सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

१३८ हठयोगप्रदीपिका
तामेव योनिं जीवः प्राप्नोतीति योगहीनस्य जन्मान्तरं स्यादेव मरणसमये
समुद्भूतवैक्लव्यस्यायोगिना वारयितुमशक्यत्वात् ।
तदुक्तं योगबीजे—
‘ देहावसानसमये चित्ते यद्यद् विभावयेत् ।
तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् ॥
देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः ।
तस्माज्ज्ञानं च वैराग्यं जपश्च केवलं श्रमः ॥
पिपीलिका यदा लग्ना देहे ज्ञानाद् विमुच्यते ।
असौ किं वृश्चिकैर्दष्टो देहान्ते वा कथं सुखी ॥’ इति ।
योगिनां तु योगबलेनान्तकालेऽप्यात्मभावनया मोक्ष एवेति न स्याज्जन्मान्तरम् ।
तदुक्तं भगवता । ‘ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ’
(BG., VIII. 10) इत्यादिना । ‘शतं चैका च हृदयस्य नाड्यः’
(Chā. Up., VIII. 6. 6) इत्यादि श्रुतेश्च । न च तत्त्वमस्यादिवाक्यस्या-
परोक्षज्ञानाजनकत्वे तद्विचारस्य वैयर्थ्यमेवेति शङ्क्यम् । वाक्यविचारजन्यज्ञा-
नस्य योगद्वारापरोक्षज्ञानसाधनत्वात् । अत्र च योगबीजे गौरीश्वरसंवादो महानस्ति,
ततःकिंचिल्लिख्यते ।
देव्युवाच—
‘ ज्ञानिनस्तु मृता ये वै तेषां भवति कीदृशी ।
गतिः कथय देवेश कारुण्यामृतवारिधे ॥’
ईश्वर उवाच—
‘ देहान्ते ज्ञानिना पुण्यात् पापात् तत्फलमाप्यते ।
यादृशं तु भवेत् तत्तद् भुक्त्वा ज्ञानी पुनर्भवेत् ॥

हठयोगप्रदीपिका १३९
पश्चात् पुण्येन लभते सिद्धेन सह संगतिम् ।
ततः सिद्धस्य कृपया योगी भवति नान्यथा ।
ततो नश्यति संसारो नान्यथा शिवभाषितम् ॥'
देव्युवाच—
'ज्ञानादेव हि मोक्षं च वदन्ति ज्ञानिनः सदा ।
[स] कथं सिद्धयोगेन योगः किं मोक्षदो भवेत् ॥'
ईश्वर उवाच—
'ज्ञानेनैव हि मोक्षो हि तेषां वाक्यं तु नान्यथा ।
सर्वे वदन्ति खड्गेन जयो भवति तर्हि किम् ॥
विना युद्धेन वीर्येण कथं जयमवाप्नुयात् ।
तथा योगेन रहितं ज्ञानं मोक्षाय नो भवेत् ॥' इति ।
ननु जनकादीनां योगमन्तरेणाप्यप्रतिबद्धज्ञानमोक्षयोः श्रवणात् कथं
योगादेवाप्रतिबद्धज्ञानं मोक्षश्चेति चेत् उच्यते । तेषां पूर्वजन्मानुष्ठितयोगज-
संस्काराज्ज्ञानप्राप्तिरिति पुराणादौ श्रूयते ।
तथाहि—
'जैगीषव्यो यथा विप्रो यथा चैवासितादयः ।
क्षत्रिया जनकाद्यास्तु तुलाधारादयो विशः ॥
संप्राप्ताः परमां सिद्धिं पूर्वाभ्यस्तस्वयोगतः ।
धर्मव्याधादयः सस शूद्राः पैलवकादयः ॥
मैत्रेयी सुलभा शार्ङ्गी शाण्डिली च तपस्विनी ।
एते चान्ये च बहवो नीचयोनिगता अपि ।
ज्ञाननिष्ठां परां प्राप्ताः पूर्वाभ्यस्तस्वयोगतः ॥'

१४० हठयोगप्रदीपिका
इति। किं च पूर्वजन्मानुष्ठितयोगाभ्यासपुण्यतारतम्येन केचिद् ब्रह्मत्वं केचिद्
ब्रह्मपुत्रत्वं केचिद् देवर्षित्वं केचिद् ब्रह्मर्षित्वं केचिन्मुनित्वं केचिद् भक्तत्वं च
प्राप्ताः सन्ति। तत्रोपदेशमन्तरेणैवात्मसाक्षात्कारवन्तो बभूवुः। तथाहि।
हिरण्यगर्भवासिष्ठनारदसनत्कुमारवामदेवशुकादयो जन्मसिद्धा इत्येव पुराणादिषु
श्रूयन्ते। यत्तु ब्राह्मण एव मोक्षाधिकारीति श्रूयते पुराणादौ तदयोगिपरम्।
तदुक्तं गरुडपुराणे—
‘योगाभ्यासो नृणां येषां नास्ति जन्मान्तराहतः।
योगस्य प्राप्तये तेषां शूद्रवैश्यादिक्रमः ॥
स्त्रीत्वाच्छूद्रत्वमभ्येति ततो वैश्यत्वमाप्नुयात् ।
ततश्च क्षत्रियो विप्रः क्रियाहीनस्ततो भवेत् ॥
अनूचानः स्मृतो यज्वा कर्मन्यासी ततः परम् ।
ततो ज्ञानित्वमभ्येति योगी मुक्तिं क्रमाल्लभेत ॥’
इति। शूद्रवैश्यादिक्रमाद् योगी भूत्वा मुक्तिं लभेतेत्यर्थः। इत्थं च योगे
सर्वाधिकारश्रवणाद् योगोत्पन्नतत्त्वज्ञानेन सर्व एव मुच्यन्त इति सिद्धम्।
योगिनस्तु भ्रष्टस्यापि न शूद्रादिक्रमः।
‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।
अथवा योगिनामेव ॥’ (BG., VI. 41-2)
इत्यादिभगवद्वचनादित्यलम् ॥ १५ ॥
ज्ञात्वा सुषुम्नासङ्भेदं कृत्वा वायुं च मध्यगम् ।
स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे निरोधयेत् ॥ १६ ॥
प्राणमनसोर्लयं विना मोक्षो न सिध्यतीत्युक्तम् । तत्र प्राणलयेन
मनसोऽपि लयः सिध्यतीति तल्लयरीतिमाह—ज्ञात्वेति। सदैव सर्वदैव

