सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 120, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 120

भिनन्दिताः सरित इव तनिमानमानीयन्त सोडुपाः शर्वर्यः। अभिनव-
पटुपाटलामोदसुरभिपरिमलं न केवलं जलम् , जनस्य पवनमपि पातु-
मभूदभिलाषो दिवसकरसंतापात् ।
क्रमेण च खरखसमयूखे, खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रोतसि,
मन्दनिर्झरे, झिल्लिकाझांकारिणि, कातरकपोतकूजितानुबन्धबधिरितविश्वे,
श्वसत्पतत्रिणि, करीषकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकि-
शारकलिह्यमानकठोरघातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महा-
महोधरनितम्बे, दिनकरदूयमानद्विरददीनदानाश्यानदानश्यामिकाली-
नमूकमधुलिहि, लोहितायमानमन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसन्दो-
हसंदेहमुह्यन्महामहिषविषाणकोटिविलिख्यमानस्फुटस्फटिकदृषदि, धर्म-
चक्रवाकानां वियोगो भवतीत्यशपतया ताँस्ता अभिनन्दन्ते । सरितश्च वृत्तिकारि-
कास्तेषामिति तदभिनन्दनम् । उडुपः शशी, प्लवश्च ।
क्रमेण चेत्यादौ । एवंविधे निदाघकाले कठोरीभवति सण्युन्मत्ता मातरिश्वानः
प्रावर्तन्तेति संबन्धः । खगो रविः । शुष्यदिति साभिप्रायम् । स्रोतसश्च प्रस-
रणधर्मत्वादाह—सीददिति । समन्तादावेगगामिनः । झिल्लिका चीरीनामकः
प्राणी यो वर्षासु तरुषु सीत्कारसुखैः करोति । कातरेति । कपोता हि मेदो-
मयस्वाङ्गितान्तं धर्मासहाः । अत एव पतत्रित्वेऽपि पृथगुपादानम् । पतत्रित्वार्भा-
प्रायेण श्वासमित्येतावदेव समुचितम् । एषां तथाभूतरुजाभावात् । करीषो गोमयम् ।
वीरुत्सपर्णशाखाजटिलं कुप्यकादि । कशोरकेति । बालत्वेन तृष्णाद्यसहिष्णुता,
मुग्धतातिशयश्च द्योत्यते । धातकी लताभेदः । स्तवकः पुष्पगुच्छः । स्तम्बेरमो
हस्ती । वमथुः करिकरशीकरः । तिम्यन्त आर्दीभवन्तः । नितम्बाः सानवः ।
द्विरदाः करिणः । दीनं क्षीणम् । आश्याना अप्रसरणधर्मकत्वादीषच्छुष्कश्यामिका
मदलेखासंबन्धिनी । लीना अतितर्षाच्छ्लिष्टाः । मूका गुञ्जितहीनाः । अलोहिता
लोहिता भवन्तो लोहितायमानाः । मन्दाराः पारिभद्रद्रुमाः । सिन्दूरिता आहितसि-
नन्वित तारों भरी रातें नदियों की भाँति छोटी होने लगीं। सूर्य का सन्ताप इतना बढ़
गया कि लोग न केवल नए खिले हुए पाटल के पुष्पों से सुगन्धित जल को पीना चाहते
थे, बल्कि इस तरह की सुगन्ध से भरी हवा को भी पीते थे ।
क्रमशः निदाघकाल कठोर होता गया । सूर्य तीखा होने लगा । तालाब सूखने लगे ।
प्रवाह शान्त होने लगे । झरने मन्द पड़ गए । झिल्लियाँ झंकारने लगीं । कपोतों के निरन्तर
आर्त स्वर से सारा विश्व भर गया । पक्षी हाँफने लगे । कूड़ा-कर्कट बटोरने वाली हवाएँ