हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 87, कुल 506 में से
संदर्भ में पढ़ें४२ हर्षचरितम्
हृदयम् । तत्कथय कतमो वंशः स्पृहणीयतां जन्मना नीतः । का चेय-
मत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदार्थानाम् । तथा
हि, संनिहितबालान्धकारा भास्वन्मूर्तिश्च, पुण्डरीकमुखी हरिणलोचना
च, बालातपप्रभाधारा कुमुदहासिनी च, कलहंसस्वना समुन्नतपयोधरा
च, कमलकोमलकरा हिमगिरिशिलापृथुनितम्बा च, करभोरुर्विलम्बित-
गमना च, अमुक्तकुमारभावा स्निग्धतारका च' इति ।
अथेति । नतु गतागतिकतया सर्वचेतनाभिप्रायेण सौन्दर्यमेतयोरभिव्यज्यते ।
प्रतिनिवृत्य न पुनः प्रसङ्गत उपेत्य । कन्यकात्वादेतन्नानुचितम् । प्रतूर्णी वेगगामी ।
साधुना विनीतेन । 'उपसंग्रहणं धीराः कथयन्त्यभिवादनम्' । आतिथ्यमेवोपज-
ग्राहापूजयत् । 'प्रवयाः स्यात्परिणतः' । अशालीनता धृष्टता । वनशब्देन मृगोत्सा-
मान्येऽपि जनसंपर्काच्चभावमाह । उपायनं ढौकनिका । उपनयति ढौकयति । प्रग-
ल्भमित्यादि । मनःकर्तृ अप्रगल्भमपि जनं वाचालयति । कीदृशम् ? प्रभवता
स्वामिना प्रश्रयेण प्रत्यर्पितं दत्तमैवंविधमस्मदीयं युष्मासु मन इति बहिः प्रकाशितं
यश्च परतश्च केनापि प्रभावशीलेन ढौकितं मद्यप्रगल्भमपि जनं कुलयोषित्प्रायं
वाचालयति किंचन जल्पयति । अत्रापि प्रश्रयेणेति साभिप्रायम् । तथा च—'अन्य-
यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मोदे निर्वृ-
तिर्हि मनसो मदहेतोः ॥' इत्युक्तम् । नम्रे प्रह्वे, कुब्जे च । गुणो विनयादिः, ज्या
च । कोटिः प्रकर्षः, धनुःशिखा च । 'देवानांप्रियस्येति पूजावचनम् । षष्ठ्या अलुक् ।
अत्रागमनेत्यादिना ब्रह्मोक्तशापबुद्ध्या दधीचस्य तद्भर्तृयोग्यतया कतम इति
देशोत्कर्षकूलादिकं पृच्छति—कस्येति । देवस्य । सिद्धा देवाः । अनन्यजः कामः ।
महतस्तेजस ऽनि । महच्च तेजः सूर्याख्यम् । अभिख्या नाम । अयमेव क्रम इति ।
यथास्योत्पश्यादिकं तद्वद्भवतोऽपीत्यर्थः । कला उपायः । भूरिति रेफान्तो भूवाची ।
भुव इति रेफान्तः पातालवाची । भूश्च भुवश्च स्वश्च भूर्भुवःस्वः, एषां त्रयमिति
समासः । अदभ्रोऽनल्पः । जम्भारिरिन्द्रः । स ह्यश्विभ्यां यज्ञभागभुजौ कुर्यावामिति
चिरं प्रार्थितः । तथेति प्रतिपद्य ताभ्यां भागं दददिन्द्रेणोद्यतवज्रेण रोषितः । तत-
स्तेनास्य सवज्रः स्तम्भितो भुज इति । दुर्ललितोऽलभ्यविषयः । प्लुष्टपुलोम्न इति ।
अनवरतं रुदत्यां दुहितरि कोपान्मात्रा गृहाणेमामिति पुलोम्नो राक्षसस्योक्तम् ।
ततस्तां प्रतिगृह्य तत्रैव स्थापयित्वा क्वापि गते रक्षसि सा भृगुणा विवाहिता । ततः
सगर्भा सती पुलोम्नागत्यापह्रियमाणतया च्यवनं गर्भमत्याक्षीत् । तेन चान्वर्थ-
नाम्ना तदृक्षो दृष्टैवादहत् । अन्तर्वत्नीं गर्भिणीम् । वैजनने मासि प्रसवमासे ।
दीर्घायुषमिति साभिप्रायम् । रूपकुलाद्युत्कर्षे वर्णिते सत्येतदेव वरगुणवर्णनमव-
शिष्यते । अनेहसा परिपूर्णेन कालेन । 'न जायते यत्र तृप्तिस्तदासेचनकं विदुः' ।