरतर्ज-
नीभ्यां दृढं गाढं धारयेदङ्गुष्ठप्रदेशे गृह्णीयात् ॥ १० ॥
कण्ठे बन्धं समारोप्य धारयेद् वायुमूर्ध्वतः ।
यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ११ ॥
कण्ठ इति । कण्ठे कण्ठदेशे बन्धं बन्धनं सम्यगारोप्य कृत्वा ।
जालंधरबन्धं कृत्वेत्यर्थः । वायुं पवनमूर्ध्वत उपरि सुषुम्नायां धारयेत् । अनेन
मूलबन्धः सूचितः । स तु योनिसंपीडनेन जिह्वाबन्धनेन च चरितार्थ इति
सांप्रदायिकाः । यथा दण्डेन हतस्ताडितो दण्डहतः सर्पः कुण्डली दण्डाकारः
दण्डस्याकार इवाकारो यस्य स तादृशः । कुण्डलाकारं त्यक्त्वा सरल इत्यर्थः ।
प्रकर्षेण जायते भवति ॥ ११ ॥
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् ।
तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ १२ ॥
ऋज्वीति । तथा कुण्डल्याधारशक्तिः सहसा शीघ्रमेव ऋज्वी संपद्यते
तथाभूता ऋज्वीभूता सरला भवेत् । तदा सेति । द्वे पुटे इडापिङ्गले
आश्रयो यस्याः सा मरणावस्था जायते । कुण्डलीबोधे सति सुषुम्नायां प्रविष्टे
प्राणे द्वयोः पुटयोः प्राणवियोगात् ॥ १२ ॥
ततः शनैः शनैरेव रेचयेन्नैव वेगतः ।
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता ॥ १३ ॥

हठयोगप्रदीपिका ७७
ततस्तदनन्तरं शनैः शनैरेव रेचयेत् । वायुमिति संबध्यते । वेगतस्तु
वेगान्न रेचयेत् । वेगतो रेचने बलहानिप्रसङ्गात् । खल्विति वाक्यालंकारे ।
इयं महामुद्रा महासिद्धैरादिनाथादिभिः प्रदर्शिता प्रकर्षेण दर्शिता ॥ १३ ॥
महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ १४ ॥
महामुद्राया अन्वर्थतामाह—महेति । महान्तश्च ते क्लेशाश्च महाक्लेशा
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च । त आदयो येषां तत्कार्याणां
शोकमोहादीनां ते दोषाः क्षीयन्ते । मरणादियेषां जरादीनां तेऽपि च क्षीयन्ते
नश्यन्ति । यतस्तेनैव हेतुना विशिष्टा बुधा विबुधास्तेषूत्तमा विबुधोत्तमा
महामुद्रां वदन्ति । महाक्लेशान् मरणादींश्च दोषान् मुद्रयति शमयतीति महामुद्रेति
व्युत्पत्तेरित्यर्थः ॥ १४ ॥
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् ।
यावत्तुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत् ॥ १५ ॥
महामुद्राभ्यासक्रममाह—चन्द्राङ्ग इति । चन्द्रेण चन्द्रनाड्योपलक्षितमङ्गं
चन्द्राङ्गं तस्मिन् चन्द्राङ्गे वामाङ्गे । तुशब्दः पादपूरणे । सम्यगभ्यस्य सूर्येण
पिङ्गलयोपलक्षितमङ्गं सूर्याङ्गं तस्मिन् सूर्याङ्गे दक्षाङ्गे पुनर्वामाङ्गाभ्यासानन्तरं
यावद् यावत्कालपर्यन्तं तुल्या वामाङ्गे कुम्भकाभ्याससंख्यासमा संख्या
