हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 94, कुल 307 में से
संदर्भ में पढ़ें७६ हठयोगप्रदीपिका
मुद्रासु प्रथमोद्दिष्टत्वेन महामुद्रां तावदाह—पादमूलेनेति । वामेन
सव्येन पादस्य मूलं पादमूलं पाष्णिस्तेन पादमूलेन वामपादपाष्णिनेत्यर्थः ।
योनिं योनिस्थानं गुदमेण्ढयोर्मध्यभागं संपीड्याकुञ्चितवामपादपाष्णिना योनि-
स्थानं दृढं संयोज्येत्यर्थः । दक्षिणं सव्येतरं पदं चरणं प्रसारितं भूमि-
संलग्नपाष्णिकमूर्ध्वाङ्गुलिकं दण्डवत्कृत्वा कराभ्यां संप्रदायादाकुञ्चितकरतर्ज-
नीभ्यां दृढं गाढं धारयेदङ्गुष्ठप्रदेशे गृह्णीयात् ॥ १० ॥
कण्ठे बन्धं समारोप्य धारयेद् वायुमूर्ध्वतः ।
यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥ ११ ॥
कण्ठ इति । कण्ठे कण्ठदेशे बन्धं बन्धनं सम्यगारोप्य कृत्वा ।
जालंधरबन्धं कृत्वेत्यर्थः । वायुं पवनमूर्ध्वत उपरि सुषुम्नायां धारयेत् । अनेन
मूलबन्धः सूचितः । स तु योनिसंपीडनेन जिह्वाबन्धनेन च चरितार्थ इति
सांप्रदायिकाः । यथा दण्डेन हतस्ताडितो दण्डहतः सर्पः कुण्डली दण्डाकारः
दण्डस्याकार इवाकारो यस्य स तादृशः । कुण्डलाकारं त्यक्त्वा सरल इत्यर्थः ।
प्रकर्षेण जायते भवति ॥ ११ ॥
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् ।
तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ १२ ॥
ऋज्वीति । तथा कुण्डल्याधारशक्तिः सहसा शीघ्रमेव ऋज्वी संपद्यते
तथाभूता ऋज्वीभूता सरला भवेत् । तदा सेति । द्वे पुटे इडापिङ्गले
आश्रयो यस्याः सा मरणावस्था जायते । कुण्डलीबोधे सति सुषुम्नायां प्रविष्टे
प्राणे द्वयोः पुटयोः प्राणवियोगात् ॥ १२ ॥
ततः शनैः शनैरेव रेचयेन्नैव वेगतः ।
इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता ॥ १३ ॥