हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 123, कुल 506 में से
संदर्भ में पढ़ें७८ हर्षचरितम्
कवृत्य इव वनमयूरपिच्छकुचयानुञ्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जान-
जरत्करञ्जमञ्जरीबीजजालकैः, सप्ररोहा इवातपातुरवनमहिषनासानिकुञ्ज-
स्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः,
सभ्रुकुटयइव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिबीचय
इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः,
दद्रुणा इव शुष्कपत्रप्रकराकृष्टितिभिः, शिराला इव तृणवेणीविकरणैः, उच्छ्र-
मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशलल-
आवृत्त्यः । यदाह मुनिः—'यदा नृत्तवशादङ्गं भूयोभूयो निवर्तते। तत्राद्यमभिनेयं
स्याच्छेषं नृत्ते नियोजयेत् ॥' इति । मण्डलीनृत्तं हल्लीशकम् । यदाह—'मण्डलेन
तु यन्नृत्तं हल्लीशकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥'
इति । रेचकास्त्रयः—कटीरेचकः, हस्तरेचकः, ग्रीवारेचकश्चेति । रासलक्षणम्—
'अष्टौ षोडशद्वात्रिंशद्यत्र नृत्यन्ति नायकाः। पिण्डीबन्धानुसारेण तन्नृत्तं रासकं
स्मृतम् ॥' इति । अस्यैव तु हलीमकश्चा विशेषाः । क्षपणकवृत्तय इवेति : क्षपण-
काश्च मषीमलिना बर्हिपिच्छानि शास्त्रचोदनया वहन्ति । उन्मत्तपक्षे—निर्विवेक-
तया मयूरपिच्छचय इत्युक्तं प्राक् । गुञ्जन्तीति गुञ्जा ढक्कामदाः । उन्मत्तानां नृत्ता-
वसरे सर्व एव करतालादि वादयन्ति । शिञ्जानाः शब्दायमानाः । करञ्जो वृक्षभेदः ।
प्ररोहोऽङ्कुरः । उन्मत्ता अपि खेदात्रिःश्वसन्ति । सापत्या इवेति । उन्मत्ता अपि
श्वादिपतनभयादपत्यानि न त्यजन्ति । पेटकैर्यूथैः । सभ्रुकुटय इवेति । दह्यमाना-
भिप्रायेणोक्तम् । उन्मत्ता अपि क्रोधप्राया एव । क्रोधस्य भ्रुकुट्यादयोऽनुभावाः।
खलधानं क्षोदादिदेशः । बुद्यमानं धान्यमित्यन्ये । सस्यस्य ज्वालाभावाद्धूमवर्णनं
समुचितम् । कुटिलपदेन च भ्रुकुटीसादृश्यमाह । अवीचिनरकभेदस्तस्य वीचय
इव वीचयो ज्वालाः । महोष्मेति । उन्मत्ता अपि खेदादिक्शादूष्मायन्ते । लोमशा
इवेति । उन्मत्ता अपि दुरकर्म विना लोमशाः । तूलं कार्पासः । दद्रुः कुष्ठविकारः ।
साऽस्यास्तीति दद्रुणः । 'ददूम्ना ह्रस्वत्वं च' इति नः । उन्मत्ता अप्युद्धर्त्तनं विना
उखाड़ कर पहनने लगी । करंज नामक वृक्ष की मंजरियों के बीज हवा से इस प्रकार बजने
लगे मानों प्रस्थान का ढक्का बज उठा हो । घाम से पीड़ित बनैले भैंसों की नासा से मोंटे
विंश्वास इस तरह निकल रहे थे मानों उस हवा के प्ररोह फूट रहे हों । भूसे की जलती
हुई ढेर की टेढ़ी धूमरेखा से ऐसा लगता था मानों हवा ने अपनी भौंहें टेढ़ी की हों ।
गर्मी इस तरह बरसती थी मानों अवीचि नामक नरक की ज्वाला हो । सेमल के डोंडों के
फटने से रूई बिखर रही थी, मानों हवा के रोंगटे हों। दाद के रोगी की भाँति हवा सूखे