सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 392, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 392

षष्ठ उच्छ्वासः ३४५
चिच्छिदुरश्मकेश्वरस्य शरभस्य शिरो रिपुपुरुषाः । प्रज्ञादुर्बलं च बल-
दर्शनव्यपदेशदर्शिताशेषसैन्यः सेनानीरनार्यो मौर्यं बृहद्रथं पिपेष पुष्प-
मित्रः स्वामिनम् । आश्चर्यकुतूहली च दण्डोपनतयवननिर्मितेन
नभस्तलयायिना यन्त्रयानेनानीयत कापि काकवर्णः शैशुनागिश्च नगरो-
पकण्ठे कण्ठे निचकृते निस्त्रिंशेन । अतिस्त्रीसङ्गरतमङ्गपरवशं शुङ्गम-
मात्यो वसुदेवो देवभूतिदासीदुहित्रा देवीव्यञ्जनया वीतजीवितमकारयत् ।
असुरविवरव्यसनिनं चापजहुरपरिमितरमणीमणिनूपुरझणझणाह्लादरम्य-
या मागधं गोधनगिरिसुरुङ्गया स्वविषयं मेकलाधिपमन्त्रिणः । महाकाल-
महे च महामांसविक्रयवादवातूलं वेतालस्तालजङ्घो जघान जघन्यजं
प्योदयनं लोभितवान्। सोऽप्यविचार्यैव गजग्रहग्राहिकया कतिपयाप्तपरिवारो
घोषवतीं वीणामादाय तत्र गतः कपटकुञ्जरान्तर्गतैर्महासेन सैनिकैः संहृत इति ।
अतो नाल्पपरिवारैः संवीथ्य च विस्रब्धैर्भाव्यमित्युक्तम् । सुमित्रो राजा मित्र-
व्यसनी स्त्रीजनपरिवार इव नटजने विस्रब्धो मित्रदेवेन नटत्वमाश्रित्य हतः ।
स च योगचूर्णार्वाच्चूर्णितस्तिरोहितो बभूवेति । अतो व्यसनिभिः प्रकृतलोक-
विश्वासिभिश्च न भाव्यमित्युक्तम् । शरभोऽतिशयितान्वाद्यवतः प्रवेशमदादिति
गुहायुद्धै रिपुपुरुषैर्हत इति । अतो मनागपि व्यसनं वर्जनीयमित्युक्तम् । अका-
र्यमत्र परदारागमनादि । तरवारिरेकधारः खड्गः । प्रज्ञेत्यादि स्पष्टा कथा । अनेन
च भृत्यबलदर्शनमसंनद्धैर्न कार्यमित्युक्तम् । मौर्यमिति गोत्रनाम । काकवर्णो
यवनान्विजित्य तैश्च स्वपुरुषानुपायनीकृत्य यन्त्रयानैस्तद्दत्तैः परदारादीनाच्छुन्न्य-
वनैरात्मदेशं प्रापय्य निहत इति । अतः शत्रुप्रामृतेषु भृत्येषु न विश्वसनीयमि-
त्युक्तम् । देवीव्यञ्जनया महिषीव्याजया । मेकलाधिपमन्त्रिभिर्वांतिकच्छद्मभिरहि-
विवरं साधितम् । तपसास्माभिरित्युक्त्वा मागधो गुहाद्वारप्रतिद्वारैर्बद्धोऽभूत् ।
गोधनगिरिः सूर्याख्यः पर्वतः । सुरुङ्गा विवरम् । मेकलो विन्ध्याद्रिः । मह
आकाशगामी यंत्रयान में उड़ाकर कहीं दूर किसा नगर नामक राजधानी के बाहर ले
जाया गया और वहाँ तलवार से उसका कंठ काट दिया गया । अमात्य वसुदेव ने स्त्रियों
के साथ दिन-रात रहने वाले कामी राजा शुंग को देवभूत की दासी की पुत्री को रानी
के भेष में भेजकर मरवा डाला । मेकलाधिप के सचिव पातालदर्शन के प्रेमी मगधराज
को अनेक सुन्दरियों के मणिनूपुर की आवाज से गूंजते हुए गोवर्धन पर्वत के सुरंग मार्ग
से अपने देश में हरकर ले गए । पुणिक के पुत्र प्रद्योत के छोटे भाई कुमारसेन को जब
वह महाकाल के उत्सव में महामांस विक्रय के सम्बन्ध में वाद विवाद कर रहा था,