सामग्री पर जाएँ
सर्वकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 150, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 150

१३२ हठयोगप्रदीपिका
यदि वा सर्वधर्मज्ञो यदि वाप्यकृती पुमान् ।
यदि वा धार्मिकः श्रेष्ठो यदि वा पापकृत्तमः ॥
यदि वा पुरुषव्याघ्रो यदि वा क्लीब्यधारकः ।
तरत्येव महादुःखं जरामरणसागरम् ॥
अपि जिज्ञासमानोऽपि शब्दब्रह्मातिवर्तते ॥'
इति । भगवद्गीतायाम्—
'युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥' (VI. 15)
'यत् सांख्यैः प्राप्यते स्थानम्' (V. 5) इत्यादि च । आदित्यपुराणे—
'योगात् संजायते ज्ञानं योगो मय्येकचित्तता' । स्कन्दपुराणे—
'आत्मज्ञानेन मुक्तिः स्यात् तच्च योगादृते नहि ।
स च योगश्चिरं कालमभ्यासादेव सिद्ध्यति ॥'
कूर्मपुराणे शिववाक्यम्—
'अतःपरं प्रवक्ष्यामि योगं परमदुर्लभम् ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥
योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।
प्रसन्नं जायते ज्ञानं ज्ञानान्निर्वाणमृच्छति ॥'
गरुडपुराणे—
'तथा यतेत मतिमान् यथा स्यान्निर्वृत्तिः परा ।
योगेन लभ्यते सा तु न चान्येन तु केनचित् ॥
भवतापेन तप्तानां योगो हि परमौषधम् ।