हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 96, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ५१
अपरेद्युरुद्यति भगवति द्युमणावुद्दामद्युतावभिद्रुततारके तिरस्कृत-
तमसि तामरसव्यासङ्ग्यसनिनि सहस्ररश्मौ शोणमुत्तीर्यायन्ती, तरल-
देहप्रभावतानच्छलेनायच्छं सकलं शोणसलिलमिवानयन्ती, स्फुटिता-
तिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताविव गौरी तुरंगमे
स्थिता, सलीलमुरोबन्धारोपितस्य तिर्यग्गुत्कर्णतुरगाकर्ण्यमाननूपुरपटुरणि-
तस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरण-
युगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरभयतस्ताडनदोहदलोभागतानि
किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवलोकहृदयहठहर-
णाघोषयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन
निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुतला, स्त्रातकञ्चुकान्तर-
दृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलिलाभ्यन्तरविभाव्यमान-
मृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तः-
स्फुटं स्फटिकभूमिरिव रत्ननिधानमादधाना, हारेणामलकीफलनिस्तुल-
मुक्ताफलेन स्फुरितस्थूलग्रहगणशारा, शारदीव श्वेतविरलजलधरपटला-
वृता द्यौः, कुचपूर्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरण-
किसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशनमालिकामिव बद्धां
धारयन्ती, प्रकोष्ठनिविष्टस्यैकैकस्य हाटककटकस्य मरकतमकरवेदिका-
सनाथस्य हरीतीकृतदिगन्ताभिर्मयूखसंततिभिः स्थलकमलिनीभिरिव
लक्ष्मीशङ्कयानुगम्यमाना, अतिबहलताम्बूलकृष्णिकान्धकारितेनाधरसंपु-
टेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलय-
कुतूहलानिलीयमानयालिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धार्धवदना,
नीलीरागनिहितनीलिम्ना शिखिगलशितिना वामश्रवणाश्रयिणा दन्त-
पत्रेण कालमेघपल्लवेन विद्युदिव द्योतमाना, बकुलफलानुकारिणीभिस्ति-
सृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवर्षिणा सिञ्च-
न्तीवातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया
रजनिकरजिह्वालतयेव लावण्यलोभेन लिह्यमानकपोलतला, तमालश्या-
मलेन मृगमदामोदनिष्यन्दिना तिलकबन्दुिना मुद्रितमिव मनोभवसर्वस्वं
वदनमुद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश्चटुलतिलकमणेरुद्भ्रमता
चटुलेनांशुजालेनेव रक्तांशुकेनेव कृतशिरोवगुण्ठना, पृष्ठप्रेङ्खद् नादरसंयमन-