सामग्री पर जाएँ
सर्वकोश
विस्तृत हरिवंश पुराण (हरिवंशपर्व, विष्णुपर्व व भविष्यपर्व सहित)

विस्तृत हरिवंश पुराण (हरिवंशपर्व, विष्णुपर्व व भविष्यपर्व सहित)

Harivamsha Purana Hindi

महर्षि वेदव्यास द्वारा

स्रोत: Harivamsha Purana Complete (Mahabharata Supplement) (उद्गम)

DevanagariHindipublished1,169 पृष्ठ

पृष्ठ 669, कुल 1169 में से

संदर्भ में पढ़ें
पृष्ठ 669

[विष्णुपर्व ] नवाधिकशततमोऽध्यायः ६४७


एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥ ३३ ॥
ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् ।

क्षिप्र्रा, चर्मण्वती, पुण्यसलिला मही, शुभ्रवती, सिन्धु, वेत्रवती, भोजान्ता, वनमालिका, पूर्वभद्रा, पराभद्रा, ऊर्मिला, परद्रुमा, विख्यात वेत्रवती, चापदासी, प्रख्यावती, कुण्डनदी, पुण्यसलिला सरस्वती, चित्रघ्नी, इन्दुमाला, मधुमती नदी, उमा, गुरुनदी, तापी, विमलोदका, विमला, विमलोदा, मत्तगङ्गा, पयस्विनी—ये तथा दूसरी नदियाँ जिनके नाम यहाँ नहीं लिये गये हैं तथा जो पश्चिम दिशाका आश्रय लेकर बहती हैं, वे सब नदियाँ अपने जलसे मेरा अभिषेक करें ॥

भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ॥ ३४॥
सा तु दहतु मे पापं कीर्तिता शम्भुना धृता ।

पुण्यसलिला भागीरथी जो पूर्वदिशाका आश्रय लेकर बहती हैं और जिन्हें भगवान् शङ्करने अपने मस्तकपर धारण कर रखा है, वे अपना नाम कीर्तन करनेपर मेरे पापको दग्ध कर दें ॥ ३४ ॥

प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥ ३५ ॥
गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् ।
रामह्रदं विनशनं रामतीर्थं तथैव च ॥ ३६ ॥
गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः ।
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥ ३७ ॥
सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलम् ।
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥ ३८ ॥
बदरी चैव विख्याता नरनारायणाश्रमः ।
विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥ ३९ ॥
कोकामुखं पुण्यतमं गङ्गासागरमेव च ।
मगधेषु तपोदञ्च गङ्गोद्भेदञ्च विश्रुतः ॥ ४० ॥
तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः ।
मां प्लावयन्तु सलिलैः यानि मे कीर्तितानि वै ॥ ४१ ॥

प्रभास, प्रयाग, नैमिष, पुष्कर, गङ्गातीर्थ, कुरुक्षेत्र श्रीकण्ठ, गौतमाश्रम, परशुरामकुण्ड, विनशनतीर्थ, रामतीर्थ, गङ्गाद्वार, कनखलतीर्थ, जहाँ सोमका उत्थान हुआ था, वह सोमोत्थानतीर्थ, कपालमोचनतीर्थ, सुविख्यात जम्बूमार्ग, सुवर्णबिन्दु नामसे विख्यात तीर्थ, कनकपिङ्गलतीर्थ, पवित्र आश्रमोंसे विभूषित दशाश्वमेधिक तीर्थ, सुविख्यात बदरीतीर्थ, नर-नारायणका आश्रम, फल्गुतीर्थ, चन्द्रवटतीर्थ, परम पवित्र कोकामुखतीर्थ, गङ्गासागर, मगधदेशीय तपोद तथा गङ्गोद्भेद नामसे विख्यात तीर्थ—ये महर्षियोंद्वारा सेवित सभी पुण्यतीर्थ, जिनका मैने यहाँ कीर्तन किया है, निश्चय ही मुझे अपने जलसे आप्लावित करें ॥ ३५--४१ ॥

सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ।
ब्रह्मतीर्थे रामतीर्थे वाजिमेधशतोपमम् ॥ ४२ ॥
धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी ।
गङ्गा वैकुण्ठकेदारं सूकरोद्भेदकं परम् ।
तच्छापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात् ॥ ४३ ॥

सूकरतीर्थ, योगमार्ग, श्वेतद्वीप, ब्रह्मतीर्थ, सौ अश्वमेध यज्ञोंके समान फल देनेवाला रामतीर्थ, धाराके रूपमें गिरती हुई गङ्गा, पापनाशिनी गङ्गा, वैकुण्ठकेदार, उत्तम सूकरोद्भेदकतीर्थ तथा सुप्रसिद्ध शापमोचनतीर्थ—ये सारे तीर्थ मुझे पापसे रहित एवं पवित्र करें ॥ ४२-४३ ॥

धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः ।
वरुणेशोऽथ धनदो यमो नियम एव च ॥ ४४ ॥
कालो नयः संततिश्च क्रोधो मोहः क्षमा धृतिः ।
विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः ॥ ४५ ॥
यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः ।
नक्तंचराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः ॥ ४६ ॥
लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥ ४७ ॥
नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥ ४८ ॥
आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च ।
रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥ ४९ ॥
रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः ॥ ५० ॥
आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या ॥ ५१ ॥
लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम् ॥ ५२ ॥

धर्म, अर्थ और कामविषयक शास्त्र, यशकी प्राप्ति, शम, दम, वरुण, ईश, धनद, यम, नियम, काल, नय, संतति, क्रोध, मोह, क्षमा, धृति, विद्युत्, मेघ, ओषधियाँ, प्रमाद, उन्माद, विग्रह, यक्ष, पिशाच, गन्धर्व, किन्नर, सिद्ध, चारण, निशाचर, खेचर, बड़ी-बड़ी दाढ़ोंवाले हिंसक जीव, जिन्हें विग्रह प्रिय है, बलवान्, लम्बोदर, पीले नेत्रवाले तथा विश्वरूपधारी गण, मरुद्गण, मेघ, कला, त्रुटि, लव, क्षण, नक्षत्र, ग्रह, शिशिर आदि ऋतु, मास, दिन, रात, सूर्य, चन्द्रमा, आमोद, प्रमोद, हर्ष, शोक, रज, तम, तप, सत्य, शुद्धि, बुद्धि, धृति, श्रुति, रुद्राणी, भद्रकाली, भद्रा, ज्येष्ठा, वारुणी, भासी, कालिका, शाण्डिली, आर्या, कुहू, सिनीवाली, भीमा, चित्ररथी, रति, एकानंशा, कूष्माण्डी, कात्यायनी देवी, लोहित्या, जनमाता, देवकन्याएँ, गोनन्दा तथा देवपत्नी—ये बन्धु-बान्धवोंसहित मेरी रक्षा करें ॥

नानाभरणवेशाश्च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥ ५३ ॥