सामग्री पर जाएँ
सर्वकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 114, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 114

प्रथम उच्छ्वासः ६५
अथ शनैः शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्ष-
माणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालाप-
गम्भीरगुणवद्गोष्ठीश्चोपनिष्ठमानः, स्वभावगम्भीरधीर्धनानि विदग्धमण्ड-
लानि च गाहमानः, पुनरपि तामेव वैपश्चितीमात्मवंशोचितां प्रकृतिम्-
भजत् । महतश्च कालात्तमेव भूयो वात्स्यायनवंशाश्रममात्मनो जन्मभुवं
ब्राह्मणाधिवासमगमत् । तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससं-
स्तवप्रकटितज्ञातेयैराप्तैरूत्सवदिवस इवानन्दितागमनो बालमित्रमण्डल-
मध्यगतो मोक्षसुखमिवान्वभवत् ।
इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं
नाम प्रथम उच्छ्वासः ।

अत्युदारेत्यादिः प्रकृतोपयोगी, यस्मात्कविना तथाविधवस्तुवेदिनावश्यमेव
भवितव्यम् । वीक्षमाण इत्यनेनात्मनः किमपि प्रकृष्टमुत्कर्षातिशययोगित्वमाह ।
अथ च वीक्षमाणो न तु गुरुकुलवत्सेवमानः । गाहमान इत्यनेन तेजस्वित्वमाहा-
त्मनः। वैपश्चितीं विद्वज्जनोचिताम्। संस्तव आदरः। ज्ञातीनां कर्म ज्ञातेयं बन्धुत्वम् ।
'कपिशात्योर्ठक्' । आप्तैरिति । बन्धुभिर्योगिभिश्च । योगिपक्षे बाल इव बालो
मित्रो रविर्निस्तेजस्त्वात् । उक्तं च—'तपस्यन्तं रविं दृष्ट्वा निस्तेजा जायते रविः ।
मोक्षमार्गप्रयत्ने तु तेजो नैवास्य विद्यते ॥' इति । मित्रं सखा, सूर्यश्च मित्रः ।
मण्डलं समूहः । बिम्बम् । मोक्षसुखमपि सूर्यबिम्बगतैरनुभूयत इति । आख्या-
यिकासु कविभिर्निजवंशवर्णनं कानने तथा वंशः स्थापितः स्यादिति । आत्मनश्च
विटवर्णनम् । सकलकलाकौशलं ममास्तीति हर्षस्य चरिते च वर्णयितव्ये
नाप्रस्तुतं चैतदिति शिवम् ॥
इति श्रीशंकरकविरचिते हर्षचरितसंकेते प्रथम उच्छ्वासः ।

तब उसने धीरे-धीरे चारों ओर घूम कर बड़े-बड़े राजकुलों को देखा जिनमें होने
वाले उदार व्यवहारों ने उसके मन को हर लिया। अनिन्द्य विद्याओं के अध्ययन-
अध्यापन से उद्भासित गुरुकुलों में रहा। बड़ी-बड़ी गोष्ठियों में बैठने लगा जहां गुणी जन