भवेत् तावदभ्यसेत् । ततः संख्यासाम्यानन्तरं मुद्रां महामुद्रां विसर्जयेत् ।
अत्रायं क्रमः । आकुञ्चितवामपादपाणिं योनिस्याने संयोज्य प्रसारित-
दक्षिणपादाङ्गुष्ठमाकुञ्चिततर्जनीभ्यां गृहीत्वाभ्यासो वामाङ्गेऽभ्यासः । अस्मि-
न्नभ्यासे पूरितो वायुर्वामाङ्गे तिष्ठति । आकुञ्चितदक्षपादपाणिं योनिस्याने

७८ हठयोगप्रदीपिका
संयोज्य प्रसारितवामपादाङ्गुष्ठमाकुञ्चिततर्जनीभ्यां गृहीत्वाभ्यासो दक्षाङ्गेऽभ्यासः ।
अस्मिन्नभ्यासे पूरितो वायुर्दक्षाङ्गे तिष्ठति ॥ १५ ॥
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
अपि भुक्तं विषं घोरं पीयूषमिव जीर्यति ॥ १६ ॥
महामुद्रागुणानाह त्रिभिः--न हीति । हि यस्माद् महामुद्राभ्यासिन
इत्यध्याहारः । पथ्यमपथ्यं वा न । पथ्यापथ्यविचारो नास्तीत्यर्थः । तस्मात्
सर्वेऽपि भुक्ता रसाः कट्वम्लादयो जीर्यन्तीति वचनविपरिणामेनान्वयः । नीरसा
निर्गतो रसो येभ्यस्ते यातयामाः पदार्था जीर्यन्ति । घोरमिति दुर्जरं भुक्तमन्नं
विषं क्ष्वेडमपि पीयूषमिवामृतमिव जीर्यति जीर्णं भवति । किमुतान्यदिति
भावः ॥ १६ ॥
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ १७ ॥
यः पुमान् महामुद्रामभ्यसेत् तस्य क्षयो राजरोगः कुष्ठगुदावर्तगुल्मा
रोगविशेषाः । अजीर्णं भुक्तान्नापरिपाकस्तानि पुरोगमान्यग्रेसराणि येषां
महोदरज्वरादीनां ते तथा तादृशा दोषा दोषजनिता रोगाः क्षयं नाशं यान्ति
आप्नुवन्ति ॥ १७ ॥
कथितैयं महामुद्रा महासिद्धिकरी नृणाम् ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ १८ ॥
महामुद्रामुपसंहरन् तस्या गोप्यत्वमाह--कथितेति । इयमेषा महामुद्रा
कथितोक्ता । मयेति शेषः । कीदृशी ? नृणामभ्यस्यतां नराणां महत्यश्च ताः
सिद्धयश्चाणिमाद्यास्तासां करी कर्त्रीयम् । प्रकृष्टो यत्नः प्रयत्नस्तेन प्रयत्नेन

हठयोगप्रदीपिका ७९
गोपनीया गोपनार्हा, यस्य कस्यचिद् यस्य कस्याप्यनधिकारिणः, संबन्ध-
सामान्ये षष्ठी । न देया दातुं योग्या न भवतीत्यर्थः ॥ १८ ॥
अथ महाबन्धः—
पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ १९ ॥
महाबन्धमाह—पार्ष्णिमिति । वामस्य सव्यस्य पादस्य चरणस्य पार्ष्णि
गुल्फयोरधोभागम् । 'तद्ग्रन्थी घुटिके गुल्फौ पुमान् पार्ष्णिस्तयोरधः'
इत्यमरः (II. 6. 72) । योनिस्थाने गुदमेण्द्र्योरन्तराले नियोजयेन्नितरां
योजयेत् । वामः सव्यो य ऊरुस्तस्योपरि दक्षिणं चरणं पादं संस्थाप्य सम्यक्
स्थापयित्वा । तथाशब्दः पादपूरणे ॥ १९ ॥
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् ।
निष्पीड्य योनिमाकुञ्च्य मनो मध्ये नियोजयेत् ॥ २० ॥
पूरयित्वेति । ततस्तदनन्तरं वायुं पूरयित्वा हृदये चुबुकं दृढं निष्पीड्य
