हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 64, कुल 506 में से
संदर्भ में पढ़ेंप्रथम उच्छ्वासः १५
महातपोभारवैवधिकता, क पुरोभागित्वम् ? अतिरोषणश्चक्षुष्मानन्ध एव
जनः । नहि कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपि-
तस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः
समास्कन्दति, चरमं चक्षुः । आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् ।
पूर्वमयशः स्फुरति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपाद-
पस्येव जटावल्कलानि जातानि । अनुचित। खल्वस्य मुनिवेषस्य हारय-
ष्टिरिव वृत्तमुक्ता चित्तवृत्तिः । शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन
चेतसा तापसाकल्पम् । अल्पमपि न ते पश्यामि कुशलजातम् । अनेना-
तिलङ्घिनाऽव्याप्नुपर्य्येव प्लवसे ज्ञानोदन्वतः । न खल्वनेडमूकः एडा
जडा वा सर्व एते महर्षयः । रोपदोशनिपष्टे स्वहृदये निग्राहे किमर्थमसि
निगृहीतवाननागसं सरस्वतीम् । एतानि तान्यात्मप्रमादस्खलितवैल-
क्ष्याणि, यैरार्यतां यात्यविदग्धो जनः' इत्युक्त्वा पुनराह—'वत्से
सरस्वति, विषादं मा गाः । एषा त्वामनुयास्यति सावित्री । विनोद्-
यिष्यति चास्मद्विरहदुःखिताम् । आत्मजमुखकमलावलोकनावधिश्च ते
शापोऽयं भविष्यति' इति । एतावदभिधाय विसर्जितसुरासुरमुनिमनुज-
मण्डलः ससंभ्रमोपगतनारदस्कन्धविन्यस्तहस्तः समुचिताह्निककरणा-
योदतिष्ठत् । सरस्वत्यपि शप्ता किंचिदधोमुखी धवलकृष्णशारां कृष्णा-
जिनलेखामिव दृष्टिमुरसि पातयन्ती सुरभिनिःश्वासपरिमललग्नैर्मूर्त्तैः
शापाक्षरैरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताऽधो-
मुखीभूतेनोपदिश्यमानमर्त्यलोकावतरणमार्गेव नखमयूखजालेन नूपुर-
व्याहाराहूतैर्भवनकलहंसकुलैर्ब्रह्मलोकनिवासिहृदयैरिवानुगम्यमाना समं
सावित्र्या गृहमगात् ।
अथेत्यादौ भगवान्पितामहः सुधीरमुवाचेति सम्बन्धः । तथेति । तेन प्रकारेण ।
निरपराधां सरस्वतीमित्यर्थः । धवलयशोवतीनिमिति । प्रशंसायां नित्ययोगे वा मत्व-
र्थीयः । ‘बिसकिसलयच्छेदपाथेयवन्तः' इतिवत् । अन्यथा कर्मधारये कृते मत्वर्थीय
एकबुद्धयनुमितो बहुव्रीहौ प्रतिपत्तिर्भवतीति । इतरत्र तु बुद्धिद्वयमिति लघुत्वाच्च-
क्रमस्येत्युक्तम् । उद्रच्छन्नखाङ्गुलीयरमकरतस्य मयूखलताकलापो यस्य तेन करेण ।
आपीडः समूहः । पातं विन्यासम् । पातयन्कुर्वन् । अत्र हि धात्वर्थगतानुष्ठानमात्र-
वृत्तिः क्रिया । यथा-‘संवस्ते बालिते क्ते’ इति । पन्था व्यवहारः, मार्गश्च ।