सामग्री पर जाएँ
सर्वकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 151, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 151

हठयोगप्रदीपिका १३३
परावरप्रसक्ता धीर्यस्य निर्वेदसंभवा ॥
स च योगाग्निना दग्धसमस्तक्लेशसंचयः ।
निर्वाणं परमं नित्यं प्राप्नोत्येव न संशयः ॥
संप्राप्तयोगसिद्धिस्तु पूर्णो यस्त्वात्मदर्शनात् ।
न किंचिद् दृश्यते कार्यं तेनैव सकलं कृतम् ॥
आत्मारामः सदा पूर्णः सुखमात्यन्तिकं गतः ।
अतस्तस्यापि निर्वेदः परानन्दमयस्य च ॥
तपसा भावितात्मानो योगिनः संयतेन्द्रियाः ।
प्रतरन्ति महात्मानो योगेनैव महार्णवम् ॥’
विष्णुधर्मेषु—
‘यच्छ्रेयः सर्वभूतानां स्त्रीणामत्युपकारकम् ।
अपि कीटपतङ्गानां तन्नः श्रेयः परं वद ॥
इत्युक्तः कपिलः पूर्वं देवैर्देवर्षिभिस्तथा ।
योग एव परं श्रेयस्तेषामित्युक्तवान् पुरा ॥’
वासिष्ठे—
‘दुःसहा राम संसारविषवेगविषूचिका ।
योगगारुडमन्त्रेण पावनेनोपशाम्यति ॥’ इति ।
ननु तत्त्वमस्यादिवाक्यैरप्यपरोक्षप्रमा संभवतीति किमर्थमतिश्रमसाध्ये
योगे प्रयासः कार्यः। न च वाक्यजन्यज्ञानस्यापरोक्षत्वे प्रमाणासंभव इति
वाच्यम्। तत्त्वमस्यादिवाक्यजन्यं ज्ञानमपरोक्षम्, अपरोक्षविषयकत्वात्,
चाक्षुषघटादिप्रत्यक्षवदित्यनुमानस्य प्रमाणत्वात्। न च विषयगतापरोक्षत्वस्य दुर्नि-
रूपत्वाद्धेत्वसिद्धिरिति वाच्यम्। अज्ञानाविषयचित्त्वतत्तादात्म्यापन्नत्वान्यतररूपस्य