हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 345, कुल 506 में से
संदर्भ में पढ़ें२६८ हर्षचरितम्
नतालतरुप्रांशु कायप्रमाणमिदम् ? ईदृक्च दिवसकरप्रीत्या दिवसमुन्मु-
खविकसितं मुखमहाकमलम् । एतौ च वज्रस्तम्भभास्वरौ भुजकाण्डौ ।
एते च हसितमदालसहलधरविभ्रमा विलासाः कोऽन्यो मानी विक्रान्तो
वदान्यो वा ?' इति । एतानि चान्यानि च चिन्तयन्दर्शनोत्सुकहृदयो
भ्रातुरागमनमुदीक्षमाणः कथंकथमप्यतिष्ठदिति ।
इति महाकविश्रीबाणभट्टकृतौ हर्षचरिते महाराजमरणवर्णनं नाम पञ्चम उच्छ्वासः ।
मुखकमलस्य दिवसकरप्रीतिः प्रतापित्वम् । वदान्यो दाता ॥
इति श्रीशंकरविरचिते हर्षचरितसंकेते पञ्चम उच्छ्वासः ।
मानी, पराक्रमी और दानशील है ?' इस तरह की और अन्य प्रकार की चिन्ता करते
हुए बड़े भाई के दर्शन की उत्कण्ठा से उनके आगमन की प्रतीक्षा में किसी-किसी
प्रकार ठहरे ।
हर्षचरित पञ्चम उच्छ्वास समाप्त ।