सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 93, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 93

४८ हर्षचरितम्
ताडितापि वेदनामधत्त । मन्दमन्दमारुतविधुतैः कुसुमरजोभिरदूषित-
लोचनाप्यश्रुजलं मुमोच । हंसपक्षतालवृन्तवातव्रातविततैः शोणशी-
करैरसिक्ताप्यार्द्रतामगात् । प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकम-
लिनीकल्लोलदोलाभिः । विघटमानचक्रवाकयुगलविस्सृष्टैरस्पृष्टापि श्यामता-
माससाद विरहनिःश्वासधूमैः । पुष्पधूलिधूसरैरदृष्टापि व्यचेष्टत मधुकरकुलैः।
विलुलितं विपर्यासितम् । मर्त्यलोक इत्यादिना गुणकीर्तनम् । चतुर्थमवस्था-
विशेषमाह । तदुक्तम्—'अङ्गप्रत्यङ्गलीलाभिर्भावैश्चेतसाहितेक्षणैः । नास्त्यन्यः सदृ-
शस्तेन तदेतद्गुणकीर्तनम् ॥' इति । गुणा वैदग्ध्यादयः, सूत्राणि च । तद्देशेन
गुरूणि बहुमानभाञ्जि । इतरत्त्र तु तिष्ठतु तावदेकः । गुणग्रामस्यापि गुणिरूपिते-
नापि दुर्बहानीति यावत् । तस्येनेति । पूर्वानुभूतस्य बिन्दुरिति न केवलं लावण्यप्र-
वाहाभिप्रायेण यावत्संनिवेशसादृश्यात् । विक्षेपाः परतः प्रेरणानि । कुमुदेत्याद्यु-
क्तम् । शुक्लकृष्णरक्तरुचित्वाच्चक्षुषो दीधितय इति मणिशब्दाभिप्रायेण । विकसित-
शब्देन लौहित्यातिशयमाह । अङ्गानि विचिन्त्यते यस्य तदङ्गं शरीरम् । परभागो वर्ण्य-
स्य वर्णान्तरेण शोभातिशयः । स्त्रैणानि स्त्रीसम्बन्धीनि । का प्रतिपत्तिः किमनुष्ठेयम् ?
मदन-इत्यादिनोद्वेगरूपं पञ्चममवस्थाभेदमाह । यदुक्तम्—'आसने शयने वापि न
हृष्यति न तुष्यति । नित्यमेवोत्सुका च स्यादुद्वेगस्थानमाश्रिता ॥ चिन्तानिःश्वास-
खेदेन हहाहाभिनयेन च । कुर्यात्तदेवमत्यन्तमुद्योगेनाभिनयेन च ॥' इति । दश किल
कामावस्थाः । तदुक्तम्—'प्रथमे त्वभिलाषः स्याद्द्वितीये चिन्तनं भवेत् । अनु-
स्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे प्रोक्तः प्रलापः षष्ठ उच्यते ।
उन्मादः सप्तमे चैव भवेद्व्याधिस्तथाष्टमे ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥'
इति । अरतिर्दुःखासिका हि कामवधूप्रतिपत्तिभूतेति तदागमनाभिभ्रानम् । हंस-
पक्षा इव तालवृन्तं व्यजनम् । आर्द्रता स्नेहताम्, क्लिन्नतां च । प्रेङ्खद्दोलाय-
मानम् । कादम्बाः कृष्णहंसाः । श्यामता शृङ्गाररसाविष्कारिवैवर्ण्यम् । यदुक्तम्—
'शृङ्गारदेवो भगवान्मुरारिः संगीयते श्यामवपुर्मुरारिः । श्यामो मनाक्चिज्झषध्वजश्च
तेन शृङ्गारशंसी मुखराग उक्तः ॥' अथ श्यामता सधूमता । श्यामत्वेऽपि सधूमता
इति विरोधाभासः ।
लेकिन सरस्वती बार बार करवट बदलने लगी, अपने पल्लवशयन को मसल डाला,
आँखें मूँद लीं, फिर भी नींद नहीं आई । सोचने लगी—'निश्चय ही मर्त्यलोक समस्त
लोकों में बढ़ा-चढ़ा है, जहाँ त्रिभुवन के भूषण, समस्त गुणों के गौरव से भरे, ऐसे ऐसे
रत्न पड़े हैं। जैसा कि—चन्द्रमा उसके लावण्य प्रवाह का चूआ हुआ एक बिन्दु ही तो
है । उसके नेत्रों के विलास ही तो सफेद, काले और लाल कमलों के आकर हैं ।
उसके अधरमणि की कान्ति ही तो बन्धूक की खिली हुई वनराजि है । कामदेव