हठयोगप्रदीपिका १४१
सुस्थाने शोभने स्थाने ‘सुराज्ये धार्मिके देशे’ (I. 12) इत्याद्युक्तलक्षणे स्थित्वा
स्थितिं कृत्वा वसतिं कृत्वेत्यर्थः । सुषुम्ना मध्यनाडी तस्याः सद्भेदं शोभनं
भेदनप्रकारं ज्ञात्वा गुरुमुखाद् विदित्वा वायुं प्राणं मध्यगं मध्यनाडीसंचारिणं
कृत्वा ब्रह्मरन्ध्रे मूर्धावकाशे निरोधयेन्नितरां रुद्धं कुर्यात् । प्राणस्य
ब्रह्मरन्ध्रे निरोधो लयः, प्राणलये जाते मनोऽपि लीयते । तदुक्तं वासिष्ठे—
‘अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।
मनः प्रशममायाति निर्वाणमवशिष्यते ॥’
इति । प्राणमनसोर्लये सति भावनाविशेषरूपसमाधिसहकृतेनान्तःकरणेनाबाधि-
तात्मसाक्षात्कारी भवति, तदा जीवन्नेव मुक्तः पुरुषो भवति ॥ १६ ॥
सूर्याचन्द्रमसौ धत्तः कालं रात्रिंदिवात्मकम् ।
भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ॥ १७ ॥
प्राणलये कालजयो भवतीत्याह—सूर्याचन्द्रमसाविति । सूर्यश्च
चन्द्रमाश्च सूर्याचन्द्रमसौ । ‘देवताद्वन्द्वे च’ (Pāṇ., VI. 3. 26) इत्यानङ् ।
रात्रिश्च दिवा च रात्रिंदिवम् । ‘अचतुर—’ (Pāṇ., V. 4. 77) इत्यादिना
निपातितः । रात्रिंदिवं आत्मा स्वरूपं यस्य स रात्रिंदिवात्मकस्तं रात्रिंदि-
वात्मकं कालं समयं धत्तो विधत्तः कुरुतः । सुषुम्ना सरस्वती कालस्य
सूर्याचन्द्रमोभ्यां कृतस्य रात्रिंदिवात्मकस्य समयस्य भोक्त्री भक्षिका विनाशिका ।
एतद् गुह्यं रहस्यमुदाहृतं कथितम् । अयं भावः । सार्धं घटिकाद्वयं सूर्यो वहति
सार्धं घटिकाद्वयं चन्द्रो वहति । यदा सूर्यो वहति तदा दिनमुच्यते । यदा
चन्द्रो वहति तदा रात्रिरुच्यते । पञ्चघटिकामध्ये रात्रिंदिवात्मकः कालो भवति ।
लौकिकाहोरात्रमध्ये योगिनां द्वादशाहोरात्रात्मकः कालव्यवहारो भवति ।
तादृशकालमानेन जीवानामायुर्मानमस्ति । यदा सुषुम्नामार्गेण वायुर्ब्रह्मरन्ध्रे

१४२ हठयोगप्रदीपिका
लीनो भवति तदा रात्रिंदिवात्मकस्य कालस्याभावादुक्तं भोक्त्री सुषुम्ना
कालस्येति । यावद् ब्रह्मरन्ध्रे वायुर्लीयते तावद् योगिन आयुर्वर्धते । दीर्घकालाभ्य-
स्तसमाधियोगी पूर्वमेव मरणकालं ज्ञात्वा ब्रह्मरन्ध्रे वायुं नीत्वा कालं निवारयति
स्वेच्छया देहत्यागं च करोतीति ॥ १७ ॥
द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे ।
सुषुम्ना शांभवी शक्तिः शेषास्त्वेव निरर्थकाः ॥ १८ ॥
द्वासप्ततीति । पञ्जरे पञ्जरवच्छिरास्थिभिर्बद्धे शरीरे द्वाभ्यामधिका सप्ततिः
द्वासप्ततिः द्वासप्ततिसंख्याकानि सहस्राणि नाडीनां शिराणां द्वाराणि वायुप्रवे-
शमार्गाः सन्ति । सुषुम्ना मध्या नाडी शांभवी शक्तिरस्ति । शं सुखं भवत्यस्मा-
द्भक्तानामिति शंभुरीश्वरस्तस्येयं शांभवी, ध्यानेन शंभुप्रापकत्वात् । शंभोरा-
विर्भावजनकत्वाद्व्वा शांभवी । यद्वा शं सुखरूपो भवति तिष्ठतीति शंभुरात्मा
तस्येयं शांभवी । चिदभिव्यक्तिस्थानत्वाद् ध्यानेनात्मसाक्षात्कारहेतुत्वाच्च । शेषा
इडापिङ्गलादयस्तु निरर्थका एव, निर्गतोऽर्थः प्रयोजनं यासां ता निरर्थकाः ।
पूर्वोक्तप्रयोजनाभावात् ॥ १८ ॥
वायुः परिचितो यस्मादग्निना सह कुण्डलीम् ।
बोधयित्वा सुषुम्नायां प्रविशेदनिरोधतः ॥ १९ ॥
वायुरिति । यस्मात् परिचितोऽभ्यस्तो वायुस्तस्मादग्निना जठराग्निना
सह कुण्डलीं शक्तिं बोधयित्वा अनिरोधतोऽप्रतिबन्धात् सुषुम्नायां सरस्वत्यां
प्रविशेत्, वायोः सुषुम्नाप्रवेशार्थमभ्यासः कर्तव्य इत्यर्थः ॥ १९ ॥
सुषुम्नावाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी ।
अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् ॥ २० ॥

