सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 47, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 47

२ हर्षचरितम्
निमित्तकारणत्वादित्याहुः । 'स्वयंभूः शम्भुरादित्यः' इति नामसहस्रे दृष्टत्वाद्धरेः,
'शम्भू ब्रह्यत्रिलोचनौ' इत्यभिधानकोशदर्शनाच्च ब्रह्मणोऽपि नमस्कारोऽयमित्यन्ये
वदन्ति । व्याकुर्वते च हरिपक्षे-त्रैलोक्याक्रमणकाले । यद्वा-'यस्याभिरास्यं
द्यौर्मूर्धा खं नाभिश्चरणौ मही' इत्यभिप्रायेण तुङ्गमूच्छितं चुलक्षणं यच्छिरस्तच्चुम्बि-
चन्द्र एव चामरं तेन चारवे । ब्रह्मपक्षे-चन्द्रः स्वर्णं तन्मयं चामरमिव चामरं
केशकलापः हिरण्यकेशो हि ब्रह्मा त्रैलोक्यादीनि सर्वत्र तृप्यसीति ॥ १ ॥
❖ हिन्दीव्याख्या ❖
उन भगवान् शिव को मैं प्रणाम करता हूँ जिनके कहीं भी न झुकने वाले उन्नत
मस्तक पर विराजमान चन्द्ररूपी चँवर की शोभा है, जो त्रिभुवनरूपी नगर के निर्माण-
आरम्भ में मूलस्तम्भ के समान है ॥ १ ॥
हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम् ।
कालकूटविषस्पर्शजातमूर्च्छागमामिव ॥ २ ॥
इत्यारिना । प्रियं प्रति गाढस्नेहादि सौकुमार्यं चोपमयोच्यते । कालकूटविषेति
प्रशंसाद्यर्थः सामान्यपदप्रयोगो मेरुमहीधरचूतवृक्षादिवत् । आगमः प्रारम्भः ॥ २ ॥
उमा को प्रणाम करता हूँ, जिनकी आँखें शिव के कण्ठालिङ्गन के आनन्द से मूँद
गई हैं, मानों शिव के गले में स्थित कालकूट विष के स्पर्श हो जाने से उन्हें तत्काल
मूर्च्छा आ गई हो ॥ २ ॥
नमः सर्वविदे तस्मै व्यासाय कविबेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ३ ॥
संप्रत्युत्कृष्टकवित्वानिमानेन तादृशमेव कविवरं स्तौति-नमः सर्वेत्यादिना ।
सर्वा वेदादिका विद्या गीतादिकलाश्च वेत्ति यस्तस्मै । तदुक्तम्-'नासौ शब्दो न
तद्वाच्यं न सा विद्या न सा कला । जायते यन्न काव्याङ्गमहो भारो महाकवेः ॥'
इति कविरेव वेधाः । उक्तं च-'अपारे काव्यसंसारे कविरेव प्रजापतिः' । कवीनां
वेधाः । कविशब्दोऽत्रोपचारात्कविबुद्धिषु वर्तते । तेन कविबुद्धीनां श्रेष्ठ इत्यर्थः ।
तथा चाह मुनिः-'इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः' इति । यद्वा व्युत्पत्त्यु-
त्पादनद्वारेण कवय एवंभूताः सन्तः क्रियन्ते । मुख्य एव कविशब्दस्यार्थः ।
यदुक्तम्-'इदं कविवरैः सर्वैराख्यानमुपजीव्यते' इति । पुण्यं पावनम् । यदुक्तम्-
'भारताध्ययनात्पुण्यादपि पादमधीयतः । श्रद्दधानस्य पूयन्ते सर्वपापानि देहिनः॥'
इति । सरस्वती वाणी, तस्या लताया इव पुष्पादिहेतुत्वाद्वर्षं वृष्टिमिव । वर्ष वा
स्थानविशेषः । यतोऽसौ तत्रास्ते । यदुक्तम्-'यदिहास्ति तदन्यत्र यन्नेहास्ति न
१. पाठान्तरम्-हरकण्ठग्रहानन्द । २. स्पर्शाञ्जात ।