गाढं संस्थाप्य । एतेन जालन्धरबन्धः प्रोक्तः । योनिं गुदमेण्द्र्योरन्तरालमाकुञ्च्य ।
अनेन मूलबन्धः सूचितः । स तु जिह्वाबन्धेन गतार्थत्वान्न कर्तव्यः । मनः
स्वान्तं मध्ये मध्यनाड्यां नियोजयेत् प्रवर्तयेत् ॥ २० ॥
धारयित्वा यथाशक्ति रेचयेदनिलं शनैः ।
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ २१ ॥
धारयित्वेति । शक्तिमनतिक्रम्य यथाशक्ति, धारयित्वा कुम्भयित्वा,
शनैर्मन्दं मन्दमनिलं वायुं रेचयेत् । सव्याङ्गे वामाङ्गे समभ्यस्य सम्यगावर्त्य
दक्षाङ्गे दक्षिणाङ्गे पुनर्यावत् तुल्या भवेत् संख्या तावदभ्यस्येत् ॥ २१ ॥

८० हठयोगप्रदीपिका
मतमत्र तु केषांचित् कण्ठबन्धं विवर्जयेत् ।
राजदन्तस्थजिह्वायां बन्धः शस्तो भवेदिति ॥ २२ ॥
अथ जालंधरबन्धे कण्ठसंकोचनस्यानुपयोगमाह—मतमिति । केषां-
चित्त्वाचार्याणामिदं मतम् । किं तदित्याह—अत्र जालंधरबन्धे कण्ठस्य बन्धनं
बन्धः संकोचस्तं विवर्जयेद्विशेषेण वर्जयेत् । कुतः ? यतो दन्तानां राजानो
राजदन्ता राजदन्तेषु तिष्ठतीति राजदन्तस्था, राजदन्तस्था चासौ जिह्वा
च तस्यां राजदन्तस्थजिह्वायां बन्धस्तदुपरिभागस्य संबन्धः शस्तः । कण्ठाकुञ्चना-
पेक्षया प्रशस्तो भवेदिति हेतोः ॥ २२ ॥
अयं तु सर्वनाडीनामूर्ध्वगतिनिरोधकः ।
अयं खलु महाबन्धो महासिद्धिप्रदायकः ॥ २३ ॥
अयं त्विति । अयं तु राजदन्तस्थजिह्वायां बन्धस्तु सर्वाश्च ता नाड्यश्च
सर्वनाड्यो द्वासप्ततिसहस्रसंख्याकास्तासां सुषुम्नातिरिक्तानामूर्ध्वमुपरि वायोर्गति-
रूर्ध्वगतिस्तस्या निरोधकः प्रतिबन्धकः । एतेन 'बध्नाति हि शिराजालम्'
(III. 71) इति जालंधरोक्तं फलमनेनैव सिद्धमिति सूचितम् । महाबन्धस्य
फलमाह—अयं खल्विति । अयमुक्तः खलु प्रसिद्धः महाबन्धः, महासिद्धीः
प्रकर्षेण ददातीति तथा ॥ २३ ॥
कालपाशमहाबन्धविमोचनविचक्षणः ।
त्रिवेणीसंगमं धत्ते केदारं प्रापयेन्मनः ॥ २४ ॥
कालस्य मृत्योः पाशो वागुरा तेन यो महाबन्धो बन्धनं तस्य विशेषेण
मोचने मोक्षणे विचक्षणः प्रवीणः । तिसृणां नदीनां वेणी समुदायः स एव
संगमः प्रयागस्तं धत्ते विधत्ते । केदारं भ्रुवोर्मध्ये शिवस्थानं केदारशब्दवाच्यम्

हठयोगप्रदीपिका ८१
तं मनः स्वान्तं प्रापयेत् । ‘गतिबुद्धि—’ (Pāṇ., 1. 4. 52) इत्यादिना
अणौ कर्तुर्मनसो णौ कर्मत्वम् ॥ २४ ॥
रूपलावण्यसंपन्ना यथा स्त्री पुरुषं विना ।
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ ॥ २५ ॥
महावेधं वक्तुमादौ तस्योत्कर्षं तावदाह—रूपेति । रूपं सौन्दर्यं चक्षुः-
प्रियो गुणः, लावण्यं कान्तिविशेषः । तदुक्तम्—
‘मुक्ताफलेषु छायायास्तरळत्वमिवान्तरम् ।