हठयोगप्रदीपिका १४३
सुषुम्नेति। प्राणे सुषुम्नावाहिनि सति मनोन्मनी उन्मन्यवस्था
सिद्धयत्येव। अन्यथा प्राणे सुषुम्नावाहिन्यसति तु इतराभ्यासाः सुषुम्नेतर-
नाड्यभ्यासाः योगिनां योगाभ्यासिनां प्रयासायैव श्रमायैव भवन्तीत्यर्थः ॥ २० ॥
पवनो बध्यते येन मनस्तेनैव बध्यते ।
मनश्च बध्यते येन पवनस्तेन बध्यते ॥ २१ ॥
पवन इति। येन योगिना पवनः प्राणवायुर्बध्यते बद्धः क्रियते तेनैव
योगिना मनो बध्यते, येन मनो बध्यते तेन पवनो बध्यते। मनः पवनयोरेकतरे
बद्धे उभयं बद्धं भवतीत्यर्थः ॥ २१ ॥
हेतुद्वयं तु चित्तस्य वासना च समीरणः ।
तयोर्विनष्ट एकस्मिन् तौ द्वावपि विनश्यतः ॥ २२ ॥
हेतुद्वयं तु चित्तस्येति। चित्तस्य प्रवृत्तौ हेतुद्वयं कारणद्वयमस्ति
किं तदित्याह । वासना भावनाख्यः संस्कारः, समीरणः प्राणवायुश्च
तयोर्वासनासमीरणयोरेकस्मिन् विनष्टे सति क्षीणे सति तौ द्वावपि विनश्यतः ।
अयमाशयः । वासनाक्षये समीरणचित्ते क्षीणे भवतः । समीरणे क्षीणे
चित्तवासने क्षीणे भवतः । चित्ते क्षीणे समीरणवासने क्षीणे भवतः ।
तदुक्तं वासिष्ठे—
'द्वे बीजे राम चित्तस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोर्नष्टे क्षिप्रं द्वे अपि नश्यतः ॥'
तत्रैव व्यतिरेकेणोक्तम्—
'यावद् विलीनं न मनो न तावद् वासनाक्षयः ।
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति ॥

१४४ हठयोगप्रदीपिका
न यावत् तत्त्वविज्ञानं न तावच्चित्तसंक्षयः ।
यावन्न चित्तोपशमो न तावत् तत्त्ववेदनम् ॥
यावन्न वासनानाशस्तावत् तत्त्वागमः कुतः ।
यावन्न तत्त्वसंप्राप्तिर्न तावद् वासनाक्षयः ॥
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथः कारणतां गत्वा दुःसाध्यानि स्थितान्यतः ॥
त्रय एते समं यावन्न स्वभ्यस्ता मुहुर्मुहुः ।
तावन्न तत्त्वसंप्राप्तिर्भवत्यपि समैः शतैः ॥' २२ ॥
मनो यत्र विलीयेत पवनस्तत्र लीयते ।
पवनो लीयते यत्र मनस्तत्र विलीयते ॥ २३ ॥
मन इति । यत्र यस्मिन्नाधारे मनो विलीयते पवनस्तत्र तस्मिन्नाधारे
लीयते । यत्र यस्मिन्नाधारे पवनो लीयते तत्र तस्मिन्नाधारे मनो विलीयत
इत्यन्वयः ॥ २३ ॥
दुग्धाम्बुवत् संमिलितावुभौ तौ
तुल्यक्रियौ मानसमारुतौ हि ।
यतो मरुत् तत्र मनःप्रवृत्ति-
र्यतो मनस्तत्र मरुत्प्रवृत्तिः ॥ २४ ॥
दुग्धाम्बुवदिति । दुग्धाम्बुवत क्षीरनीरवत् संमिलितौ सम्यक् मिलितौ
तावुभौ द्वावपि मानसमारुतौ मानसं च मारुतश्च मानसमारुतौ चित्तप्राणौ
तुल्यक्रियौ तुल्या समा क्रिया प्रवृत्तिर्ययोस्तादृशौ भवतः । तुल्यक्रियत्वमेवाह—
यत इति । यतः यत्र सार्वविभक्तिकस्तसिः । यस्मिन् चक्रे मरुद् वायुः प्रवर्तते

हठयोगप्रदीपिका १४५
तत्र तस्मिन् चक्रे मनःप्रवृत्तिः मनसः प्रवृत्तिर्भवति । यतो यस्मिन् चक्रे मनः
प्रवर्तते तत्र तस्मिन् चक्रे मरुत्प्रवृत्तिः, वायोः प्रवृत्तिर्भवतीत्यर्थः । तदुक्तं
वासिष्ठे—
‘अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ।
कुसुमामोदवन्मिश्रे तिलतैले इव स्थिते ।
कुरुतश्च विनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥’
इति ॥ २४ ॥
तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरपरप्रवृत्तिः ।
अध्वस्तयोश्चेन्द्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्य सिद्धिः ॥
तत्रेति । तत्र तयोर्मानसमारुतयोर्मध्ये एकस्य मानसस्य मारुतस्य वा
नाशाल्लयादपरस्यान्यस्य मारुतस्य मानसस्य वा नाशो लयो भवति । एकप्रवृत्तेरेकस्य
मानसस्य मारुतस्य वा प्रवृत्तेर्व्यापारादपरप्रवृत्तिरपरस्य मारुतस्य मानसस्य
वा प्रवृत्तिर्व्यापारो भवति । अध्वस्तयोरलीनयोर्मानसमारुतयोः सतोरिन्द्रियवर्ग-
वृत्तिरिन्द्रियसमुदायस्य स्वस्वविषये प्रवृत्तिर्भवति । प्रध्वस्तयोः प्रलीनयोस्तयोः
सतोर्मोक्षपदस्य मोक्षाख्यपदस्य सिद्धिर्निष्पत्तिर्भवति । तयोर्लये पुरुषस्य स्व-
रूपेऽवस्थानमित्यर्थः ।
‘तत्रापि साध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन ।
मनोविनाशस्तु गुरोः प्रसादान्निमेषमात्रेण सुसाध्य एव ॥’
योगबीजे मूलश्लोकस्यायमुत्तरः श्लोकः ॥ २५ ॥
रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः ।
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ २६ ॥
10

