हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 603, कुल 742 में से
संदर्भ में पढ़ें५८४ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
बलं नागेषु राजेन्द्र प्रोक्तं प्रकृतिसंभवम् ।
तद्बलं द्विविधं भूप प्रवक्ष्यामि यथाक्रमम् ) ॥
विद्यास्नेहरसैर्युक्तं यच्च प्रकृतिसंभवम् ।
तद्धि श्रेष्ठं बलं राजन्बले बलसमाश्रितम् ॥
ततः प्रयोगे सततं विपरामर्शणे तथा ।
षड्रसा यं महीपाल आहारंविधिमाश्रिताः ॥
तेषां विभागं वक्ष्यामि यथातथ्यं महीपते ।
कषायं मधुरं शीतं पित्तघ्नं तिक्तमेव च ॥
अम्लं च लवणं चैव तस्य तीक्ष्णं च कोपनम् ।
कषायं कटुकं तिक्तं रूक्षं चानिलकोपनम् ॥
अम्लमुष्णं च लवणं स्निग्धं वातनिवृत्तये ॥
मधुरं लवणं सौम्यं शीतं च कफवर्धनम् ॥
तिक्तं च कटुकं चैव रूक्षं च कफनाशनम् ।
मधुराम्लकषायाणां लवणस्य तथैव च ॥
दद्यादरत्निपलिकं दन्तिने प्रथमे दिने ।
कटुकस्याथ कर्षं च तिक्तस्य द्विगुणं ततः ॥
भागान्वृद्ध्या क्रमः कार्यो यावत्सम्पक्प्रतिष्ठितः ।
पित्तसात्म्यस्य नागस्य परिशुद्धमुखस्य च ॥
पलानि मधुरः पिण्डषष्टिर्देया विजानता ।
तिक्तकः पञ्चहीनो वा दशभिः कटुको नृप ॥
षष्टिरेव कषायस्य लवणस्य तथैव च ।
सप्तहस्ताय दातव्यो हीनो हीनाय दन्तिने ॥
विज्ञेयो विंशतिपलः केवलस्तु प्रमाणतः ।
ज्ञेयमौषधवर्गाणां प्रमाणं पिण्डवत्प्रभो ॥
मात्रया हीनया द्रव्यं विकारं न निवर्तयेत् ।
. अधिकं कुरुते दोषं वारणस्य महीपते ॥
तस्मादग्निं बलं कालं शरीरं प्रकृतिं वयः ।
सात्म्यं सत्त्वं च विज्ञाय भिषग्भेषजमाचरेत् ॥
द्रोणे तु विंशतिपलं भेषजानां विधीयते ।
एतत्प्रमाणं (*घृतमनु)विधेयं भवति, अथ वातरक्तपित्तोपशमने वर्तते,
- कपुस्तकस्थोऽयं पाठः । ख-घपुस्तकयोस्तु वर्णानां त्रुटिरेव स्थापिता ॥