सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 647, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 647

६२८ पालकाप्यमुनिविरचितो- [४ उत्तरस्थाने-
ऐरावणादयो राजन्कीर्तितास्ते दिशां गजाः ॥
तेभ्यः प्रसृतिनागानां पूजामर्हसि पार्थिव ॥ १९ ॥
अशास्त्रविद्यथानज्ञो न कुर्याद्दन्तकल्पनाम् ॥
हिंसतेषु(?) शमानेषु यदि श्र(स्र)वति शोणितम् ॥ २० ॥
तङ्गलेनोपसंगृह्य निक्षिपेवक्षतोदके ॥
प्रमाणादधिकं वृत्तेन न शुभं नाशभं फलम् ॥ २१ ॥
अथ चेच्छास्त्रकुशलैर्मितेर्मानेन तत्त्वतः ॥
कल्पिते कल्पनास्थाने विधिना पर्युपासिते ॥ २२ ॥
अव्याधिते मासपक्षे यदि श्र(स्र)वति शोणितम् ॥
तदुत्पातादि विज्ञेयं पार्थिवस्य भयं भवेत् ॥ २३ ॥
तस्मिन्काले विनस्य(श्य)न्ति ये तत्र प्रवरा नराः ॥
नायका मन्त्रिमुख्याश्च पुरं राज्यं च पीड्यते ॥ २४ ॥
गृहीत्वा तस्य तद्रक्तं कृत्वा पञ्चाङ्गुलं मुखे ॥
नीरञ्जनविधिं नागं रिपुराज्यं समुत्सृजेत् ॥ २५ ॥
एवं कृते कृताः सर्वा भवेत्तस्य प्रतिक्रियाः ॥
प्रमाणानि च वक्ष्यामि निरपायानि दन्तिनाम् ॥ २६ ॥
गिरिमिश्रनदीजानां सम्यक्शास्त्रविनिश्चयात् ॥
कुर्यात्पञ्चे दन्तिनां तु चतुरष्टे तु कल्पनाम् ॥ २७ ॥
उभयोरन्तरे कार्या मिश्ररूपस्य भूमिप ॥
कृताऽन्यथा न नागस्य वृद्धिर्भवति दन्तयोः ॥ २८ ॥
अष्टाधं मिश्ररूपस्य ततोऽर्धे गिरिचारिणः ॥
सप्तत्रिंशत्पञ्चत्रिंशत्त्रिंशच्चैव यथाक्रमम् ॥ २९ ॥
नदीमिश्राद्रिवारणामङ्गुलानि करीरिणाम् ॥
अतः परममीषां हि वक्ष्यन्ते दन्तजातयः ॥ ३० ॥
स्निग्धो सरुधिरो दन्तो रूक्षो रुधिरवर्जितो ॥
मधुसंकाशवर्णौ च नेव रूक्षो न चेतरो ॥ ३१ ॥
न चातिमधुसंकाशौ नैव रूक्षौ न चेतरौ ॥
पीतावपि हि विज्ञेयौ दन्तजातिपरीक्षणे ॥ ३२ ॥
भस्मपाण्डुरवर्णौ तु नव्यास्थिसदृशावपि ॥
तौ रूक्षाविति विज्ञेयो पीतौ स्निग्धौ मधुप्रभौ ॥ ३३ ॥
१ क. विरिञ्जनविधिं । ख. नरिञ्जनविधिं ।