१४६ हठयोगप्रदीपिका
रसस्येति । रसस्य पारदस्य मनसो मानसस्य स्वभावतः स्वभावचञ्चलत्वं
चाञ्चल्यमस्ति । रसः पारदो बद्धश्चेन्मनश्चित्तं बद्धं भवति । ततो भूतले
पृथिवीतले किं न सिद्धयति ? सर्वं सिद्ध्यतीत्यर्थः ॥ २६ ॥
मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् ।
बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ २७ ॥
तदेवाह—मूर्च्छित इति । ओषधिविशेषयोगेन गतचापलो रसो
मूर्च्छितः । कुम्भकान्ते रेचकनिवृत्तौ वायुर्मूच्छित इत्युच्यते । हे पार्वतीति पार्वतीं
संबोध्येश्वरवाक्यम् । मूर्च्छितो रसः पारदः, वायुः प्राणश्च व्याधीन् रोगान् हरते
नाशयति । भस्मीभूतो रसः, ब्रह्मरन्ध्रे लीनो वायुश्च मृतः स्वयमात्मना स्वसामर्थ्ये-
नेत्यर्थः । जीवयति दीर्घकालं जीवनं करोति । क्रियाविशेषेण गुटिकाकारकृतो
रसो बद्धः, भ्रूमध्यादौ धारणाविशेषेण धृतो वायुश्च बद्धः, खेचरतामाकाशगतिं
धत्ते विधत्ते करोतीत्यर्थः ।
तदुक्तं गोरक्षकशतके (72)—
‘यद्भिन्नाञ्जनपुञ्जसंनिभमिदं वृत्तं भ्रुवोरन्तरे
तत्त्वं वायुमयं यकारसहितं यत्रेश्वरो देवता ।
प्राणं तत्र विलाप्य पञ्चघटिकं चित्तान्वितं धारये-
देशा खे गमनं करोति यमिनां स्याद् वायवी धारणा ॥’
इति ॥ २७ ॥
मनः स्थैर्ये स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् ।
बिन्दुस्थैर्यात् सदा सत्त्वं पिण्डस्थैर्यं प्रजायते ॥ २८ ॥

हठयोगप्रदीपिका १४७
मनःस्थैर्य इति । मनसः स्थैर्ये सति वायुः प्राणः स्थिरो भवेत् । ततो
वायुस्थैर्याद् बिन्दुर्वैर्यं स्थिरो भवेत् । बिन्दोः स्थैर्यात् सदा सत्त्वं बलं पिण्डस्थैर्यं
देहस्थैर्यं प्रजायते ॥ २८ ॥
इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः ।
मारुतस्य लयो नाथः स लयो नादमाश्रितः ॥ २९ ॥
इन्द्रियाणामिति । इन्द्रियाणां श्रोत्रादीनां मनोऽन्तःकरणं नाथः प्रवर्तकः ।
मनोनाथो मनसो नाथो मारुतः प्राणः । मारुतस्य प्राणस्य लयो मनोविलयो
नाथः । स लयो मनोलयः नादमाश्रितो नादे मनो लीयत इत्यर्थः ॥ २९ ॥
सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे ।
मनःप्राणलये कश्चिदानन्दः संप्रवर्तते ॥ ३० ॥
सोऽयमिति । सोऽयमेव चित्तलय एव मोक्षाख्यो मोक्षपदवाच्यः ।
मतान्तरेऽन्यमते मास्तु वा । चित्तलयस्य सुषुप्तावपि सत्त्वान्मनःप्राणयोर्लये
सति कश्चिदनिर्वाच्य आनन्दः संप्रवर्तते सम्यक् प्रवृत्तो भवति । अनिर्वा-
च्यानन्दाविर्भावे जीवन्मुक्तिसुखं भवत्येवेति भावः ॥ ३० ॥
प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः ।
निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ॥ ३१ ॥
प्रनष्टेति । श्वासश्च निश्वासश्च श्वासनिश्वासौ प्रनष्टौ लीनौ श्वासनिश्वासौ
यस्मिन् स तथा बाह्यवायोरन्तः प्रवेशं श्वासः अन्तः स्थितस्य वायोर्बहिर्निःसरणं
निश्वासः । प्रध्वस्तः प्रकर्षेण ध्वस्तो नष्टो विषयाणां शब्दादीनां ग्रहो
ग्रहणं यस्मिन्, निर्गता चेष्टा कायक्रिया यस्मिन्, निर्गतो विकारोऽन्तः-

१४८ हठयोगप्रदीपिका
करणक्रिया यस्मिन् एतादृशो योगिनां लयोऽन्तःकरणवृत्तेर्ध्येयाकारापत्तिर्जयति
सर्वोत्कर्षेण वर्तते ॥ ३१ ॥
उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः ।
स्वावगम्यो लयः कोऽपि जायते वागगोचरः ॥ ३२ ॥
उच्छिन्नेति । उच्छिन्ना नष्टाः सर्वे संकल्पा मनःपरिणामा यस्मिन्
स तथा निर्गतः शेषो येभ्यस्तानि निःशेषाण्यशेषाणि चेष्टितानि यस्मिन्
स तथा स्वेनैवावगन्तुं बोद्धुं शक्यः स्वावगम्यः वाचामगोचरो विषयः कोऽपि
विलक्षणो लयः जायते योगिनां प्रादुर्भवति ॥ ३२ ॥
यत्र दृष्टिर्लयस्तत्र भूतेन्द्रियसनातनी ।
सा शक्तिर्जीवभूतानां द्वे अलक्ष्ये लयं गते ॥ ३३ ॥
यत्र दृष्टिरिति । यत्र यस्मिन् विषये ब्रह्मणि दृष्टिरन्तःकरणवृत्तिस्तत्रैव
लयो भवति । भूतानि पृथिव्यादीनि इन्द्रियाणि श्रोत्रादीनि सनातनानि
शाश्वतानि यस्यां सा सत्कार्यवादेऽविद्यायां कार्यजातस्य सत्त्वात् । जीवभूतानां
प्राणिनां शक्तिरविद्या इमे द्वे अलक्ष्ये ब्रह्मणि लयं गते योगिनामिति
शेषः ॥ ३३ ॥
लयो लय इति प्राहुः कीदृशं लयलक्षणम् ।
अपुनर्वासनोत्थानाल्लयो विषयविस्मृतिः ॥ ३४ ॥
लय इति । लयो लय इति प्राहुर्वदन्ति बहवः । लयस्य लक्षणं लयस्व-
रूपं कीदृशमिति प्रश्नपूर्वकं लयस्वरूपमाह—अपुनरिति । अपुनर्वासनोत्थानात्
पुनर्वासनोत्थानाभावाद् विषयविस्मृतिर्विषयाणां शब्दादीनां ध्येयाकारस्य विषयस्य
वा विस्मृतिर्लयो लयशब्दार्थ इत्यर्थः ॥ ३४ ॥

