सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 688, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 688

२१ श्रीगजसंभवाध्यायः ] हस्त्यायुर्वेदः । ३६१
पीतोदकाय च पयो न देयं स्यात्कदाचन ॥
न चातिस्नेहपीताय मद्यपीताय चैव हि ॥ १५ ॥
श्लेष्मरोगोभिभूताय गजायाजीर्णकाय च ॥
तद्धि कुष्ठकिलासानां दद्रुः सपिटकोद्गमाः ॥ १६ ॥
एवंविधानि जनयेत्कण्डूं पालित्यमेव च ॥
पयः कुभाजनगतं यच्चाम्लरसदूषितम् ॥ १७ ॥
शरद्धेमन्तवर्षासु शिशिरे चैव चारणः ॥
पयः पुष्टानसा............. अध्वकर्मसु योजयेत् ॥
भवन्ति सं(मु)हितगदा निरातङ्काश्च वारणाः ॥ १८ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षीरदानविधिरध्याय
एकविंशः ॥ २१ ॥
अथ द्वाविंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
कृतजापमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥
पृष्टं मे निखिलं किंचिद्व्याकरोतु महातपाः ॥
ग्रीष्मस्य चान्तिमे पक्षे वर्षाणामागमे तथा ॥ २ ॥
दिवसे वाऽपि संपूर्णे आषाढे द्विजसत्तम ॥
ऐरावतसमो यस्तु संभूतः स कथं मुने ॥ ३ ॥
देवता का भवेत्तस्य सुतो वा कस्य सत्तमः ॥
केन वा कारणेनैव मर्त्यलोके महामुने ॥ ४ ॥
वर्षासु सततं वाऽपि पूज्यते च नराधिपैः ॥
एवमुक्तो मुनिश्रेष्ठः प्रोवाचेह जनाधिपम् ॥ ५ ॥
शृणु राजन्कथां दिव्यां पुण्यां प्रव्याहृतां मया ॥
श्रोतुमर्हसि भद्रं ते यथावदिति निश्चितम् ॥ ६ ॥
पुरा कृतयुगे राजन्देवानां दानवैः सह ॥
संग्रामे दारुणे राजन्निवृत्ते तारकामये ॥ ७ ॥
प्रहृष्टमनसः सर्वे देवा वज्रभृदादयः ॥
दिग्वारणान्पूजयित्वा तत्तत्कामान्महाबलान् ॥ ८ ॥
१ क. ॰ण्डूः 'खालि॰ । २ क. ॰ष्टान्द्रसीकुर्यादुष्णक॰ । ३ क. घ. संभूत॰ ।