प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥’ इति ।
ताभ्यां संपन्ना विशिष्टा स्त्री युवती पुरुषं भर्तारं विना यथा यादृशी
निष्फला तथा महामुद्रा च महाबन्धश्च तौ, वेधेन महावेधेन विनापि ।
‘प्रत्ययपूर्वोत्तरपदयोर्लोपो वक्तव्यः’ इति भाष्यकारोक्तेर्महच्छब्दस्य लोपः ।
वर्जितौ रहितौ निष्फलौ व्यर्थावित्यर्थः ॥ २५ ॥
अथ महावेधः—
महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ।
वायूनां गतिमावृत्य निभृतं कण्ठमुद्रया ॥ २६ ॥
महावेधमाह—महाबन्धेति । महाबन्धे महाबन्धमुद्रायां स्थितो महाबन्ध-
स्थितः । एका एकाग्रा धीर्यस्य स एकाग्रधीर्योगी योगाभ्यासी पूरकं नासापुटाभ्यां
वायोर्ग्रहणं कृत्वा, कण्ठे मुद्रा कण्ठमुद्रा तया जालंधरमुद्रया वायूनां प्राणादीनां
गतिमूर्ध्वाधोगमनादिरूपां निभृतं निश्चलं यथा भवति तथावृत्य निरुध्य कुम्भकं
कृत्वेत्यर्थः ॥ २६ ॥
6

८२ हठयोगप्रदीपिका
समहस्तयुगो भूमौ स्फिचौ संताडयेच्छनैः ।
पुटद्वयमतिक्रम्य वायुः स्फुरति मध्यगः ॥ २७ ॥
समहस्तेति । भूमौ भुवि हस्तयोर्युगं हस्तयुगं समं हस्तयुगं यस्य सः
समहस्तयुगः भूमिसंलग्नतलौ सरलौ हस्तौ यस्य तादृशः सन्नित्यर्थः । स्फिचौ
कटिप्रोथौ । 'स्त्रियां स्फिचौ कटिप्रोथौ' इत्यमरः (II. 6. 75) । भूमिसंलग्न-
तलयोर्हस्तयोरवलम्बनेन योनिसंलग्नपार्ष्णिना वामपादेन सह भूमेः
किंचिदुत्थापितौ शनैर्मन्दं संताडयेत् सम्यक् ताडयेत् , भूमावेव । पुटयोर्द्वय-
मिडापिङ्गलयोर्युग्ममतिक्रम्योल्लङ्घ्य मध्ये सुषुम्नामध्ये गच्छतीति मध्यगो वायुः
स्फुरति ॥ २७ ॥
सोमसूर्याग्निसंबन्धो जायते चामृताय वै ।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ २८ ॥
सोमेति । सोमश्च सूर्यश्चाग्निश्च सोमसूर्याग्नयः सोमसूर्याग्निशब्दैस्तदधिष्ठिता
नाड्य इडापिङ्गलासुषुम्ना ग्राह्यास्तेषां संबन्धः । तद्वायुसंबन्धात् तेषां संबन्धः,
अमृताय मोक्षाय जायते । वै इति निश्चयेऽव्ययम् । मृतस्य प्राणवियुक्तस्यावस्था
मृतावस्था समुत्पन्ना भवति । इडापिङ्गलयोः प्राणसंचाराभावात् । ततस्तदनन्तरं
वायुं विरेचयेन्नासिकापुटाभ्यां शनैस्त्यजेत् ॥ २८ ॥
महावेधोऽयमभ्यासान्महासिद्धिप्रदायकः ।
वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः ॥ २९ ॥
महावेध इति । अयं महावेधोऽभ्यासात् पुनःपुनरावर्तनाद् महासिद्धयो-
ऽणिमाद्यास्तासां प्रदायकः प्रकर्षेण समर्पकः । वली जरया देहे चर्मसंकोचः, पलितं
जरसा केशेषु शौक्ल्यं, वेपः कम्पः तान् हन्तीति वलीपलितवेपघ्नः । अतएव
साधकेष्वभ्यासिषूत्तमाः साधकोत्तमास्तैः सेव्यतेऽभ्यस्यत इत्यर्थः ॥ २९ ॥