हठयोगप्रदीपिका १४९
वेदशास्त्रपुराणानि सामान्यगणिका इव ।
एकैव शांभवी मुद्रा गुप्ता कुलवधूरिव ॥ ३५ ॥
वेदेति । वेदाश्चत्वारः शास्त्राणि षट् पुराणान्यष्टादश सामान्य-
गणिका इव वेश्या इव । बहुपुरुषगम्यत्वात् । एका शांभवी मुद्रैव कुलवधूरिव
कुलस्त्रीव गुप्ता । पुरुषविशेषगम्यत्वात् ॥ ३५ ॥
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता ।
एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता ॥ ३६ ॥
चित्तलयाय प्राणलयसाधनीभूतां मुद्रां विवक्षुस्तत्र शांभवीं मुद्रामाह—
अन्तर्लक्ष्यमिति । अन्तः आधारादिब्रह्मरन्ध्रान्तेषु चक्रेषु मध्ये स्वाभिमते
चक्रे लक्ष्यमन्तःकरणवृत्तिः । बहिर्देहाद् बहिःप्रदेशे दृष्टिः चक्षुःसंबन्धः । कीदृशी
दृष्टिः ? निमेषोन्मेषवर्जिता निमेषः पक्ष्मसंयोगः उन्मेषः पक्ष्मसंयोगविश्लेषः
ताभ्यां वर्जिता रहिता चित्तस्य ध्येयाकारावेशे निमेषोन्मेषवर्जिता दृष्टिर्भवति ।
सोक्तैषा मुद्रा शांभवी शंभोरियं शांभवी शिवप्रिया शिवाविर्भावजनिका वा
भवति । कीदृशी ? वेदशास्त्रेषु गोपिता, वेदेषु ऋगादिषु शास्त्रेषु सांख्य-
पातञ्जलादिषु गोपिता रक्षिता ॥ ३६ ॥
अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते
दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि ।
मुद्रेयं खलु शांभवी भवति सा लब्धा प्रसादाद् गुरोः
शून्याशून्यविलक्षणं स्फुरति तत् तत्त्वं पदं शांभवम् ॥३७॥
शांभवीं मुद्रामभनीय दर्शयति—अन्तर्लक्ष्येति । यदा यस्यामवस्था-
यामन्तः अनाहतपद्मादौ यल्लक्ष्यं सगुणेश्वरमूर्त्यादिकं तत्त्वमस्यादिवाक्यलक्ष्यं

१५० हठयोगप्रदीपिका
जीवेश्वराभिन्नमहं ब्रह्मास्मीति वाक्यार्थभूतं ब्रह्म वा तस्मिन् विलीनौ
विशेषेण लीनौ चित्तपवनौ मनोमारुतौ यस्य स तथा योगी वर्तते। निश्चलतारया
निश्चला स्थिरा तारा कनीनिका यस्यां तादृश्या दृष्ट्या बहिर्देहाद् बहिःप्रदेशे
पश्यन्नपि चक्षुःसंबंधं कुर्वन्नपि अपश्यन् बाह्यविषयग्रहणमकुर्वन् वर्तते
आस्ते । खल्विति वाक्यालंकारे । इयमुक्ता शांभवीमुद्रा शांभवीनामिका
मुद्रयति क्लेशानिति मुद्रा, गुरोर्देशिकस्य प्रसादात् प्रीतिपूर्वकादनुग्रहाल्लब्धा
प्राप्ता चेत् तदिदमिति वक्तुमशक्यं शांभवं शांभव्या इदं शांभवम्,
शांभवीमुद्रायां भासमानं पदं पद्यते गम्यते योगिभिरिति पदमात्मस्वरूपं शून्या-
शून्यविलक्षणं ध्येयाकारवृत्तेः सद्भावाच्छून्यविलक्षणं तस्या अपि भानाभावाद-
शून्यविलक्षणं तत्त्वं वास्तविकं वस्तु स्फुरति प्रतीयते । तथा चोक्तम्—
' अन्तर्लक्ष्यमनन्यधीरविरतं पश्यन् मुदा संयमी
दृष्टिमुन्मेषनिमेषवर्जितमियं मुद्रा भवेच्छांभवी ।
गुप्तेयं गिरिशेन तन्त्रविदुषा तन्त्रेषु तत्त्वार्थिना-
मेषा स्याद् यमिनां मनोलयकरी मुक्तिप्रदा दुर्लभा ॥' १ ॥
ऊर्ध्वदृष्टिरधोदृष्टिरूर्ध्ववेधो ह्यधःशिराः ।
राधायन्त्रविधानेन जीवन्मुक्तो भवेत् क्षितौ ॥' २ ॥ ३७ ॥
श्रीशांभव्याश्च खेचर्या अवस्थाधामभेदतः ।
भवेच्चित्तलयानन्दः शून्ये चित्सुखरूपिणि ॥ ३८ ॥
श्रीशांभव्या इति । श्रीशांभव्याः श्रीमत्याः शांभवीमुद्रायाः खेचरीमुद्रा-
याश्चावस्थाधामभेदतः अवस्थावस्थितिर्धाम स्थानं तयोर्भेदाच्छांभव्यां बहिर्दृष्ट्या
अवस्थितिः खेचर्यां भ्रूमध्यदृष्ट्यावस्थितिः । शांभव्यां हृदयं भावनादेशः,
खेचर्यां भ्रूमध्य एव देशः । तयोर्भेदाभ्यां शून्ये देशकालवस्तुपरिच्छेदशून्ये

