हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 76, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः ३१
अथ इति पदेन धावनक्रियासहत्वाज्जलस्य ग्रहणं सूच्यते । अत एव धवलाः शुक्लाः
पयोधरा मेघा यस्यास्ताम् । इतरत्राधोधावमानाः पयःपूर्णत्वाल्लम्बमानाः क्षीरयुतेश्च
धवलाः स्तना यस्याः । अधो धावमानं वेगेन प्रसरद्धवलं पयो धारयति या ताम्,
अधो धावमानो धवलो यः पयोधो वत्सस्तं राति ददाति या ताम्, धवलो वृष-
स्तस्मै पयो धारयति या तां वेत्यादिकाः कुव्याख्या एव । उद्धुर उद्भटः । अन्धक-
मथनः शिवः । आलीयमानाः श्लिष्यन्तः । वालखिल्या मुनिभेदाः । रोधस्तटम् ।
त्वङ्गत्तरत् । आप्लवनं स्नानम् । पितरो देवविशेषाः, आज्यपाः, सोमपाः, वहिर्षा-
दयश्च । आचमनेत्यादिना पितामहवन्न स्नानादिनिष्ठत्वमस्योच्यते । अत एव शची-
पदेन संभोगासक्तत्वमिव पोषितम् । निकायः समूहः । सुषुम्णाख्योऽमृतमयो रवि-
रश्मिः । धिषणो बृहस्पतिः । सिद्धकृतत्वेन लिङ्गेषु भगवत्संनिधानमावेद्यते । निर्मोकः
सर्पकञ्चुकः । विस्रंसतया शुक्लत्वेन, लहरिकावलीत्वेन च निर्मोकमुक्तिमिवेत्युत्प्रेक्षा ।
गगनमिवोरगः कृष्णतया । ललाटिका ललाटालंकारः । विटो भुजङ्गः । उष्णीषं
शिरोवेष्टनं दिक्षु प्रसिद्धम् । दुगूलशब्दो दुकूलसमानार्थः । पद्धतिर्मार्गः । अपवर्गो
मोक्षः । कृतयुगस्य रचितयुगकाष्ठस्य रथस्येत्यर्थः । यथा नेमिवशाद्रथग्रहणं तथा
तद्गुणात्कृताख्यस्य युगस्य । सप्तसागरराजः क्षीरसमुद्रः । चन्द्राख्यः पर्वत इति
केचित् । शशिमणिश्चन्द्रकान्तः । पितामहस्येति । तद्भक्त्या तदाश्रयणम् । सिकता
विद्यन्ते यस्य स सिकतिलः । मत्तशब्देन सशब्दत्त्वम्, वेणीपदेन च तन्त्रीसन्निवेश-
सादृश्यमाह । वेणी पङ्क्तिः । लिङ्ग्यतेऽनेनेति लिङ्गमाकारः । पञ्च ब्रह्माणि सद्योजातः,
वामदेवः, अघोरः, तत्पुरुषः, ईशानश्चेति । मुद्राबन्धो विशिष्टकराङ्गुलिसन्निवेशः ।
ध्रुवाख्या विशिष्टा गीतिः । वनं तोयम् । यजमान उग्रः । अष्टौ पुष्पाण्येवाष्टपु-
प्पिका । तत्र गन्धप्रधानं पार्थिवम्, अर्घस्नानादिकं रसप्रधानमाप्यम्, प्रदीपा-
भरणप्रभादिरूपप्रधानं तैजसम्, अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम्, सुषिरा-
तोद्यगीतादिकं शब्दप्रधानमाकाशीयम्, अनुध्यानं मानसम्, अस्ति सर्वत्रेश्वर इति
निश्चयो बौद्धम्, अहमेवेश्वर इत्याहंकारिकम् । यद्वा,-आसनवर्गप्रवृत्तिष्वष्टसु प्रत्ये-
कमष्टपुष्पिका । अतिशेतुमभिभवितुमिच्छतातिशिशयिषमाणेण । स्वादिम्ना बृह-
त्वेन । शरीरस्थितिमिति । न त्वातृप्तिभोजनम् । अन्येद्युरन्यस्मिन्नहनि ।
तब क्रम से सरस्वती सात सागरों की पटरानी मंदाकिनी का अनुसरण करती हुई
मर्त्यलोक में उतरी । वह मंदाकिनी ध्रुव से निकली हुई कामधेनु के समान नीचे लटकते
हुए पयोधरों को धारण कर रही थी । उसकी ध्वनि गम्भीर थी । वह अंधक के शत्रु
भगवान् शंकर के मस्तक की मालतीमाला थी । तट पर वालखिल्य मुनियों की भीड़-
भाड़ थी । अरुन्धती वहाँ वल्कल का संमार्जन करती थी । उसकी दौड़ती हुई ऊँची लहरों
पर चंचल तारे हिलोरेँ ले रहे थे । उसकी रेतों को तापस अपने तरु तिलोदक से