सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 190, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 190

तृतीय उच्छ्वासः १४५
भुजङ्गलोकपरिग्रहादश्वतरकन्यामपि न परिजहार । पृथुः प्रथमपुरुषऋः
परिभूतवान्पृथिवीम् । नृगस्य कृकलासभावेऽपि वर्णसंकरः समदृश्यत ।
सौदासेन नरक्षिता पर्याकुलीकृता क्षितिः । नलमवशाक्षहृदयं कलि-
रभिभूतवान् । संवरणो मित्रदुहितरि विप्लवतामगात् । दशरथ इष्टरा-
पुरुषऋः । पृथुरादिनृपो भूधराक्रान्तां सर्वां गां विलोक्य चापकोट्या गिरीन् भुवः
पर्यन्तेषु चिक्षेप । धरणकारणभूतभूभृत्परिभवाद्भवो विभवः । अत एवास्य
कापुरुषत्वम् । विष्णुपुराणे तु—आकृष्टकार्मुकेन पृथुना 'देहि मे भर्त्तव्यभरणो-
पायम्' इत्यनुबध्यमाना भूर्भुवनानि बभ्राम । ततः शरणमलब्ध्वा सास्य सर्वाः
सस्यसंपदोऽजनयदि्रति वर्णितम् । एतस्मात्परिभूताऽभूदिति । कृकलासः
प्राणिभेदः । तद्भावेऽपि तस्यां दशायामपि किं पुन राज्यस्थस्येति निन्द्यत्वम् ।
वर्णः शुक्लादिः, ब्राह्मणादिश्च । नृगो राजा दानप्रस्तावे कस्यचिद्विप्रस्य संबन्धिनीं
गामविज्ञायैवान्यस्मै द्विजाय ददौ । कदाचिच्च तस्या गोः स्वामी तां गां परिज्ञाय
तं ययाचे । न च तस्माद्गां लेभे । ततस्तौ द्वावपि राजद्वारं राजविज्ञापनाय गतौ ।
ग्राम्यभोगासक्तराजदर्शनमलभमानौ च क्रोधात् 'कृकलासो भव' इति राज्ञः शापं
दत्त्वा कस्मैचिद्गां वितीर्य यथागतं प्रतिजग्मतुरिति । नरान्निक्षोतीति नरक्षिता,
न पालिता च । सौदासो नाम राजा मृगयासक्तः पथि गच्छन्कदाचिन्मुनिं शक्त-
नामानं मार्गमध्ये स्थितम् 'अपसर्प' इत्यवदत् । 'पन्था देयो ब्राह्मणाय' इति
वचनान्न्यायमनुवर्तमानो यावन्न चलितस्तावद्राज्ञा कशयाभिहतः । अथ रोषावे-
शात् 'गच्छ मनुष्यभक्ष्यो राक्षसो भव' इति तं शशाप । वशमायत्तम् । अक्षहृदय-
मक्षज्ञानम् , अक्षाणीन्द्रियाणि हृदयं च । तच्च नलो राजा द्यूतव्यसनी तत्स्वरूपान-
भिज्ञश्च कलिनाभिभूत इति प्रसिद्धम् । मित्रो रविः, सुहृच्च मित्रम् । तपती नाम
मित्रस्य रवेर्दुहिताभूत् । तस्यां संवरणो नाम राजा व्यसनी बभूव । रामो दशरथ-
सुतः, रामा स्त्री च । दशरथो मृगयासक्तो घटपूरणरवं श्रुत्वा बृंहितशङ्कया शब्द-
पातिना शरेण मुनिपुत्रं व्यापादयत् । तेन च बोधितान्वयः पित्रोः समीपं तं
निनाय । तद्वचनाच्छल्यमुद्धरति नृपे शिशुर्मृतः । अथ च सदारेण वृद्धतापसेन
'पुत्रादहमिव त्वमपि प्राप्स्यस्यन्तम्' इति शप्तो रामवियोगात्प्राणांस्तत्याजेति ।
गोनिमित्तं ब्राह्मणस्य जमदग्नेरतिपीडनम् । निधनमयासीत् । जामदग्न्येन हत
की रक्षा नहीं की । जुआ के खिलाड़ी राजा नल को कलि ने अभिभूत कर दिया ।
संवरण नामक राजा ने तपती नामक (सूर्य या सुहृद) की पुत्री के प्रति अपनी
कामवासना प्रकट की । राजा दशरथ ने अपने प्रिय पुत्र राम के विरहोन्माद (अथवा
१० ह० च०