हठयोगप्रदीपिका १५१
सजातीयविजातीयस्वगतभेदशून्ये वा चित्सुखरूपिणि चिदानन्दस्वरूपिण्यात्मनि
चित्तलयानन्दो भवेत् स्यात् । श्रीशांभवीखेचर्योरवस्थाधामरूपसाधनांशे भेदः
न तु चित्तलयानन्दरूपफलांश इति भावः ॥ ३८ ॥
तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद् भ्रुवौ ।
पूर्वयोगं मनो युञ्जन्नुन्मनीकारकः क्षणात् ॥ ३९ ॥
उन्मनीमुद्रामाह—तार इति । तारे नेत्रयोः कनीनिके ज्योतिषि
तारयोर्नासाग्रे योजनात् प्रकाशमाने तेजसि संयोज्य संयुक्ते कृत्वा भ्रुवौ
किंचित् स्वल्पमुन्नमयेदूर्ध्वं नमयेत्, पूर्वः पूर्वोक्तः ‘ अन्तर्लक्ष्यं बहिर्दृष्टिः ’
(IV. 36) इत्याकारको योगो युक्तिर्यस्मिन् तत्तादृशं मनोऽन्तःकरणं युञ्जन्
युक्तं कुर्वन् योगी क्षणान्मुहूर्तादुन्मनीकारक उन्मन्यवस्थाकारको भवति ॥ ३९ ॥
केचिदागमजालेन केचिन्निगमसंकुलैः ।
केचित् तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ ४० ॥
उन्मनीमन्तरा अन्यस्तरणोपायो नास्तीत्याह—केचिदिति । केचिच्छास्त्र-
तन्त्रादिविदः, आगच्छन्ति बुद्धिमारोहन्ति अर्था एभ्य इत्यागमाः शास्त्रतन्त्रा-
दयस्तेषां जालैर्जालवद्बन्धनसाधनैस्तदुक्तैः फलैर्मुह्यन्ति मोहं प्राप्नुवन्ति । तत्रासक्ता
बध्यन्त इति भावः । केचिद् वैदिका निगमसंकुलैर्निगमानां निगमोक्तानां
संकुलैः फलबाहुल्यैर्मुह्यन्ति । केचिद् वैशेषिकादयस्तर्केण स्वकल्पितयुक्तिविशेषेण
मुह्यन्ति । तारयतीति तारकस्तं तारकं तरणोपायं नैव जानन्ति । उक्तोन्मन्येव
तरणोपायस्तं न जानन्तीत्यर्थः ॥ ४० ॥
अर्धोन्मीलितलोचनः स्थिरमना नासाग्रदत्तेक्षण-
श्चन्द्रार्कावपि लीनतामुपनयन्निस्पन्दभावेन यः ।

१५२ हठयोगप्रदीपिका
ज्योतीरूपमशेषबीजमखिलं देदीप्यमानं परं
तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ ४१ ॥
अर्धोन्मीलितेति । अर्धम् उन्मीलिते अर्धोन्मीलिते, अर्धोन्मीलिते
लोचने येन सः, अर्धोद्घाटितलोचन इत्यर्थः । स्थिरं निश्चलं मनो यस्य स
स्थिरमनाः, नासाया नासिकाया अग्रेऽग्रभागे नासिकायां द्वादशाङ्गुलपर्यन्ते
वा दत्ते प्रहिते ईक्षणे येन स नासाग्रदत्तेक्षणः ।
तथाह वसिष्ठः--
'द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलेऽम्बरे ।
संविद्दृशोः प्रशाम्यन्त्योः प्राणस्पन्दो निरुध्यते ॥'
इति । निस्पन्दस्य निश्चलस्य भावो निस्पन्दभावः कायेन्द्रियमनसां निश्चलत्वं तेन
चन्द्रार्कौ चन्द्रसूर्यावपि लीनतां लीनस्य भावो लीनता लयस्तामुपनयन् प्रापयन्
कायेन्द्रियमनसां निश्चलत्वेन प्राणसंचारमपि स्तम्भयन्नित्यर्थः । तदुक्तं प्राक् —
'मनो यत्र विलीयेत' (IV. 23) इत्यादिपूर्वोक्तविशेषणसंपन्नो योगी ज्योतीरूपं
ज्योतिरिवाखिलप्रकाशकं रूपं यस्य स तथा तमशेषबीजमाकाशाद्युत्पत्तिद्वारा
सर्वकारणमखिलं पूर्णं देदीप्यमानमतिशयेन दीप्यत इति देदीप्यमानः तं तथा
स्वप्रकाशं परं कायेन्द्रियमनसां साक्षिणं तत्त्वमनारोपितं वास्तविकमित्यर्थः ।
तदिदमिति वक्तुमशक्यं, पद्यते गम्यते योगिभिरिति पदं परमं सर्वोत्कृष्टं वस्तु
आत्मस्वरूपं एति प्राप्नोति । उन्मन्यवस्थायां स्वस्वरूपावस्थितो योगी
भवतीत्यर्थः । अत्राधिकं किं वाच्यम् । अपरं वस्तु न प्राप्नोतीत्यत्र किं
वक्तव्यमित्यर्थः ॥ ४१ ॥
दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् ।
सर्वदा पूजयेल्लिङ्गं दिवारात्रिनिरोधतः ॥ ४२ ॥

