हारीत संहिता (महर्षि आत्रेय-हारीत मुनि संवाद - सम्पूर्ण ६ स्थान सटीक)
Harita Samhita of Sage Harita with Hindi Commentary
महर्षि हारीत / आत्रेय मुनि द्वारा
पृष्ठ 112, कुल 548 में से
संदर्भ में पढ़ें( ८० ) हारीतसंहिता । [ प्रथमस्थाने-
अथ उडदके यूषका गुण ।
घनं सवातं कफकृन्माषयूषं च पित्तकृत् ॥
अम्लं पर्युषितं तच्च तैलपाके च शस्यते ॥ ५ ॥
उड़दका यूष भारी है, वातको और कफको करता है, पित्तको करता है, खट्टा है और बासी
हुआ यह खट्टा यूष तेलपाकमें श्रेष्ठ है ॥ ५ ॥
अथ अन्ययूषोंके गुण ।
अन्यानि च प्रशस्तानि कुलत्थान्युषितानि च ॥ मसूरास्त्रिपुटा
बल्याः कलायाद्याश्च वर्जिताः ॥ ६ ॥ इत्यात्रेयभाषिते हारी-
तोत्तरे यूषवर्गो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
और बासी हुए कुलथी आदिके भी यूष अच्छे हैं और मसूरके यूष बलमें हित हैं और मटर
आदिके यूष वर्जित हैं ॥ ६ ॥ इति बेरीनिवासिबुधशिवसहायसूनुवैद्यरविदत्तशास्त्र्यनुवादित-
हारीतसंहिताभाषाटीकायां यूषवर्गो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
चतुर्दशोऽध्यायः १४.
———oOo———
अथ तेलवसावर्ग ।
अथातः संप्रवक्ष्यामि तैलानां च गुणागुणान् ॥
तच्च ज्ञेयं समासेन यथायोग्यं यथाविधि ॥ १ ॥
अब तेलोंके गुणदोषको कहता हूं, वह तेल विस्तारसे यथायोग्य और यथाविधि जानना ॥ १ ॥
अथ तिलोंके तेलका गुण ।
कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च ॥ पित्तकृद्वातशमनं
श्लेष्मरोगादिवर्द्धनम् ॥ २ ॥ अहपं रुचिकरं मेध्यं कण्डूकुष्ठवि-
कारनुत् ॥ वृष्यं श्रमापहं ज्ञेयं तिलतैलं विदुबुर्धाः ॥ ३ ॥ छिन्न
भिन्ने च्युते घृष्टे भग्नाग्निदाहकेऽपि च ॥ वाताभिष्यन्दिस्रुटने
चाभ्यङ्गे तिलतैलकम् ॥४॥ विषे व्यालशुनः सर्पभेकाभ्यङ्गा-
वगाहने ॥ पाने बस्तौ बलाशे च तिलतैलं विधीयते ॥ ५ ॥
तिलतैलं विधेयं स्यात्सर्वरोगनिवारण ॥ ६ ॥