सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 251, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 251

२३२ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
कारयेत् । मधुकसरलभद्रदारुश्रेयसीचूर्णयुक्तेन तैलेन वक्षः सेचयित्वा तेनास्य
कण्ठश्वपयोरुपशमो भवति । तालीसपत्रं तगरं मांसी हिङ्गुदेवदारुविडङ्गानां
स्वा(श्वाविद्)गोधानराजलोममिश्रेतं(?) गोमयाग्नौ सर्षपतैलेनेमं धूपं दद्यात् ।
चक्षुषी चास्य क्षुरकमूलं श्लक्ष्णपिष्टं घृतमण्डेन नेत्रयोर्मधुना चाञ्जनं कुर्यात् ।
तेनास्य धूमस्वेदेन यश्च दोषः, कफपवमविकाराश्च प्रशममुपगच्छन्ति । यवसा-
न्यार्तवानि विविधहरितमृदुकषायाणि यवसाध्यायोक्तानि यत्रानुकूलानि भोज-
येत्, घृततैलोपपन्नानि विधिना । प्रणुदति गलग्रहरोगनिरुपद्रवो मुदितमनाः
सुप्रसभः प्रसभवक्त्रः प्रकृतिस्थः स्तनति वारणः ॥