हठयोगप्रदीपिका १५३
उन्मनीभावनायाः कालनियमाभावमाह—दिवा नेति । दिवा सूर्य-
संचारे लिङ्गं सर्वकारणमात्मानम् । ‘एतस्मादात्मन आकाशः संभूतः’
(Tai. Up., II. 1. 1) इत्यादिश्रुतेः । न पूजयेत् न भावयेत् ।
ध्यानमेवात्मपूजनम् । तदुक्तं वासिष्ठे—
‘ध्यानेोपहार एवात्मा ध्यानमस्य महर्चनम् ।
विना तेनेतरेणात्मा लभ्यत एव नो ॥’ इति ।
रात्रौ चन्द्रसंचारे च नैव पूजयेन्नैव भावयेत् । चन्द्रसूर्यसंचारे
चित्तस्थैर्याभावात् । ‘चले वाते चलं चित्तम्’ (II. 2) इत्युक्तत्वात् ।
दिवारात्रिनिरोधतः सूर्यचन्द्रौ निरुध्य । ल्यब्लोपे पञ्चमी । तस्यास्तसिल् ।
सर्वदा सर्वस्मिन् काले लिङ्गम् आत्मानं पूजयेद् भावयेत् । सूर्यचन्द्रयोर्निरोधे
कृते सुषुम्नान्तर्गते प्राणे मनःस्थैर्यात् । तदुक्तम्—‘सुषुम्नान्तर्गते वायौ
मनःस्थैर्यं प्रजायते’ इति ॥ ४२ ॥
अथ खेचरी—
सव्यदक्षिणनाडीस्थो मध्ये चरति मारुतः ।
तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः ॥ ४३ ॥
खेचरीमाह—सव्येति । सव्यदक्षिणनाडीस्थो वामतदितरनाडीस्थो मा-
रुतो वायुर्यत्र मध्ये चरति यस्मिन् मध्यप्रदेशे गच्छति तस्मिन् स्थाने तस्मिन् प्रदेशे
खेचरी मुद्रा तिष्ठते स्थिरा भवति । ‘प्रकाशनस्थेयाख्ययोश्च’ (Pāṇ. 1. 3. 32)
इत्यात्मनेपदम् । न संशयः उक्तेऽर्थे संदेहो नास्तीत्यर्थः ॥ ४३ ॥
इडापिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् ।
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ ४४ ॥

१५४ हठयोगप्रदीपिका
इडापिङ्गलयोरिति । इडापिङ्गलयोः सव्यदक्षिणनाड्योर्मध्ये यच्छून्यं खं
कर्तृ अनिलं प्राणवायुं यत्र ग्रसेत् । शून्ये प्राणस्य स्थिरीभाव एव ग्रासः । तत्र
तस्मिन् शून्ये खेचरी मुद्रा तिष्ठते । पुनः पुनः सत्यमिति योजना ॥ ४४ ॥
सूर्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः ।
संस्थिता व्योमचक्रे या सा मुद्रा नाम खेचरी ॥ ४५ ॥
सूर्याचन्द्रमसोरिति । सूर्याचन्द्रमसोरिडापिङ्गलयोर्मध्ये निरालम्बं यदन्त-
रमवकाशस्तत्र । पुनः पादपूरणे । व्योम्नां खानां चक्रे समुदाये । भ्रूमध्ये
सर्वखानां समन्वयात् । तदुक्तं ‘पञ्चस्रोतः समन्वितम्’ (III. 53) इति । या
संस्थिता सा मुद्रा खेचरी नाम ॥ ४५ ॥
सोमाद् यत्रोदिता धारा साक्षात् सा शिववल्लभा ।
पूरयेदतुलां दिव्यां सुषुम्नां पश्चिमे मुखे ॥ ४६ ॥
सोमादिति—सोमाच्चन्द्राद् यत्र यस्यां खेचर्यां धारा अमृतधारा
उदितोद्गता सा खेचरी साक्षाच्छिववल्लभा शिवस्य प्रियेति पूर्वेणान्वयः । अतुलां
निर्मलां निरुपमां दिव्यां सर्वनाड्युत्तमां सुषुम्नां पश्चिमे मुखे पूरयेत् ।
जिह्वयेति शेषः ॥ ४६ ॥
पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् ।
अभ्यस्ता खेचरी मुद्राप्युन्मनी संप्रजायते ॥ ४७ ॥
पुरस्ताच्चैवेति । पुरस्ताच्चैव पूर्वत एव पूर्येत । सुषुम्नां प्राणेनेति शेषः ।
यदि तर्हि निश्चितासंदिग्धा खेचरी खेचर्याख्या मुद्रा भवेदिति । यदि तु
पुरस्तात् प्राणेन न पूर्येत जिह्वामात्रेण पश्चिमतः पूर्येत तर्हि मूढावस्थाजनिका न

हठयोगप्रदीपिका १५५
निश्चिता खेचरी स्यादिति भावः । खेचरीमुद्राप्यभ्यस्ता सती उन्मनी संप्रजायते
चित्तस्य ध्येयाकारावेशात् तुर्यावस्था भवतीत्यर्थः ॥ ४७ ॥
भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते ।
ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते ॥ ४८ ॥
भ्रुवोरिति । भ्रुवोर्मध्ये भ्रुवोरन्तराले शिवस्थानं शिवस्येश्वरस्य स्थानं
शिवस्य सुखरूपस्यात्मनो वा स्थानमस्तीति शेषः । तत्र तस्मिन् शिवे मनो लीयते ।
शिवाकारवृत्तिप्रवाहवद् भवति तच्चित्तलयरूपं तुर्यं पदं जाग्रत्स्वप्नसुषुप्तिभ्यश्चतुर्था-
वस्थाख्यं ज्ञातव्यम् । तत्र तस्मिन् पदे कालो मृत्युर्न विद्यते । यद्वा सूर्यचन्द्र-
योर्निरोधादायुःक्षयकारकः कालः समयो न विद्यत इत्यर्थः । तदुक्तम्—
‘भोक्त्री सुषुम्ना कालस्य’ (IV. 17) इति ॥ ४८ ॥
अभ्यसेत् खेचरीं तावद् यावत् स्याद् योगनिद्रितः ।
संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ॥ ४९ ॥
अभ्यसेदिति । तावत् खेचरीं मुद्रामभ्यसेत, यावद्योगनिद्रितः । योगः
सर्ववृत्तिनिरोधः सैव निद्रा योगनिद्रास्य संजाता इति योगनिद्रितः तादृशः
स्यात् । संप्राप्ता योगनिद्रा येन स संप्राप्तयोगनिद्रस्तस्य कदाचन कस्मिंश्चिदपि
समये कालो मृत्युर्नास्ति ॥ ४९ ॥
निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् ।
सबाह्याभ्यन्तरे व्योम्नि घटवत् तिष्ठति ध्रुवम् ॥ ५० ॥
निरालम्बमिति । यो निरालम्बमालम्बनशून्यं मनः कृत्वा किंचिदपि न
चिन्तयेत् खेचरीमुद्रायां जायमानायां ब्रह्माकारामपि वृत्तिं परवैराग्येण परित्य-
जेदित्यर्थः । स योगी बाह्याभ्यन्तरे बाह्ये बहिर्भवे आभ्यन्तरेऽन्तर्भवे च

