सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 598, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 598

३ अन्नपानविध्यध्यायः ] हस्त्यायुर्वेदः । ५७९
तथैव विषमाहाराच्छयनाद्वाऽपि दन्तिनाम् ॥
दुःस्थानाच्चापि नागानां जायते गात्ररोगता ॥ ९२ ॥
तेषां तैलेन सिक्तानां सर्पिषा वसयाऽपि वा ॥
भवन्ति मृदुभूतानि श्वयथुश्चोपशाम्यति ॥ ९३ ॥
आदीप्रस्य प्रशमनं हरणे प्रतिहस्तिनः ।
सहसा वाऽप्यभिहतस्तरक्षान्महतोऽपि वा ॥ ९४ ॥
क्षुभ्यन्ते दन्तिनोऽङ्गानि ततस्तिष्ठति वारणः ॥ २९५ ॥
स्तब्धगात्रापरकरः श्र(स्र)स्तश्रवणवालधिः ॥
भवेच्चैव ततः क्षिप्रं काष्ठभूतः सुदुर्मनाः ॥ ९६ ॥
यथोद्दिष्टप्रमाणेन सर्पिषा तस्य दन्तिनः॥
सेचनं सर्वगात्राणां विहितं नूवृतेन वा ॥ ९७ ॥
शेषैर्वाऽपि यथायोगमित्ययं विहितो विधिः ॥
─:(०):─
अतः परं प्रवक्ष्यामि शिरसो म्रक्षणे गुणान् ॥ ९८ ॥
विकृतान्यङ्कुशाग्रेण दन्तिनो घातनेन च ॥
ततो घृष्टानि सहसा कवलैः कुवलैरपि ॥ ९९ ॥
निर्वाणमुपगच्छन्ति भवन्ति च नराधिप ॥
शिरांसि स्निग्धकेशानि तथाऽलंकारमेव च ॥ ३०० ॥
दृष्टिश्च नाविला तस्य श्रो(स्रो)तश्चास्य न हन्यते ॥
कोशाद्विक्षरते मूत्रं प्रभिन्नस्य महीपते ॥ १ ॥
दन्तिनः पच्यते कोशः सर्व एव समन्ततः ॥
तस्य गैरिकयुक्तेन घृतेन परिषेचनम् ॥ २ ॥
तत्रारत्नेः प्रदातव्यं गैरिकस्य पलं भवेत् ॥
वृश्चिकाः कृकलाशा(सा)श्च तथैव गृहगोलिकाः ॥ ३ ॥
छर्दनात्क्रमयश्चान्ये बहवो वारणे हिताः ॥
रात्रौ विनिःसृता धान्नो भुजङ्गाश्च महाविषाः ॥ ४ ॥
व्यातिष्ठन्त्यप्रदीपत्वाद्व्रक्षयित्वा च तान्गजः ।
तीव्रां बाधामवाप्नोति मरणं वा नियच्छति ॥ ३०५ ॥
सुमना दुर्मनस्त्वं च कृतस्त्वं लिण्डमूत्रयोः ॥
सुखं विज्ञायते रात्रौ दीपे ज्वलति दन्तिनः ॥ ३०६ ॥