१५६ हठयोगप्रदीपिका
व्योम्याकाशे घटवत् तिष्ठति। ध्रुवं निश्चितमेतत्। यथाकाशे घटो बहिरन्त-
श्चाकाशपूर्णो भवति तथा खेचर्यामालम्बनपरित्यागेन योगी ब्रह्मणा पूर्णस्ति-
ष्ठतीत्यर्थः ॥ ५० ॥
बाह्यवायुर्यथा लीनस्तथा मध्यो न संशयः।
स्वस्थाने स्थिरतामेति पवनो मनसा सह ॥ ५१ ॥
बाह्येति। बाह्यो देहाद् बहिर्भवो वायुर्यथा लीनो भवति खेचर्याम्।
तस्यान्तःप्रवृत्त्यभावात्। तथा मध्यो देहमध्यवर्ती वायुर्लीनो भवति। तस्य
बहिःप्रवृत्त्यभावात्। न संशयः, अस्मिन्नर्थे संदेहो नास्तीत्यर्थः। स्थीयते
स्थिरीभूयतेऽस्मिन्निति स्थानं स्वस्य प्राणस्य स्थानं स्थैर्याधिष्ठानं ब्रह्मरन्ध्रं तत्र
मनसा चित्तेन सह पवनः प्राणः स्थिरतां निश्चलतामेति प्राप्नोति ॥ ५१ ॥
एवमभ्यस्यतस्तस्य वायुमार्गे दिवानिशम्।
अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ ५२ ॥
एवमुक्तप्रकारेण वायुमार्गे प्राणमार्गे सुषुम्नायामित्यर्थः। दिवानिशं
रात्रिंदिवमभ्यस्यतोऽभ्यासं कुर्वतो योगिनोऽभ्यासाद् यत्र यस्मिन्नाधारे वायुः
प्राणो जीर्यते क्षीयत लीयत इत्यर्थः। तत्रैव वायोर्लयाधिष्ठाने मनश्चित्तं लीयते
जीर्यत इत्यर्थः ॥ ५२ ॥
अमृतैः प्लावयेद् देहमापादतलमस्तकम्।
सिद्ध्यत्येव महाकायो महाबलपराक्रमः ॥ ५३ ॥
इति खेचरी ॥
अमृतैरिति। अमृतैः सुषिरनिर्गतैः पादतलं च मस्तकं च पादतलमस्तकम्।
'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' (Pāṇ. II. 4. 2) इत्येकवद्भावः। पादतल-

हठयोगप्रदीपिका १५७
मस्तकमभिव्याप्येत्यापादतलमस्तकं देहमाप्लावयेदाप्लावितं कुर्यात् । महानुत्कृष्टः
कायो यस्य स महाकायः महान्तौ बलपराक्रमौ यस्येत्येतादृशो योगी सिद्धयत्येव,
अमृताप्लावनेन सिद्धो भवत्येव ॥ ५३ ॥
शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम् ।
मनसा मन आलोक्य धारयेत् परमं पदम् ॥ ५४ ॥
शक्तिरिति । शक्तिः कुण्डलिनी तस्या मध्ये मनः कृत्वा तस्यां मनो धृत्वा
तदाकारं मनः कृत्वेत्यर्थः । शक्तिं मानसमध्यगां कृत्वा । शक्तिध्यानावेशाच्छक्ति-
मनसोरत्यन्तैक्यं कृत्वा तेन कुण्डलीं बोधयित्वेति यावत् । 'प्रबुद्धा वह्नियोगेन
मनसा मरुता सह ' इति गोरक्षोक्तेः (31) । मनसान्तःकरणेन मनः आलोक्य
बुद्धिं मनसोऽवलोकनेन स्थिरीकृत्येत्यर्थः । परमं पदं सर्वोत्कृष्टं स्वरूपं धारयेद्
धारणाविषयं कुर्यादित्यर्थः ॥ ५४ ॥
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
सर्वं च खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ५५ ॥
खमध्य इति । खमिव पूर्णं ब्रह्म खं तन्मध्ये आत्मानं स्वस्वरूपं कुरु ।
ब्रह्माहमिति भावयेत्यर्थः । आत्ममध्ये स्वस्वरूपे च खं पूर्णं ब्रह्म कुरु । अहं
ब्रह्मेति च भावयेत्यर्थः । सर्वं च खमयं कृत्वा ब्रह्ममयं विभाव्य किमपि न
चिन्तयेत् । अहं ब्रह्मेति ध्यानमपि परित्यजेदित्यर्थः ॥ ५५ ॥
अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे ।
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ ५६ ॥
एवं समाहितस्य स्वरूपे स्थितिमाह—अन्तःशून्य इति । अन्तः
अन्तःकरणे शून्यः । ब्रह्मातिरिक्तवृत्तेरभावाद् द्वितीयशून्यः । बहिरन्तःकरणाद्